भाषा

ENहिગુ
ग्रंथ पाठ

मध्यमकशास्त्र · अध्याय 3

3.1

3 चक्षुरादीन्द्रियपरीक्षा तृतीयं प्रकरणम् ।
दर्शनं श्रवणं घ्राणं रसनं स्पर्शनं मनः ।
इन्द्रियाणि षडेतेषां द्रष्टव्यादीनि गोचरः

3.2

स्वमात्मानं दर्शनं हि तत्तमेव न पश्यति ।
न पश्यति यदात्मानं कथं द्रक्ष्यति तत्परान्

3.3

न पर्याप्तो ऽग्निदृष्टान्तो दर्शनस्य प्रसिद्धये ।
सदर्शनः स प्रत्युक्तो गम्यमानगतागतैः

3.4

नापश्यमानं भवति यदा किंचन दर्शनम् ।
दर्शनं पश्यतीत्येवं कथमेतत्तु युज्यते

3.5

पश्यति दर्शनं नैव नैव पश्यत्यदर्शनम् ।
व्याख्यातो दर्शनेनैव द्रष्टा चाप्युपगम्यताम्

3.6

तिरस्कृत्य द्रष्टा नास्त्यतिरस्कृत्य च दर्शनम् ।
द्रष्टव्यं दर्शनं चैव द्रष्टर्यसति ते कुतः

3.7

प्रतीत्य मातापितरौ यथोक्तः पुत्रसंभवः ।
चक्षूरूपे प्रतीत्यैवमुक्तो विज्ञानसंभवः

3.8

द्रष्टव्यदर्शनाभावाद्विज्ञानादिचतुष्टयम् ।
नास्तीति उपादानादीनि भविष्यन्ति पुनः कथम्

3.9

व्याख्यातं श्रवणं घ्राणं रसनं स्पर्शनं मनः ।
दर्शनेनैव जानीयाच्छ्रोतृश्रोतव्यकादि च

मूल पाठ: Madhyamakaśāstra · Edition: P. L. Vaidya: Madhyamakaśāstra of Nāgārjuna. Darbhanga: Mithila Institute, 1960. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc