भाषा

ENहिગુ
ग्रंथ पाठ

मध्यमकशास्त्र · अध्याय 2

2.1

2 गतागतपरीक्षा द्वितीयं प्रकरणम् ।
गतं न गम्यते तावदगतं नैव गम्यते ।
गतागतविनिर्मुक्तं गम्यमानं न गम्यते

2.2

चेष्टा यत्र गतिस्तत्र गम्यमाने च सा यतः ।
न गते नागते चेष्टा गम्यमाने गतिस्ततः

2.3

गम्यमानस्य गमनं कथं नामोपपत्स्यते ।
गम्यमाने द्विगमनं यदा नैवोपपद्यते

2.4

गम्यमानस्य गमनं यस्य तस्य प्रसज्यते ।
ऋते गतेर्गम्यमानं गम्यमानं हि गम्यते

2.5

गम्यमानस्य गमने प्रसक्तं गमनद्वयम् ।
येन तद्गम्यमानं च यच्चात्र गमनं पुनः

2.6

द्वौ गन्तारौ प्रसज्येते प्रसक्ते गमनद्वये ।
गन्तारं हि तिरस्कृत्य गमनं नोपपद्यते

2.7

गन्तारं चेत्तिरस्कृत्य गमनं नोपपद्यते ।
गमने ऽसति गन्ताथ कुत एव भविष्यति

2.8

गन्ता न गच्छति तावदगन्ता नैव गच्छति ।
अन्यो गन्तुरगन्तुश्च कस्तृतीयो हि गच्छति

2.9

गन्ता तावद्गच्छतीति कथमेवोपपत्स्यते ।
गमनेन विना गन्ता यदा नैवोपपद्यते

2.10

पक्षो गन्ता गच्छतीति यस्य तस्य प्रसज्यते ।
गमनेन विना गन्ता गन्तुर्गमनमिच्छतः

2.11

गमने द्वे प्रसज्येते गन्ता यद्युत गच्छति ।
गन्तेति चोच्यते येन गन्ता सन् यच्च गच्छति

2.12

गते नारभ्यते गन्तुं गतं नारभ्यते ऽगते ।
नारभ्यते गम्यमाने गन्तुमारभ्यते कुह

2.13

न पूर्वं गमनारम्भाद्गम्यमानं न वा गतम् ।
यत्रारभ्येत गमनमगते गमनं कुतः

2.14

गतं किं गम्यमानं किमगतं किं विकल्प्यते ।
अदृश्यमान आरम्भे गमनस्यैव सर्वथा

2.15

गन्ता न तिष्ठति तावदगन्ता नैव तिष्ठति ।
अन्यो गन्तुरगन्तुश्च कस्तृतीयो ऽथ तिष्ठति

2.16

गन्ता तावत्तिष्ठतीति कथमेवोपपत्स्यते ।
गमनेन विना गन्ता यदा नैवोपपद्यते

2.17

न तिष्ठति गम्यमानान्न गतान्नागतादपि ।
गमनं संप्रवृत्तिश्च निवृत्तिश्च गतेः समा

2.18

यदेव गमनं गन्ता स एवेति न युज्यते ।
अन्य एव पुनर्गन्ता गतेरिति न युज्यते

2.19

यदेव गमनं गन्ता स एव हि भवेद्यदि ।
एकीभावः प्रसज्येत कर्तुः कर्मण एव च

2.20

अन्य एव पुनर्गन्ता गतेर्यदि विकल्प्यते ।
गमनं स्यादृते गन्तुर्गन्ता स्याद्गमनादृते

2.21

एकीभावेन वा सिद्धिर्नानाभावेन वा ययोः ।
न विद्यते, तयोः सिद्धिः कथं नु खलु विद्यते

2.22

गत्या ययोच्यते गन्ता गतिं तां स न गच्छति ।
यस्मान्न गतिपूर्वो ऽस्ति कश्चित्किंचिद्धि गच्छति

2.23

गत्या ययोच्यते गन्ता ततो ऽन्यां स न गच्छति ।
गती द्वे नोपपद्येते यस्मादेके प्रगच्छति

2.24

सद्भूतो गमनं गन्ता त्रिप्रकारं न गच्छति ।
नासद्भूतो ऽपि गमनं त्रिप्रकारं स गच्छति

2.25

गमनं सदसद्भूतस्त्रिप्रकारं न गच्छति ।
तस्माद्गतिश्च गन्ता च गन्तव्यं च न विद्यते

मूल पाठ: Madhyamakaśāstra · Edition: P. L. Vaidya: Madhyamakaśāstra of Nāgārjuna. Darbhanga: Mithila Institute, 1960. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc