भाषा

ENहिગુ
ग्रंथ पाठ

मध्यमकशास्त्र · अध्याय 25

25.1

25 निर्वाणपरीक्षा पञ्चविंशतितमं प्रकरणम् ।
यदि शून्यमिदं सर्वमुदयो नास्ति न व्ययः ।
प्रहाणाद्वा निरोधाद्वा कस्य निर्वाणमिष्यते

25.2

यद्यशून्यमिदं सर्वमुदयो नास्ति न व्ययः ।
प्रहाणाद्वा निरोधाद्वा कस्य निर्वाणमिष्यते

25.3

अप्रहीणमसंप्राप्तमनुच्छिन्नमशाश्वतम् ।
अनिरुद्धमनुत्पन्नमेतन्निर्वाणमुच्यते

25.4

भावस्तावन्न निर्वाणं जरामरणलक्षणम् ।
प्रसज्येतास्ति भावो हि न जरामरणं विना

25.5

भावश्च यदि निर्वाणं निर्वाणं संस्कृतं भवेत् ।
नासंस्कृतो हि विद्यते भावः क्वचन कश्चन

25.6

भावश्च यदि निर्वाणमनुपादाय तत्कथम् ।
निर्वाणं नानुपादाय कश्चिद् भावो हि विद्यते

25.7

यदि भावो न निर्वाणमभावः किं भविष्यति ।
निर्वाणं यत्र भावो न नाभावस्तत्र विद्यते

25.8

यद्यभावश्च निर्वाणमनुपादाय तत्कथम् ।
निर्वाणं न ह्यभावो ऽस्ति यो ऽनुपादाय विद्यते

25.9

य आजवंजवीभाव उपादाय प्रतीत्य व ।
सो ऽप्रतीत्यानुपादाय निर्वाणमुपदिश्यते

25.10

प्रहाणं चाब्रवीच्छास्ता भवस्य विभवस्य च ।
तस्मान्न भावो नाभावो निर्वाणमिति युज्यते

25.11

भवेदभावो भावश्च निर्वाणमुभयं यदि ।
भवेदभावो भावश्च मोक्षस्तच्च न युज्यते

25.12

भवेदभावो भावश्च निर्वाणमुभयं यदि ।
नानुपादाय निर्वाणमुपादायोभयं हि तत्

25.13

भवेदभावो भावश्च निर्वाणमुभयं कथम् ।
असंस्कृतं च निर्वाणं भावाभावौ च संस्कृतौ

25.14

भवेदभावो भावश्च निर्वाणे उभयं कथम् ।
[तयोरेकत्र नास्तित्वमालोकतमसोर्यथा]

25.15

नैवाभावो नैव भावो निर्वाणमिति याञ्जना ।
अभावे चैव भावे च सा सिद्धे सति सिध्यति

25.16

नैवाभावो नैव भावो निर्वाणं यदि विद्यते ।
नैवाभावो नैव भाव इति केन तदज्यते

25.17

परं निरोधाद्भगवान् भवतीत्येव नोह्यते ।
न भवत्युभयं चेति नोभयं चेति नोह्यते

25.18

तिष्ठमानो ऽपि भगवान् भवतीत्येव नोह्यते ।
न भवत्युभयं चेति नोभयं चेति नोह्यते

25.19

न संसारस्य निर्वाणात्किंचिदस्ति विशेषणम् ।
न निर्वाणस्य संसारात्किंचिदस्ति विशेषणम्

25.20

निर्वाणस्य च या कोटिः कोटिः संसरणस्य च ।
न तयोरन्तरं किंचित्सुमूक्ष्ममपि विद्यते

25.21

परं निरोधादन्ताद्याः शाश्वताद्याश्च दृष्टयः ।
निर्वाणमपरान्तं च पूर्वान्तं च समाश्रिताः

25.22

शून्येषु सर्वधर्मेषु किमनन्तं किमन्तवत् ।
किमनन्तमन्तवच्च नानन्तं नान्तवच्च किम्

25.23

किं तदेव किमन्यत्किं शाश्वतं किमशाश्वतम् ।
अशाश्वतं शाश्वतं च किं वा नोभयमप्यतः

25.24

सर्वोपलम्भोपशमः प्रपञ्चोपशमः शिवः ।
न क्वचित्कस्यचित्कश्चिद्धर्मो बुद्धेन देशितः

मूल पाठ: Madhyamakaśāstra · Edition: P. L. Vaidya: Madhyamakaśāstra of Nāgārjuna. Darbhanga: Mithila Institute, 1960. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc