मध्यमकशास्त्र · अध्याय 26
26 द्वादशाङ्गपरीक्षा षड्विंशतितमं प्रकरणम् ।
पुनर्भवाय संस्कारानविद्यानिवृतस्त्रिधा ।
अभिसंस्कुरुते यांस्तैर्गतिं गच्छति कर्मभिः
विज्ञानं संनिविशते संस्कारप्रत्ययं गतौ ।
संनिविष्टे ऽथ विज्ञाने नामरूपं निषिच्यते
निषिक्ते नामरूपे तु षडायतनसंभवः ।
षडायतनमागम्य संस्पर्शः संप्रवर्तते
चक्षुः प्रतीत्य रूपं च समन्वाहारमेव च ।
नामरूपं प्रतीत्यैवं विज्ञानं संप्रवर्तते
संनिपातस्त्रयाणां यो रूपविज्ञानचक्षुषाम् ।
स्पर्शः सः तस्मात्स्पर्शाच्च वेदना संप्रवर्तते
वेदनाप्रत्यया तृष्णा वेदनार्थं हि तृष्यते ।
तृष्यमाण उपादानमुपादत्ते चतुर्विधम्
उपादाने सति भव उपादातुः प्रवर्तते ।
स्याद्धि यद्यनुपादानो मुच्येत न भवेद्भवः
पञ्च स्कन्धाः स च भवः भवाज्जातिः प्रवर्तते ।
जरामरणदुःखादि शोकाः सपरिदेवनाः
दौर्मनस्यमुपायासा जातेरेतत्प्रवर्तते ।
केवलस्यैवमेतस्य दुःखस्कन्धस्य संभवः
संसारमूलान्संस्कारानविद्वान् संस्करोत्यतः ।
अविद्वान् कारकस्तस्मान्न विद्वांस्तत्त्वदर्शनात्
अविद्यायां निरुद्धायां संस्काराणामसंभवः ।
अविद्याया निरोधस्तु ज्ञानेनास्यैव भावनात्
तस्य तस्य निरोधेन तत्तन्नाभिप्रवर्तते ।
दुःखस्कन्धः केवलो ऽयमेवं सम्यङ् निरुध्यते
मूल पाठ: Madhyamakaśāstra · Edition: P. L. Vaidya: Madhyamakaśāstra of Nāgārjuna. Darbhanga: Mithila Institute, 1960. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0