मध्यमकशास्त्र · अध्याय 21
21 संभवविभवपरीक्षा एकविंशतितमं प्रकरणम् ।
विना वा सह वा नास्ति विभवः संभवेन वै ।
विना वा सह वा नास्ति संभवो विभवेन वै
भविष्यति कथं नाम विभवः संभवं विना ।
विनैव जन्म मरणं विभवो नोद्भवं विना
संभवेनैव विभवः कथं सह भविष्यति ।
न जन्ममरणं चैवं तुल्यकालं हि विद्यते
भविष्यति कथं नाम संभवो विभवं विना ।
अनित्यता हि भावेषु न कदाचिन्न विद्यते
संभवो विभवेनैव कथं सह भविष्यति ।
न जन्ममरणं चैव तुल्यकालं हि विद्यते
सहान्योन्येन वा सिद्धिर्विनान्योन्येन वा ययोः ।
न विद्यते, तयोः सिद्धिः कथं नु खलु विद्यते
क्षयस्य संभवो नास्ति नाक्षयस्यापि संभवः ।
क्षयस्य विभवो नास्ति विभवो नाक्षयस्य च
संभवो विभवश्चैव विना भावं न विद्यते ।
संभवं विभवं चैव विना भावो न विद्यते
संभवो विभवश्चैव न शून्यस्योपपद्यते ।
संभवो विभवश्चैव नाशून्यस्योपपद्यते
संभवो विभवश्चैव नैक इत्युपपद्यते ।
संभवो विभवश्चैव न नानेत्युपपद्यते
दृश्यते संभवश्चैव विभवश्चैव ते भवेत् ।
दृश्यते संभवश्चैव मोहाद्विभव एव च
न भावाज्जायते भावो भावो ऽभावान्न जायते ।
नाभावाज्जायते ऽभावो ऽभावो भावान्न जायते
न स्वतो जायते भावः परतो नैव जायते ।
न स्वतः परतश्चैव जायते, जायते कुतः
भावमभ्युपपन्नस्य शाश्वतोच्छेददर्शनम् ।
प्रसज्यते स भावो हि नित्यो ऽनित्यो ऽथ वा भवेत्
भावमभ्युपपन्नस्य नैवोच्छेदो न शाश्वतम् ।
उदयव्ययसंतानःफलहेत्वोर्भवः स हि
उदयव्ययसंतानः फलहेत्वोर्भवः स चेत् ।
व्ययस्यापुनरुत्पत्तेर्हेतूच्छेदः प्रसज्यते
सद्भावस्य स्वभावेन नासद्भावश्च युज्यते ।
निर्वाणकाले चोच्छेदः प्रशमाद्भवसंततेः
चरमे न निरुद्धे च प्रथमो युज्यते भवः ।
चरमे नानिरुद्धे च प्रथमो युज्यते भवः
निरुध्यमाने चरमे प्रथमो यदि जायते ।
निरुध्यमान एकः स्याज्जायमानो ऽपरो भवेत्
न चेन्निरुध्यमानश्च जायमानश्च युज्यते ।
सार्धं च म्रियते येषु तेषु स्कन्धेषु जायते
एवं त्रिष्वपि कालेषु न युक्ता भवसंततिः ।
त्रिषु कालेषु या नास्ति सा कथं भवसंततिः
मूल पाठ: Madhyamakaśāstra · Edition: P. L. Vaidya: Madhyamakaśāstra of Nāgārjuna. Darbhanga: Mithila Institute, 1960. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0