भाषा

ENहिગુ
ग्रंथ पाठ

मध्यमकशास्त्र · अध्याय 20

20.1

20 सामग्रीपरीक्षा विंशतितमं प्रकरणम् ।
हेतोश्च प्रत्ययानां च सामग्र्या जायते यदि ।
फलमस्ति च सामग्र्यां सामग्र्या जायते कथम्

20.2

हेतोश्च प्रत्ययानां च सामग्र्या जायते यदि ।
फलं नास्ति च सामग्र्यां सामग्र्या जायते कथम्

20.3

हेतोश्च प्रत्ययानां च सामग्र्यामस्ति चेत्फलम् ।
गृह्येत ननु सामग्र्यां सामग्र्यां च न गृह्यते

20.4

हेतोश्च प्रत्ययानां च सामग्र्यां नास्ति चेत्फलम् ।
हेतवः प्रत्ययाश्च स्युरहेतुप्रत्ययैः समाः

20.5

हेतुकं फलस्य दत्वा यदि हेतुर्निरुध्यते ।
यद्दत्तं यन्निरुद्धं च हेतोरात्मद्वयं भवेत्

20.6

हेतुं फलस्यादत्वा च यदि हेतुर्निरुध्यते ।
हेतौ निरुद्धे जातं तत्फलमाहेतुकं भवेत्

20.7

फलं सहैव सामग्र्या यदि प्रादुर्भवेत्पुनः ।
एककालौ प्रसज्येते जनको यश्च जन्यते

20.8

पूर्वमेव च सामग्र्याः फलं प्रादुर्भवेद्यदि ।
हेतुप्रत्ययनिर्मुक्तं फलमाहेतुकं भवेत्

20.9

निरुद्धे चेत्फलं हेतौ हेतोः संक्रमणं भवेत् ।
पूर्वजातस्य हेतोश्च पुनर्जन्म प्रसज्यते

20.10

जनयेत्फलमुत्पन्नं निरुद्धो ऽस्तंगतः कथम् ।
तिष्ठन्नपि कथं हेतुः फलेन जनयेद्वृतः

20.11

अथावृतः फलेनासौ कतमज्जनयेत्फलम् ।
न ह्यदृष्ट्वा वा दृष्ट्वा वा हेतुर्जनयते फलम्

20.12

नातीतस्य ह्यतीतेन फलस्य सह हेतुना ।
नाजातेन न जातेन संगतिर्जातु विद्यते

20.13

न जातस्य ह्यजातेन फलस्य सह हेतुना ।
नातीतेन न जातेन संगतिर्जातु विद्यते

20.14

नाजातस्य हि जातेन फलस्य सह हेतुना ।
नाजातेन न नष्टेन संगतिर्जातु विद्यते

20.15

असत्यां संगतौ हेतुः कथं जनयते फलम् ।
सत्यां वा संगतौ हेतुः कथं जनयते फलम्

20.16

हेतुः फलेन शून्यश्चेत्कथं जनयते फलम् ।
हेतुः फलेनाशून्यश्चेत्कथं जनयते फलम्

20.17

फलं नोत्पत्स्यते ऽशून्यमशून्यं न निरोत्स्यते ।
अनिरुद्धमनुत्पन्नमशून्यं तद्भविष्यति

20.18

कथमुत्पत्स्यते शून्यं कथं शून्यं निरोत्स्यते ।
शून्यमप्यनिरुद्धं तदनुत्पन्नं प्रसज्यते

20.19

हेतोः फलस्य चैकत्वं न हि जातूपपद्यते ।
हेतोः फलस्य चान्यत्वं न हि जातूपपद्यते

20.20

एकत्वे फलहेत्वोः स्यादैक्यं जनकजन्ययोः ।
पृथक्त्वे फलहेत्वोः स्यात्तुल्यो हेतुरहेतुना

20.21

फलं स्वभावसद्भूतं किं हेतुर्जनयिष्यति ।
फलं स्वभावासद्भूतं किं हेतुर्जनयिष्यति

20.22

न चाजनयमानस्य हेतुत्वमुपपद्यते ।
हेतुत्वानुपपत्तौ च फलं कस्य भविष्यति

20.23

न च प्रत्ययहेतूनामियमात्मानमात्मना ।
या सामग्री जनयते सा कथं जनयेत्फलम्

20.24

न सामग्रीकृतं फलं नासामग्रीकृतं फलम् ।
अस्ति प्रत्ययसामग्री कुत एव फलं विना

मूल पाठ: Madhyamakaśāstra · Edition: P. L. Vaidya: Madhyamakaśāstra of Nāgārjuna. Darbhanga: Mithila Institute, 1960. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc