मध्यमकशास्त्र · अध्याय 19
19 कालपरीक्षा एकोनविंशतितमं प्रकरणम् ।
प्रत्युत्पन्नो ऽनागतश्च यद्यतीतमपेक्ष्य हि ।
प्रत्युत्पन्नो ऽनागतश्च काले ऽतीते भविष्यतः
प्रत्युत्पन्नो ऽनागतश्च न स्तस्तत्र पुनर्यदि ।
प्रत्युत्पन्नो ऽनागतश्च स्यातां कथमपेक्ष्य तम्
अनपेक्ष्य पुनः सिद्धिर्नातीतं विद्यते तयोः ।
प्रत्युत्पन्नो ऽनागतश्च तस्मात्कालो न विद्यते
एतेनैवावशिष्टौ द्वौ क्रमेण परिवर्तकौ ।
उत्तमाधममध्यादीनेकत्वादींश्च लक्षयेत्
नास्थितो गृह्यते कालः स्थितः कालो न विद्यते ।
यो गृह्येतागृहीतश्च कालः प्रज्ञप्यते कथम्
भावं प्रतीत्य कालश्चेत्कालो भावादृते कुतः ।
न च कश्चन भावो ऽस्ति कुतः कालो भविष्यति
मूल पाठ: Madhyamakaśāstra · Edition: P. L. Vaidya: Madhyamakaśāstra of Nāgārjuna. Darbhanga: Mithila Institute, 1960. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0