मध्यमकशास्त्र · अध्याय 17
17 कर्मफलपरीक्षा सप्तदशमं प्रकरणम् ।
आत्मसंयमकं चेतः परानुग्राहकं च यत् ।
मैत्रं स धर्मस्तद्बीजं फलस्य प्रेत्य चेह च
चेतना चेतयित्वा च कर्मोक्तं परमर्षिणा ।
तस्यानेकविधो भेदः कर्मणः परिकीर्तितः
तत्र यच्चेतनेत्युक्तं कर्म तन्मानसं स्मृतम् ।
चेतयित्वा च यत्तूक्तं तत्तु कायिकवाचिकम्
वाग्विष्पन्दो ऽविरतयो याश्चाविज्ञप्तिसंज्ञिताः ।
अविज्ञप्तय एवान्याः स्मृता विरतयस्तथा
परिभोगान्वयं पुण्यमपुण्यं च तथाविधम् ।
चेतना चेति सप्तैते धर्माः कर्माञ्जनाः स्मृताः
तिष्ठत्या पाककालाच्चेत्कर्म तन्नित्यतामियात् ।
निरुद्धं चेन्निरूद्धं सत्किं फलं जनयिष्यति
यो ऽङ्कुरप्रभृतिर्बीजात्संतानो ऽभिप्रवर्तते ।
ततः फलमृते बीजात्स च नाभिप्रवर्तते
बीजाच्च यस्मात्संतानः संतानाच्च फलोद्भवः ।
बीजपूर्वं फलं तस्मान्नोच्छिन्नं नापि शाश्वतम्
यस्तस्माच्चित्तसंतानश्चेतसो ऽभिप्रवर्तते ।
ततः फलमृते चित्तात्स च नाभिप्रवर्तते
चित्ताच्च यस्मात्संतानः संतानाच्च फलोद्भवः ।
कर्मपूर्वं फलं तस्मान्नोच्छिन्नं नापि शाश्वतम्
धर्मस्य साधनोपायाः शुक्लाः कर्मपथा दश ।
फलं कामगुणाः पञ्च धर्मस्य प्रेत्य चेह च
बहवश्च महान्तश्च दोषाः स्युरपि कल्पना ।
यद्येषा तेन नैवैषा कल्पनात्रोपपद्यते
इमां पुनः प्रवक्ष्यामि कल्पनां यात्र योज्यते ।
बुद्धैः प्रत्येकबुद्धैश्च श्रावकैश्चानुवर्णिताम्
पत्रं यथाविप्रणाशस्तथर्णमिव कर्म च ।
चतुर्विधो धातुतः स प्रकृत्याव्याकृतश्च सः
प्रहाणतो न प्रहेयो भावनाहेय एव वा ।
तस्मादविप्रणाशेन जायते कर्मणां फलम्
प्रहाणतः प्रहेयः स्यात्कर्मणः संक्रमेण वा ।
यदि दोषाः प्रसज्येरंस्तत्र कर्मवधादयः
सर्वेषां विषभागानां सभागानां च कर्मणाम् ।
प्रतिसंधौ सधातूनामेक उत्पद्यते तु सः
कर्मणः कर्मणो दृष्टे धर्म उत्पद्यते तु सः ।
द्विप्रकारस्य सर्वस्य विपक्के ऽपि च तिष्ठति
फलव्यतिक्रमाद्वा स मरणाद्वा निरुध्यते ।
अनास्रवं सास्रवं च विभागं तत्र लक्षयेत्
शून्यता च न चोच्छेदः संसारश्च न शाश्वतम् ।
कर्मणो ऽविप्रणाशश्च धर्मो बुद्धेन देशितः
कर्म नोत्पद्यते कस्मात् निःस्वभावं यतस्ततः ।
यस्माच्च तदनुत्पन्नं न तस्माद्विप्रणश्यति
कर्म स्वभावतश्चेत्स्याच्छाश्वतं स्यादसंशयम् ।
अकृतं च भवेत्कर्म क्रियते न हि शाश्वतम्
अकृताभ्यागमभयं स्यात्कर्माकृतकं यदि ।
अब्रह्मचर्यवासश्च दोषस्तत्र प्रसज्यते
व्यवहारा विरुध्यन्ते सर्व एव न संशयः ।
पुण्यपापकृतोर्नैव प्रविभागश्च युज्यते
तद्विपक्वविपाकं च पुनरेव विपक्ष्यति ।
कर्म व्यवस्थितं यस्मात्तस्मात्स्वाभाविकं यदि
कर्म क्लेशात्मकं चेदं ते च क्लेशा न तत्त्वतः ।
न चेत्ते तत्त्वतः क्लेशाः कर्म स्यात्तत्त्वतः कथम्
कर्म क्लेशाश्च देहानां प्रत्ययाः समुदाहृताः ।
कर्म क्लेशाश्च ते शून्या यदि देहेषु का कथा
अविद्यानिवृतो जन्तुस्तृष्णासंयोजनश्च सः ।
स भोक्ता स च न कर्तुरन्यो न च स एव सः
न प्रत्ययसमुत्पन्नं नाप्रत्ययसमुत्थितम् ।
अस्ति यस्मादिदं कर्म तस्मात्कर्तापि नास्त्यतः
कर्म चेन्नास्ति कर्ता च कुतः स्यात्कर्मजं फलम् ।
असत्यथ फले भोक्ता कुत एव भविष्यति
यथा निर्मितकं शास्ता निर्मिमीतर्द्धिसंपदा ।
निर्मितो निर्मिमीतान्यं स च निर्मितकः पुनः
तथा निर्मितकाकारः कर्ता कर्म च तत्कृतम् ।
तद्यथा निर्मितेनान्यो निर्मितो निर्मितस्तथा
क्लेशाः कर्माणि देहाश्च कर्तारश्च फलानि च ।
गन्धर्वनगराकारा मरीचिस्वप्नसंनिभाः
मूल पाठ: Madhyamakaśāstra · Edition: P. L. Vaidya: Madhyamakaśāstra of Nāgārjuna. Darbhanga: Mithila Institute, 1960. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0