भाषा

ENहिગુ
ग्रंथ पाठ

मध्यमकशास्त्र · अध्याय 16

16.1

16 बन्धमोक्षपरीक्षा षोडशमं प्रकरणम् ।
संस्काराः संसरन्ति चेन्न नित्याः संसरन्ति ते ।
संसरन्ति च नानित्याः सत्त्वे ऽप्येष समः क्रमः

16.2

पुद्गलः संसरति चेत्स्कन्धायतनधातुषु ।
पञ्चधा मृग्यमाणो ऽसौ नास्ति कः संसरिष्यति

16.3

उपादानादुपादानं संसरन् विभवो भवेत् ।
विभवश्चानुपादानः कः स किं संसरिष्यति

16.4

संस्काराणां न निर्वाणं कथंचिदुपपद्यते ।
सत्त्वस्यापि न निर्वाणं कथंचिदुपपद्यते

16.5

न बध्यन्ते न मुच्यन्ते उदयव्ययधर्मिणः ।
संस्काराः पूर्ववत्सत्त्वो बध्यते न न मुच्यते

16.6

बन्धनं चेदुपादानं सोपादानो न बध्यते ।
बध्यते नानुपादानः किमवस्थो ऽथ बध्यते

16.7

बध्नीयाद्बन्धनं कामं बन्ध्यात्पूर्वं भवेद्यदि ।
न चास्ति तत् शेषमुक्तं गम्यमानगतागतैः

16.8

बद्धो न मुच्यते तावदबद्धो नैव मुच्यते ।
स्यातां बद्धे मुच्यमाने युगपद्बन्धमोक्षणे

16.9

निर्वास्याम्यनुपादानो निर्वाणं मे भविष्यति ।
इति येषां ग्रहस्तेषामुपादानमहाग्रहः

16.10

न निर्वाणसमारोपो न संसारापकर्षणम् ।
यत्र कस्तत्र संसारो निर्वाणं किं विकल्प्यते

मूल पाठ: Madhyamakaśāstra · Edition: P. L. Vaidya: Madhyamakaśāstra of Nāgārjuna. Darbhanga: Mithila Institute, 1960. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc