लिङ्गपुराण · अध्याय 1.99
संभवः सूचितो देव्यास् त्वया सूत महामते
सविस्तरं वदस्वाद्य सतीत्वे च यथातथम् ॥
मेनाजत्वं महादेव्या दक्षयज्ञविमर्दनम्
विष्णुना च कथं दत्ता देवदेवाय शंभवे ॥
कल्याणं वा कथं तस्य वक्तुमर्हसि सांप्रतम्
तेषां तद्वचनं श्रुत्वा सूतः पौराणिकोत्तमः ॥
संभवं च महादेव्याः प्राह तेषां महात्मनाम्
ब्रह्मणा कथितं पूर्वं दण्डिने तत् सुविस्तरम् ॥
युष्माभिर् वै कुमाराय तेन व्यासाय धीमते
तस्मादहमुपश्रुत्य प्रवदामि सुविस्तरम् ॥
वचनाद्वो महाभागाः प्रणम्योमां तथा भवम्
सा भगाख्या जगद्धात्री लिङ्गमूर्तेस्त्रिवेदिका ॥
लिङ्गस्तु भगवान्द्वाभ्यां जगत्सृष्टिर्द्विजोत्तमाः
लिङ्गमूर्तिः शिवो ज्योतिस् तमसश्चोपरि स्थितः ॥
लिङ्गवेदिसमायोगाद् अर्धनारीश्वरोभवत्
ब्रह्माणं विदधे देवम् अग्रे पुत्रं चतुर्मुखम् ॥
प्राहिणोति स्म तस्यैव ज्ञानं ज्ञानमयो हरः
विश्वाधिको ऽसौ भगवान् अर्धनारीश्वरो विभुः ॥
हिरण्यगर्भं तं देवो जायमानमपश्यत
सो ऽपि रुद्रं महादेवं ब्रह्मापश्यत शङ्करम् ॥
तं दृष्ट्वा संस्थितं देवम् अर्धनारीश्वरं प्रभुम्
तुष्टाव वाग्भिर् इष्टाभिर् वरदं वारिजोद्भवः ॥
विभजस्वेति विश्वेशं विश्वात्मानमजो विभुः
ससर्ज देवीं वामाङ्गात् पत्नीं चैवात्मनः समाम् ॥
श्रद्धा ह्यस्य शुभा पत्नी ततः पुंसः पुरातनी
सैवाज्ञया विभोर्देवी दक्षपुत्री बभूव ह ॥
सतीसंज्ञा तदा सा वै रुद्रमेवाश्रिता पतिम्
दक्षं विनिन्द्य कालेन देवी मैना ह्यभूत्पुनः ॥
नारदस्यैव दक्षो ऽपि शापादेवं विनिन्द्य च
अवज्ञादुर्मदो दक्षो देवदेवमुमापतिम् ॥
अनादृत्य कृतिं ज्ञात्वा सती दक्षेण तत्क्षणात्
भस्मीकृत्वात्मनो देहं योगमार्गेण सा पुनः ॥
बभूव पार्वती देवी तपसा च गिरेः प्रभोः
ज्ञात्वैतद्भगवान् भर्गो ददाह रुषितः प्रभुः ॥
दक्षस्य विपुलं यज्ञं च्यावनेर् वचनादपि
च्यवनस्य सुतो धीमान् दधीच इति विश्रुतः ॥
विजित्य विष्णुं समरे प्रसादात् त्र्यंबकस्य च
विष्णुना लोकपालांश् च शशाप च मुनीश्वरः ॥
रुद्रस्य क्रोधजेनैव वह्निना हविषा सुराः
विनाशो वै क्षणादेव मायया शङ्करस्य वै ॥
मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0