लिङ्गपुराण · अध्याय 1.98
कथं देवेन वै सूत देवदेवान्महेश्वरात्
सुदर्शनाख्यं वै लब्धं वक्तुमर्हसि विष्णुना ॥
देवानाम् असुरेन्द्राणाम् अभवच्च सुदारुणः
सर्वेषामेव भूतानां विनाशकरणो महान् ॥
ते देवाः शक्तिमुशलैः सायकैर्नतपर्वभिः
प्रभिद्यमानाः कुन्तैश् च दुद्रुवुर्भयविह्वलाः ॥
पराजितास्तदा देवा देवदेवेश्वरं हरिम्
प्रणेमुस्तं सुरेशानं शोकसंविग्नमानसाः ॥
तान् समीक्ष्याथ भगवान् देवदेवेश्वरो हरिः
प्रणिपत्य स्थितान्देवान् इदं वचनमब्रवीत् ॥
वत्साः किमिति वै देवाश् च्युतालङ्कारविक्रमाः
समागताः ससंतापा वक्तुमर्हथ सुव्रताः ॥
तस्य तद्वचनं श्रुत्वा तथाभूताः सुरोत्तमाः
प्रणम्याहुर्यथावृत्तं देवदेवाय विष्णवे ॥
भगवन्देवदेवेश विष्णो जिष्णो जनार्दन
दानवैः पीडिताः सर्वे वयं शरणमागताः ॥
त्वमेव देवदेवेश गतिर्नः पुरुषोत्तम
त्वमेव परमात्मा हि त्वं पिता जगतामपि ॥
त्वमेव भर्ता हर्ता च भोक्ता दाता जनार्दन
हन्तुमर्हसि तस्मात्त्वं दानवान्दानवार्दन ॥
दैत्याश् च वैष्णवैर्ब्राह्मै रौद्रैर्याम्यैः सुदारुणैः
कौबेरैश्चैव सौम्यैश् च नैरृत्यैर्वारुणैर्दृढैः ॥
वायव्यैश् च तथाग्नेयैर् ऐशानैर् वार्षिकैः शुभैः
सौरै रौद्रैस् तथा भीमैः कम्पनैर् जृम्भणैर् दृढैः ॥
अवध्या वरलाभात्ते सर्वे वारिजलोचन
सूर्यमण्डलसम्भूतं त्वदीयं चक्रम् उद्यतम् ॥
कुण्ठितं हि दधीचेन च्यावनेन जगद्गुरो
दण्डं शार्ङ्गं तवास्त्रं च लब्धं दैत्यैः प्रसादतः ॥
पुरा जलन्धरं हन्तुं निर्मितं त्रिपुरारिणा
रथाङ्गं सुशितं घोरं तेन तान् हन्तुम् अर्हसि ॥
तस्मात्तेन निहन्तव्या नान्यैः शस्त्रशतैरपि
ततो निशम्य तेषां वै वचनं वारिजेक्षणः ॥
वाचस्पतिमुखानाह स हरिश्चक्रभृत् स्वयम्
भोभो देवा महादेवं सर्वैर् देवैः सनातनैः ॥
सम्प्राप्य सांप्रतं सर्वं करिष्यामि दिवौकसाम्
देवा जलन्धरं हन्तुं निर्मितं हि पुरारिणा ॥
लब्ध्वा रथाङ्गं तेनैव निहत्य च महासुरान्
सर्वान्धुन्धुमुखान्दैत्यान् अष्टषष्टिशतान् सुरान् ॥
सबान्धवान्क्षणादेव युष्मान् संतारयाम्यहम्
एवम् उक्त्वा सुरश्रेष्ठान् सुरश्रेष्ठमनुस्मरन् ॥
सुरश्रेष्ठस्तदा श्रेष्ठं पूजयामास शङ्करम्
लिङ्गं स्थाप्य यथान्यायं हिमवच्छिखरे शुभे ॥
मेरुपर्वतसंकाशं निर्मितं विश्वकर्मणा
त्वरिताख्येन रुद्रेण रौद्रेण च जनार्दनः ॥
स्नाप्य सम्पूज्य गन्धाद्यैर् ज्वालाकारं मनोरमम्
तुष्टाव च तदा रुद्रं सम्पूज्याग्नौ प्रणम्य च ॥
देवं नाम्नां सहस्रेण भवाद्येन यथाक्रमम्
पूजयामास च शिवं प्रणवाद्यं नमो ऽन्तकम् ॥
देवं नाम्नां सहस्रेण भवाद्येन महेश्वरम्
प्रतिनाम स पद्मेन पूजयामास शङ्करम् ॥
अग्नौ च नामभिर् देवं भवाद्यैः समिदादिभिः
स्वाहान्तैर्विधिवद्धुत्वा प्रत्येकमयुतं प्रभुम् ॥
तुष्टाव च पुनः शंभुं भवाद्यैर्भवमीश्वरम्
भवः शिवो हरो रुद्रः पुरुषः पद्मलोचनः ॥
अर्थितव्यः सदाचारः सर्वशंभुर्महेश्वरः
ईश्वरः स्थाणुरीशानः सहस्राक्षः सहस्रपात् ॥
वरीयान् वरदो वन्द्यः शङ्करः परमेश्वरः
गङ्गाधरः शूलधरः परार्थैकप्रयोजनः ॥
सर्वज्ञः सर्वदेवादि गिरिधन्वा जटाधरः
चन्द्रापीडश्चन्द्रमौलिर् विद्वान्विश्वामरेश्वरः ॥
वेदान्तसारसंदोहः कपाली नीललोहितः
ध्यानाधारोपरिच्छेद्यो गौरीभर्ता गणेश्वरः ॥
अष्टमूर्तिर्विश्वमूर्तिस् त्रिवर्गः स्वर्गसाधनः
ज्ञानगम्यो दृढप्रज्ञो देवदेवस्त्रिलोचनः ॥
वामदेवो महादेवः पाण्डुः परिदृढो दृढः
विश्वरूपो विरूपाक्षो वागीशः शुचिरन्तरः ॥
सर्वप्रणयसंवादी वृषाङ्को वृषवाहनः
ईशः पिनाकी खट्वाङ्गी चित्रवेषश्चिरन्तनः ॥
तमोहरो महायोगी गोप्ता ब्रह्माङ्गहृज्जटी
कालकालः कृत्तिवासाः सुभगः प्रणवात्मकः ॥
उन्मत्तवेषश् चक्षुष्यो दुर्वासाः स्मरशासनः
दृढायुधः स्कन्दगुरुः परमेष्ठी परायणः ॥
अनादिमध्यनिधनो गिरिशो गिरिबान्धवः
कुबेरबन्धुः श्रीकण्ठो लोकवर्णोत्तमोत्तमः ॥
सामान्यदेवः कोदण्डी नीलकण्ठः परश्वधी
विशालाक्षो मृगव्याधः सुरेशः सूर्यतापनः ॥
धर्मकर्माक्षमः क्षेत्रं भगवान् भगनेत्रभित्
उग्रः पशुपतिस् तार्क्ष्यः प्रियभक्तः प्रियंवदः ॥
दाता दयाकरो दक्षः कपर्दी कामशासनः
श्मशाननिलयः सूक्ष्मः श्मशानस्थो महेश्वरः ॥
लोककर्ता भूतपतिर् महाकर्ता महौषधी
उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ॥
नीतिः सुनीतिः शुद्धात्मा सोमः सोमरतः सुखी
सोमपो ऽमृतपः सोमो महानीतिर्महामतिः ॥
अजातशत्रुरालोकः संभाव्यो हव्यवाहनः
लोककारो वेदकारः सूत्रकारः सनातनः ॥
महर्षिः कपिलाचार्यो विश्वदीप्तिस्त्रिलोचनः
पिनाकपाणिर् भूदेवः स्वस्तिदः स्वस्तिकृत्सदा ॥
त्रिधामा सौभगः शर्वः सर्वज्ञः सर्वगोचरः
ब्रह्मधृग् विश्वसृक् स्वर्गः कर्णिकारः प्रियः कविः ॥
शाखो विशाखो गोशाखः शिवो नैकः क्रतुः समः
गङ्गाप्लवोदको भावः सकलः स्थपतिः स्थिरः ॥
विजितात्मा विधेयात्मा भूतवाहनसारथिः
सगणो गणकार्यश् च सुकीर्तिश् छिन्नसंशयः ॥
कामदेवः कामपालो भस्मोद्धूलितविग्रहः
भस्मप्रियो भस्मशायी कामी कान्तः कृतागमः ॥
समायुक्तो निवृत्तात्मा धर्मयुक्तः सदाशिवः
चतुर्मुखश्चतुर्बाहुर् दुरावासो दुरासदः ॥
दुर्गमो दुर्लभो दुर्गः सर्वायुधविशारदः
अध्यात्मयोगनिलयः सुतन्तुस्तन्तुवर्धनः ॥
शुभाङ्गो लोकसारङ्गो जगदीशो ऽमृताशनः
भस्मशुद्धिकरो मेरुर् ओजस्वी शुद्धविग्रहः ॥
हिरण्यरेतास् तरणिर् मरीचिर् महिमालयः
महाह्रदो महागर्भः सिद्धवृन्दारवन्दितः ॥
व्याघ्रचर्मधरो व्याली महाभूतो महानिधिः
अमृताङ्गो ऽमृतवपुः पञ्चयज्ञः प्रभञ्जनः ॥
पञ्चविंशतितत्त्वज्ञः पारिजातः परावरः
सुलभः सुव्रतः शूरो वाङ्मयैकनिधिर्निधिः ॥
वर्णाश्रमगुरुर्वर्णी शत्रुजिच्छत्रुतापनः
आश्रमः क्षपणः क्षामो ज्ञानवानचलाचलः ॥
प्रमाणभूतो दुर्ज्ञेयः सुपर्णो वायुवाहनः
धनुर्धरो धनुर्वेदो गुणराशिर्गुणाकरः ॥
अनन्तदृष्टिरानन्दो दण्डो दमयिता दमः
अभिवाद्यो महाचार्यो विश्वकर्मा विशारदः ॥
वीतरागो विनीतात्मा तपस्वी भूतभावनः
उन्मत्तवेषः प्रच्छन्नो जितकामो जितप्रियः ॥
कल्याणप्रकृतिः कल्पः सर्वलोकप्रजापतिः
तपस्वी तारको धीमान् प्रधानप्रभुर् अव्ययः ॥
लोकपालो ऽन्तर्हितात्मा कल्पादिः कमलेक्षणः
वेदशास्त्रार्थतत्त्वज्ञो नियमो नियमाश्रयः ॥
चन्द्रः सूर्यः शनिः केतुर् विरामो विद्रुमच्छविः
भक्तिगम्यः परं ब्रह्म मृगबाणार्पणो ऽनघः ॥
अद्रिराजालयः कान्तः परमात्मा जगद्गुरुः
सर्वकर्माचलस्त्वष्टा मङ्गल्यो मङ्गलावृतः ॥
महातपा दीर्घतपाः स्थविष्ठः स्थविरो ध्रुवः
अहः संवत्सरो व्याप्तिः प्रमाणं परमं तपः ॥
संवत्सरकरो मन्त्रः प्रत्ययः सर्वदर्शनः
अजः सर्वेश्वरः स्निग्धो महारेता महाबलः ॥
योगी योग्यो महारेताः सिद्धः सर्वादिर् अग्निदः
वसुर्वसुमनाः सत्यः सर्वपापहरो हरः ॥
अमृतः शाश्वतः शान्तो बाणहस्तः प्रतापवान्
कमण्डलुधरो धन्वी वेदाङ्गो वेदविन्मुनिः ॥
भ्राजिष्णुर् भोजनं भोक्ता लोकनेता दुराधरः
अतीन्द्रियो महामायः सर्वावासश्चतुष्पथः ॥
कालयोगी महानादो महोत्साहो महाबलः
महाबुद्धिर् महावीर्यो भूतचारी पुरन्दरः ॥
निशाचरः प्रेतचारी महाशक्तिर् महाद्युतिः
अनिर्देश्यवपुः श्रीमान् सर्वहार्यमितो गतिः ॥
बहुश्रुतो बहुमयो नियतात्मा भवोद्भवः
ओजस्तेजो द्युतिकरो नर्तकः सर्वकामकः ॥
नृत्यप्रियो नृत्यनृत्यः प्रकाशात्मा प्रतापनः
बुद्धस्पष्टाक्षरो मन्त्रः सन्मानः सारसंप्लवः ॥
युगादिकृद् युगावर्तो गंभीरो वृषवाहनः
इष्टो विशिष्टः शिष्टेष्टः शरभः शरभो धनुः ॥
अपां निधिरधिष्ठानं विजयो जयकालवित्
प्रतिष्ठितः प्रमाणज्ञो हिरण्यकवचो हरिः ॥
विरोचनः सुरगणो विद्येशो विबुधाश्रयः
बालरूपो बलोन्माथी विवर्तो गहनो गुरुः ॥
करणं कारणं कर्ता सर्वबन्धविमोचनः
विद्वत्तमो वीतभयो विश्वभर्ता निशाकरः ॥
व्यवसायो व्यवस्थानः स्थानदो जगदादिजः
दुन्दुभो ललितो विश्वो भवात्मात्मनि संस्थितः ॥
वीरेश्वरो वीरभद्रो वीरहा वीरभृद् विराट्
वीरचूडामणिर्वेत्ता तीव्रनादो नदीधरः ॥
आज्ञाधरस्त्रिशूली च शिपिविष्टः शिवालयः
वालखिल्यो महाचापस् तिग्मांशुर् निधिर् अव्ययः ॥
अभिरामः सुशरणः सुब्रह्मण्यः सुधापतिः
मघवान्कौशिको गोमान् विश्रामः सर्वशासनः ॥
ललाटाक्षो विश्वदेहः सारः संसारचक्रभृत्
अमोघदण्डी मध्यस्थो हिरण्यो ब्रह्मवर्चसी ॥
परमार्थः परमयः शम्बरो व्याघ्रको ऽनलः
रुचिर् वररुचिर् वन्द्यो वाचस्पतिरहर्पतिः ॥
रविर्विरोचनः स्कन्धः शास्ता वैवस्वतो जनः
युक्तिरुन्नतकीर्तिश् च शान्तरागः पराजयः ॥
कैलासपतिकामारिः सविता रविलोचनः
विद्वत्तमो वीतभयो विश्वहर्ता निवारितः ॥
नित्यो नियतकल्याणः पुण्यश्रवणकीर्तनः
दूरश्रवा विश्वसहो ध्येयो दुःस्वप्ननाशनः ॥
उत्तारको दुष्कृतिहा दुर्धर्षो दुःसहो ऽभयः
अनादिर्भूर्भुवोलक्ष्मीः किरीटी त्रिदशाधिपः ॥
विश्वगोप्ता विश्वभर्ता सुधीरो रुचिराङ्गदः
जननो जनजन्मादिः प्रीतिमान्नीतिमान्नयः ॥
विशिष्टः काश्यपो भानुर् भीमो भीमपराक्रमः
प्रणवः सप्तधाचारो महाकायो महाधनुः ॥
जन्माधिपो महादेवः सकलागमपारगः
तत्त्वातत्त्वविवेकात्मा विभूष्णुर् भूतिभूषणः ॥
ऋषिर्ब्राह्मणविज्जिष्णुर् जन्ममृत्युजरातिगः
यज्ञो यज्ञपतिर्यज्वा यज्ञान्तो ऽमोघविक्रमः ॥
महेन्द्रो दुर्भरः सेनी यज्ञाङ्गो यज्ञवाहनः
पञ्चब्रह्मसमुत्पत्तिर् विश्वेशो विमलोदयः ॥
आत्मयोनिर् अनाद्यन्तः षड्विंशत्सप्तलोकधृक्
गायत्रीवल्लभः प्रांशुर् विश्वावासः प्रभाकरः ॥
शिशुर्गिरिरतः सम्राट् सुषेणः सुरशत्रुहा
अमोघो ऽरिष्टमथनो मुकुन्दो विगतज्वरः ॥
स्वयंज्योतिर् अनुज्योतिर् आत्मज्योतिर् अचञ्चलः
पिङ्गलः कपिलश्मश्रुः शास्त्रनेत्रस् त्रयीतनुः ॥
ज्ञानस्कन्धो महाज्ञानी निरुत्पत्तिर् उपप्लवः
भगो विवस्वानादित्यो योगाचार्यो बृहस्पतिः ॥
उदारकीर्तिर् उद्योगी सद्योगी सदसन्मयः
नक्षत्रमाली राकेशः साधिष्ठानः षडाश्रयः ॥
पवित्रपाणिः पापारिर् मणिपूरो मनोगतिः
हृत्पुण्डरीकमासीनः शुक्लः शान्तो वृषाकपिः ॥
विष्णुर्ग्रहपतिः कृष्णः समर्थो ऽनर्थनाशनः
अधर्मशत्रुरक्षय्यः पुरुहूतः पुरुष्टुतः ॥
ब्रह्मगर्भो बृहद्गर्भो धर्मधेनुर्धनागमः
जगद्धितैषी सुगतः कुमारः कुशलागमः ॥
हिरण्यवर्णो ज्योतिष्मान् नानाभूतधरो ध्वनिः
अरोगो नियमाध्यक्षो विश्वामित्रो द्विजोत्तमः ॥
बृहज्ज्योतिः सुधामा च महाज्योतिरनुत्तमः
मातामहो मातरिश्वा नभस्वान् नागहारधृक् ॥
पुलस्त्यः पुलहो ऽगस्त्यो जातूकर्ण्यः पराशरः
निरावरणधर्मज्ञो विरिञ्चो विष्टरश्रवाः ॥
आत्मभूर् अनिरुद्धो ऽत्रि ज्ञानमूर्तिर् महायशाः
लोकचूडामणिर्वीरः चण्डसत्यपराक्रमः ॥
व्यालकल्पो महाकल्पो महावृक्षः कलाधरः
अलंकरिष्णुस् त्वचलो रोचिष्णुर्विक्रमोत्तमः ॥
आशुशब्दपतिर्वेगी प्लवनः शिखिसारथिः
असंसृष्टो ऽतिथिः शक्रः प्रमाथी पापनाशनः ॥
वसुश्रवाः कव्यवाहः प्रतप्तो विश्वभोजनः
जर्यो जराधिशमनो लोहितश् च तनूनपात् ॥
पृषदश्वो नभोयोनिः सुप्रतीकस् तमिस्रहा
निदाघस्तपनो मेघः पक्षः परपुरंजयः ॥
मुखानिलः सुनिष्पन्नः सुरभिः शिशिरात्मकः
वसंतो माधवो ग्रीष्मो नभस्यो बीजवाहनः ॥
अङ्गिरा मुनिरात्रेयो विमलो विश्ववाहनः
पावनः पुरुजिच्छक्रस् त्रिविद्यो नरवाहनः ॥
मनो बुद्धिरहङ्कारः क्षेत्रज्ञः क्षेत्रपालकः
तेजोनिधिर् ज्ञाननिधिर् विपाको विघ्नकारकः ॥
अधरो ऽनुत्तरो ज्ञेयो ज्येष्ठो निःश्रेयसालयः
शैलो नगस्तनुर्देहो दानवारिररिन्दमः ॥
चारुधीर् जनकश्चारु विशल्यो लोकशल्यकृत्
चतुर्वेदश्चतुर्भावश् चतुरश्चतुरप्रियः ॥
आम्नायो ऽथ समाम्नायस् तीर्थदेवशिवालयः
बहुरूपो महारूपः सर्वरूपश् चराचरः ॥
न्यायनिर्वाहको न्यायो न्यायगम्यो निरञ्जनः
सहस्रमूर्धा देवेन्द्रः सर्वशस्त्रप्रभञ्जनः ॥
मुण्डो विरूपो विकृतो दण्डी दान्तो गुणोत्तमः
पिङ्गलाक्षो ऽथ हर्यक्षो नीलग्रीवो निरामयः ॥
सहस्रबाहुः सर्वेशः शरण्यः सर्वलोकभृत्
पद्मासनः परं ज्योतिः परावरं परं फलम् ॥
पद्मगर्भो महागर्भो विश्वगर्भो विचक्षणः
परावरज्ञो बीजेशः सुमुखः सुमहास्वनः ॥
देवासुरगुरुर्देवो देवासुरनमस्कृतः
देवासुरमहामात्रो देवासुरमहाश्रयः ॥
देवादिदेवो देवर्षि देवासुरवरप्रदः
देवासुरेश्वरो दिव्यो देवासुरमहेश्वरः ॥
सर्वदेवमयो ऽचिन्त्यो देवतात्मात्मसंभवः
ईड्यो ऽनीशः सुरव्याघ्रो देवसिंहो दिवाकरः ॥
विबुधाग्रवरश्रेष्ठः सर्वदेवोत्तमोत्तमः
शिवज्ञानरतः श्रीमान् शिखिश्रीपर्वतप्रियः ॥
जयस्तंभो विशिष्टम्भो नरसिंहनिपातनः
ब्रह्मचारी लोकचारी धर्मचारी धनाधिपः ॥
नन्दी नन्दीश्वरो नग्नो नग्नव्रतधरः शुचिः
लिङ्गाध्यक्षः सुराध्यक्षो युगाध्यक्षो युगावहः ॥
स्ववशः सवशः स्वर्गः स्वरः स्वरमयस्वनः
बीजाध्यक्षो बीजकर्ता धनकृद् धर्मवर्धनः ॥
दंभो ऽदम्भो महादंभः सर्वभूतमहेश्वरः
श्मशाननिलयस्तिष्यः सेतुरप्रतिमाकृतिः ॥
लोकोत्तरस्फुटालोकस् त्र्यंबको नागभूषणः
अन्धकारिर्मखद्वेषी विष्णुकन्धरपातनः ॥
वीतदोषो ऽक्षयगुणो दक्षारिः पूषदन्तहृत्
धूर्जटिः खण्डपरशुः सकलो निष्कलो ऽनघः ॥
आधारः सकलाधारः पाण्डुराभो मृडो नटः
पूर्णः पूरयिता पुण्यः सुकुमारः सुलोचनः ॥
सामगेयः प्रियकरः पुण्यकीर्तिरनामयः
मनोजवस्तीर्थकरो जटिलो जीवितेश्वरः ॥
जीवितान्तकरो नित्यो वसुरेता वसुप्रियः
सद्गतिः सत्कृतिः सक्तः कालकण्ठः कलाधरः ॥
मानी मान्यो महाकालः सद्भूतिः सत्परायणः
चन्द्रसंजीवनः शास्ता लोकगूढो ऽमराधिपः ॥
लोकबन्धुर्लोकनाथः कृतज्ञः कृतिभूषणः
अनपाय्यक्षरः कान्तः सर्वशास्त्रभृतां वरः ॥
तेजोमयो द्युतिधरो लोकमायो ऽग्रणीर् अणुः
शुचिस्मितः प्रसन्नात्मा दुर्जयो दुरतिक्रमः ॥
ज्योतिर्मयो निराकारो जगन्नाथो जलेश्वरः
तुम्बवीणी महाकायो विशोकः शोकनाशनः ॥
त्रिलोकात्मा त्रिलोकेशः शुद्धः शुद्धी रथाक्षजः
अव्यक्तलक्षणो व्यक्तो व्यक्ताव्यक्तो विशांपतिः ॥
वरशीलो वरतुलो मानो मानधनो मयः
ब्रह्मा विष्णुः प्रजापालो हंसो हंसगतिर्यमः ॥
वेधा धाता विधाता च अत्ता हर्ता चतुर्मुखः
कैलासशिखरावासी सर्वावासी सतां गतिः ॥
हिरण्यगर्भो हरिणः पुरुषः पूर्वजः पिता
भूतालयो भूतपतिर् भूतिदो भुवनेश्वरः ॥
संयोगी योगविद्ब्रह्म ब्रह्मण्यो ब्राह्मणप्रियः
देवप्रियो देवनाथो देवज्ञो देवचिन्तकः ॥
विषमाक्षः कलाध्यक्षो वृषाङ्को वृषवर्धनः
निर्मदो निरहङ्कारो निर्मोहो निरुपद्रवः ॥
दर्पहा दर्पितो दृप्तः सर्वर्तुपरिवर्तकः
सप्तजिह्वः सहस्रार्चिः स्निग्धः प्रकृतिदक्षिणः ॥
भूतभव्यभवन्नाथः प्रभवो भ्रान्तिनाशनः
अर्थो ऽनर्थो महाकोशः परकार्यैकपण्डितः ॥
निष्कण्टकः कृतानन्दो निर्व्याजो व्याजमर्दनः
सत्त्ववान् सात्त्विकः सत्य कीर्तिस्तम्भकृतागमः ॥
अकंपितो गुणग्राही नैकात्मा नैककर्मकृत्
सुप्रीतः सुमुखः सूक्ष्मः सुकरो दक्षिणो ऽनलः ॥
स्कन्धः स्कन्धधरो धुर्यः प्रकटः प्रीतिवर्धनः
अपराजितः सर्वसहो विदग्धः सर्ववाहनः ॥
अधृतः स्वधृतः साध्यः पूर्वमूर्तिर्यशोधरः
वराहशृङ्गधृग् वायुर् बलवान् एकनायकः ॥
श्रुतिप्रकाशः श्रुतिमान् एकबन्धुर् अनेकधृक्
श्रीवल्लभशिवारम्भः शान्तभद्रः समञ्जसः ॥
भूशयो भूतिकृद्भूतिर् भूषणो भूतवाहनः
अकायो भक्तकायस्थः कालज्ञानी कलावपुः ॥
सत्यव्रतमहात्यागी निष्ठाशान्तिपरायणः
परार्थवृत्तिर् वरदो विविक्तः श्रुतिसागरः ॥
अनिर्विण्णो गुणग्राही कलङ्काङ्कः कलङ्कहा
स्वभावरुद्रो मध्यस्थः शत्रुघ्नो मध्यनाशकः ॥
शिखण्डी कवची शूली चण्डी मुण्डी च कुण्डली
मेखली कवची खड्गी मायी संसारसारथिः ॥
अमृत्युः सर्वदृक् सिंहस् तेजोराशिर् महामणिः
असंख्येयो ऽप्रमेयात्मा वीर्यवान् कार्यकोविदः ॥
वेद्यो वेदार्थविद्गोप्ता सर्वाचारो मुनीश्वरः
अनुत्तमो दुराधर्षो मधुरः प्रियदर्शनः ॥
सुरेशः शरणं सर्वः शब्दब्रह्म सतां गतिः
कालभक्षः कलङ्कारिः कङ्कणीकृतवासुकिः ॥
महेष्वासो महीभर्ता निष्कलङ्को विशृङ्खलः
द्युमणिस् तरणिर् धन्यः सिद्धिदः सिद्धिसाधनः ॥
निवृत्तः संवृतः शिल्पो व्यूढोरस्को महाभुजः
एकज्योतिर् निरातङ्को नरो नारायणप्रियः ॥
निर्लेपो निष्प्रपञ्चात्मा निर्व्यग्रो व्यग्रनाशनः
स्तव्यस्तवप्रियः स्तोता व्यासमूर्तिरनाकुलः ॥
निरवद्यपदोपायो विद्याराशिरविक्रमः
प्रशान्तबुद्धिरक्षुद्रः क्षुद्रहा नित्यसुन्दरः ॥
धैर्याग्र्यधुर्यो धात्रीशः शाकल्यः शर्वरीपतिः
परमार्थगुरुर् दृष्टिर् गुरुर् आश्रितवत्सलः ॥
रसो रसज्ञः सर्वज्ञः सर्वसत्त्वावलंबनः
एवं नाम्नां सहस्रेण तुष्टाव वृषभध्वजम् ॥
स्नापयामास च विभुः पूजयामास पङ्कजैः
परीक्षार्थं हरेः पूजा कमलेषु महेश्वरः ॥
गोपयामास कमलं तदैकं भुवनेश्वरः
हृतपुष्पो हरिस्तत्र किमिदं त्वभ्यचिन्तयत् ॥
ज्ञात्वा स्वनेत्रमुद्धृत्य सर्वसत्त्वावलम्बनम्
पूजयामास भावेन नाम्ना तेन जगद्गुरुम् ॥
ततस्तत्र विभुर्दृष्ट्वा तथाभूतं हरो हरिम्
तस्मादवतताराशु मण्डलात्पावकस्य च ॥
कोटिभास्करसंकाशं जटामुकुटमण्डितम्
ज्वालामालावृतं दिव्यं तीक्ष्णदंष्ट्रं भयङ्करम् ॥
शूलटङ्कगदाचक्र कुन्तपाशधरं हरम्
वरादभयहस्तं च द्वीपिचर्मोत्तरीयकम् ॥
इत्थंभूतं तदा दृष्ट्वा भवं भस्मविभूषितम्
हृष्टो नमश्चकाराशु देवदेवं जनार्दनः ॥
दुद्रुवुस्तं परिक्रम्य सेन्द्रा देवास्त्रिलोचनम्
चचाल ब्रह्मभुवनं चकम्पे च वसुंधरा ॥
ददाह तेजस्तच्छंभोः प्रान्तं वै शतयोजनम्
अधस्ताच्चोर्ध्वतश्चैव हाहेत्यकृत भूतले ॥
तदा प्राह महादेवः प्रहसन्निव शङ्करः
सम्प्रेक्ष्य प्रणयाद्विष्णुं कृताञ्जलिपुटं स्थितम् ॥
ज्ञातं मयेदमधुना देवकार्यं जनार्दन
सुदर्शनाख्यं चक्रं च ददामि तव शोभनम् ॥
यद्रूपं भवता दृष्टं सर्वलोकभयंकरम्
हिताय तव यत्नेन तव भावाय सुव्रत ॥
शान्तं रणाजिरे विष्णो देवानां दुःखसाधनम्
शान्तस्य चास्त्रं शान्तः स्याच् छान्तेनास्त्रेण किं फलम् ॥
शान्तस्य समरे चास्त्रं शान्तिरेव तपस्विनाम्
योद्धुः शान्त्या बलच्छेदः परस्य बलवृद्धिदः ॥
देवैरशान्तैर्यद्रूपं मदीयं भावयाव्ययम्
किमायुधेन कार्यं वै योद्धुं देवारिसूदन ॥
क्षमा युधि न कार्यं वै योद्धुं देवारिसूदन
अनागते व्यतीते च दौर्बल्ये स्वजनोत्करे ॥
अकालिके त्वधर्मे च अनर्थे वारिसूदन
एवमुक्त्वा ददौ चक्रं सूर्यायुतसमप्रभम् ॥
नेत्रं च नेता जगतां प्रभुर्वै पद्मसन्निभम्
तदाप्रभृति तं प्राहुः पद्माक्षमिति सुव्रतम् ॥
दत्त्वैनं नयनं चक्रं विष्णवे नीललोहितः
पस्पर्श च कराभ्यां वै सुशुभाभ्यामुवाच ह ॥
वरदो ऽहं वरश्रेष्ठ वरान्वरय चेप्सितान्
भक्त्या वशीकृतो नूनं त्वयाहं पुरुषोत्तम ॥
इत्युक्तो देवदेवेन देवदेवं प्रणम्य तम्
त्वयि भक्तिर्महादेव प्रसीद वरमुत्तमम् ॥
नान्यमिच्छामि भक्तानाम् आर्तयो नास्ति यत्प्रभो
तच्छ्रुत्वा वचनं तस्य दयावान् सुतरां भवः ॥
पस्पर्श च ददौ तस्मै श्रद्धां शीतांशुभूषणः
प्राह चैवं महादेवः परमात्मानमच्युतम् ॥
मयि भक्तश् च वन्द्यश् च पूज्यश्चैव सुरासुरैः
भविष्यसि न संदेहो मत्प्रसादात्सुरोत्तम ॥
यदा सती दक्षपुत्री विनिन्द्यैव सुलोचना
मातरं पितरं दक्षं भविष्यति सुरेश्वरी ॥
दिव्या हैमवती विष्णो तदा त्वमपि सुव्रत
भगिनीं तव कल्याणीं देवीं हैमवतीमुमाम् ॥
नियोगाद् ब्रह्मणः साध्वीं प्रदास्यसि ममैव ताम्
मत्संबन्धी च लोकानां मध्ये पूज्यो भविष्यसि ॥
मां दिव्येन च भावेन तदाप्रभृति शङ्करम्
द्रक्ष्यसे च प्रसन्नेन मित्रभूतमिवात्मना ॥
इत्युक्त्वान्तर्दधे रुद्रो भगवान्नीललोहितः
जनार्दनो ऽपि भगवान् देवानामपि संनिधौ ॥
अयाचत महादेवं ब्रह्माणं मुनिभिः समम्
मया प्रोक्तं स्तवं दिव्यं पद्मयोने सुशोभनम् ॥
यः पठेच्छृणुयाद्वापि श्रावयेद्वा द्विजोत्तमान्
प्रतिनाम्नि हिरण्यस्य तत् तस्य फलम् आप्नुयात् ॥
अश्वमेधसहस्रेण फलं भवति तस्य वै
घृताद्यैः स्नापयेद्रुद्रं स्थाल्या वै कलशैः शुभैः ॥
नाम्नां सहस्रेणानेन श्रद्धया शिवमीश्वरम्
सो ऽपि यज्ञसहस्रस्य फलं लब्ध्वासुरेश्वरैः ॥
पूज्यो भवति रुद्रस्य प्रीतिर्भवति तस्य वै
तथास्त्विति तथा प्राह पद्मयोनेर्जनार्दनम् ॥
जग्मतुः प्रणिपत्यैनं देवदेवं जगद्गुरुम्
तस्मान्नाम्नां सहस्रेण पूजयेद् अनघो द्विजाः ॥
जपेन्नाम्नां सहस्रं च स याति परमां गतिम् ॥
मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0