लिङ्गपुराण · अध्याय 1.91
अत ऊर्ध्वं प्रवक्ष्यामि अरिष्टानि निबोधत
येन ज्ञानविशेषेण मृत्युं पश्यन्ति योगिनः ॥
अरुन्धतीं ध्रुवं चैव सोमछायां महापथम्
यो न पश्येन्न जीवेत्स नरः संवत्सरात्परम् ॥
अरिश्मवन्तम् आदित्यं रश्मिवन्तं च पावकम्
यः पश्यति न जीवेद्वै मासादेकादशात्परम् ॥
वमेन्मूत्रं पुरीषं च सुवर्णं रजतं तथा
प्रत्यक्षमथवा स्वप्ने दशमासान्न जीवति ॥
रुक्मवर्णं द्रुमं पश्येद् गन्धर्वनगराणि च
पश्येत् प्रेतपिशाचांश् च नवमासान् स जीवति ॥
अकस्माच्च भवेत्स्थूलो ह्य् अकस्माच्च कृशो भवेत्
प्रकृतेश् च निवर्तेत चाष्टौ मासांश् च जीवति ॥
अग्रतः पृष्ठतो वापि खण्डं यस्य पदं भवेत्
पांसुके कर्दमे वापि सप्तमासान्स जीवति ॥
काकः कपोतो गृध्रो वा निलीयेद्यस्य मूर्धनि
क्रव्यादो वा खगो यस्य षण्मासान् नातिवर्तते ॥
गच्छेद् वायसपङ्क्तीभिः पांसुवर्षेण वा पुनः
स्वच्छायां विकृतां पश्येच् चतुःपञ्च स जीवति ॥
अनभ्रे विद्युतं पश्येद् दक्षिणां दिशमास्थिताम्
उदके धनुर् ऐन्द्रं वा त्रीणि द्वौ वा स जीवति ॥
अप्सु वा यदि वादर्शे यो ह्यात्मानं न पश्यति
अशिरस्कं तथा पश्येन् मासाद् ऊर्ध्वं न जीवति ॥
शवगन्धि भवेद्गात्रं वसागन्धमथापि वा
मृत्युर्ह्युपागतस्तस्य अर्धमासान्न जीवति ॥
यस्य वै स्नातमात्रस्य हृदयं परिशुष्यति
धूमं वा मस्तकात्पश्येद् दशाहान्न स जीवति ॥
संभिन्नो मारुतो यस्य मर्मस्थानानि कृन्तति
अद्भिः स्पृष्टो न हृष्येत तस्य मृत्युरुपस्थितः ॥
ऋक्षवानरयुक्तेन रथेनाशां च दक्षिणाम्
गायन्नृत्यन् व्रजेत् स्वप्ने विद्यान्मृत्युरुपस्थितः ॥
कृष्णांबरधरा श्यामा गायन्ती वाप्यथाङ्गना
यं नयेद्दक्षिणामाशां स्वप्ने सो ऽपि न जीवति ॥
छिद्रं वा स्वस्य कण्ठस्य स्वप्ने यो वीक्षते नरः
नग्नं वा श्रमणं दृष्ट्वा विद्यान्मृत्युमुपस्थितम् ॥
आ मस्तकतलाद्यस् तु निमज्जेत्पङ्कसागरे
दृष्ट्वा तु तादृशं स्वप्नं सद्य एव न जीवति ॥
भस्माङ्गारांश् च केशांश् च नदीं शुष्कां भुजङ्गमान्
पश्येद्यो दशरात्रं तु न स जीवति तादृशः ॥
कृष्णैश् च विकटैश्चैव पुरुषैरुद्यतायुधैः
पाषाणैस्ताड्यते स्वप्ने यः सद्यो न स जीवति ॥
सूर्योदये प्रत्युषसि प्रत्यक्षं यस्य वै शिवाः
क्रोशन्त्यभिमुखं प्रेत्य स गतायुर्भवेन्नरः ॥
यस्य वा स्नातमात्रस्य हृदयं पीड्यते भृशम्
जायते दन्तहर्षश् च तं गतायुषमादिशेत् ॥
भूयोभूयस्त्रसेद्यस्तु रात्रौ वा यदि वा दिवा
दीपगन्धं च नाघ्राति विद्यान्मृत्युम् उपस्थितम् ॥
रात्रौ चेन्द्रधनुः पश्येद् दिवा नक्षत्रमण्डलम्
परनेत्रेषु चात्मानं न पश्येन्न स जीवति ॥
नेत्रमेकं स्रवेद्यस्य कर्णौ स्थानाच्च भ्रश्यतः
वक्रा च नासा भवति विज्ञेयो गतजीवितः ॥
यस्य कृष्णा खरा जिह्वा पद्माभासं च वै मुखम्
गण्डे वा पिण्डिकारक्ते तस्य मृत्युरुपस्थितः ॥
मुक्तकेशो हसंश्चैव गायन्नृत्यंश् च यो नरः
याम्यामभिमुखं गच्छेत् तदन्तं तस्य जीवितम् ॥
यस्य श्वेतघनाभासा श्वेतसर्षपसंनिभा
श्वेता च मूर्तिर्ह्यसकृत् तस्य मृत्युरुपस्थितः ॥
उष्ट्रा वा रासभा वाभि युक्ताः स्वप्ने रथे शुभाः
यस्य सो ऽपि न जीवेत्तु दक्षिणाभिमुखो गतः ॥
द्वे वाथ परमे ऽरिष्टे एकीभूतः परं भवेत्
घोषं न शृणुयात्कर्णे ज्योतिर् नेत्रे न पश्यति ॥
श्वभ्रे यो निपतेत्स्वप्ने द्वारं चापि पिधीयते
न चोत्तिष्ठति यः श्वभ्रात् तदन्तं तस्य जीवितम् ॥
मुखस्य शोषः सुषिरा च नाभिरत्युष्णमूत्रो विषमस्थ एव ॥
दिवा वा यदि वा रात्रौ प्रत्यक्षं यो निहन्यते
हन्तारं न च पश्येच्च स गतायुर्न जीवति ॥
अग्निप्रवेशं कुरुते स्वप्नान्ते यस्तु मानवः
स्मृतिं नोपलभेच्चापि तदन्तं तस्य जीवितम् ॥
यस्तु प्रावरणं शुक्लं स्वकं पश्यति मानवः
कृष्णं रक्तमपि स्वप्ने तस्य मृत्युरुपस्थितः ॥
अरिष्टे सूचिते देहे तस्मिन्काल उपस्थिते
त्यक्त्वा खेदं विषादं च उपेक्षेद् बुद्धिमान् नरः ॥
प्राचीं वा यदि वोदीचीं दिशं निष्क्रम्य वै शुचिः
समे ऽतिस्थावरे देशे विविक्ते जन्तुवर्जिते ॥
उदङ्मुखः प्राङ्मुखो वा स्वस्थश् चाचान्त एव च
स्वस्तिकेनोपविष्टस्तु नमस्कृत्वा महेश्वरम् ॥
समकायशिरोग्रीवो धारयन् नावलोकयेत्
यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता ॥
प्रागुदक्प्रवणे देशे तथा युञ्जीत शास्त्रवित्
कामं वितर्कं प्रीतिं च सुखदुःखे उभे तथा ॥
निगृह्य मनसा सर्वं शुक्लं ध्यानम् अनुस्मरेत्
घ्राणे च रसने नित्यं चक्षुषी स्पर्शने तथा ॥
श्रोत्रे मनसि बुद्धौ च तत्र वक्षसि धारयेत्
कालकर्माणि विज्ञाय समूहेष्वेव नित्यशः ॥
द्वादशाध्यात्ममित्येवं योगधारणमुच्यते
शतमर्धशतं वापि धारणां मूर्ध्नि धारयेत् ॥
खिन्नस्य धारणायोगाद् वायुरूर्ध्वं प्रवर्तते
ततश्चापूरयेद् देहम् ओङ्कारेण समन्वितः ॥
तथौंकारमयो योगी अक्षरे त्वक्षरी भवेत्
अत ऊर्ध्वं प्रवक्ष्यामि ओङ्कारप्राप्तिलक्षणम् ॥
एष त्रिमात्रो विज्ञेयो व्यञ्जनं चात्र चेश्वरः
प्रथमा विद्युती मात्रा द्वितीया तामसी स्मृता ॥
तृतीयां निर्गुणां चैव मात्रामक्षरगामिनीम्
गान्धारी चैव विज्ञेया गान्धारस्वरसंभवा ॥
पिपीलिकागतिस्पर्शा प्रयुक्ता मूर्ध्नि लक्ष्यते
यथा प्रयुक्त ओङ्कारः प्रतिनिर्याति मूर्धनि ॥
तथौंकारमयो योगी त्व् अक्षरी त्वक्षरी भवेत्
प्रणवो धनुः शरो ह्यात्मा ब्रह्मलक्षणमुच्यते ॥
अप्रमत्तेन वेद्धव्यं शरवत् तन्मयो भवेत्
ओमित्येकाक्षरं ह्येतद् गुहायां निहितं पदम् ॥
ओमित्येतत्त्रयो लोकास् त्रयो वेदास्त्रयो ऽग्नयः
विष्णुक्रमास्त्रयस्त्वेते ऋक्सामानि यजूंषि च ॥
मात्रा चार्धं च तिस्रस्तु विज्ञेयाः परमार्थतः
तत्प्रयुक्तस्तु यो योगी तस्य सालोक्यमाप्नुयात् ॥
अकारो ह्यक्षरो ज्ञेय उकारः सहितः स्मृतः
मकारसहितौंकारस् त्रिमात्र इति संज्ञितः ॥
अकारस् त्वेष भूर्लोक उकारो भुव उच्यते
सव्यञ्जनो मकारस्तु स्वर्लोक इति गीयते ॥
ओङ्कारस्तु त्रयो लोकाः शिरस्तस्य त्रिविष्टपम्
भुवनाङ्गं च तत्सर्वं ब्राह्मं तत्पदमुच्यते ॥
मात्रापादो रुद्रलोको ह्य् अमात्रं तु शिवं पदम्
एवं ज्ञानविशेषेण तत्पदं समुपास्यते ॥
तस्माद्ध्यानरतिर्नित्यम् अमात्रं हि तदक्षरम्
उपास्यं हि प्रयत्नेन शाश्वतं सुखमिच्छता ॥
ह्रस्वा तु प्रथमा मात्रा ततो दीर्घा त्वनन्तरम्
ततः प्लुतवती चैव तृतीया चोपदिश्यते ॥
एतास्तु मात्रा विज्ञेया यथावदनुपूर्वशः
यावदेव तु शक्यन्ते धार्यन्ते तावदेव हि ॥
इन्द्रियाणि मनो बुद्धिं ध्यायन्नात्मनि यः सदा
अर्धं तन्मात्रम् अपि चेच् छृणु यत् फलमाप्नुयात् ॥
मासे मासे ऽश्वमेधेन यो यजेत शतं समाः
तेन यत्प्राप्यते पुण्यं मात्रया तदवाप्नुयात् ॥
न तथा तपसोग्रेण न यज्ञैर्भूरिदक्षिणैः
यत्फलं प्राप्यते सम्यङ् मात्रया तदवाप्नुयात् ॥
तत्र चैषा तु या मात्रा प्लुता नामोपदिश्यते
एषा एव भवेत्कार्या गृहस्थानां तु योगिनाम् ॥
एषां चैव विशेषेण ऐश्वर्ये ह्यष्टलक्षणे
अणिमाद्ये तु विज्ञेया तस्माद्युञ्जीत तां द्विजाः ॥
एवं हि योगसंयुक्तः शुचिर् दान्तो जितेन्द्रियः
आत्मानं विद्यते यस्तु स सर्वं विन्दते द्विजाः ॥
तस्मात्पाशुपतैर्योगैर् आत्मानं चिन्तयेद्बुधः
आत्मानं जानते ये तु शुचयस्ते न संशयः ॥
ऋचो यजूंषि सामानि वेदोपनिषदस् तथा
योगज्ञानादवाप्नोति ब्राह्मणो ऽध्यात्मचिन्तकः ॥
सर्वदेवमयो भूत्वा अभूतः स तु जायते
योनिसंक्रमणं त्यक्त्वा याति वै शाश्वतं पदम् ॥
यथा वृक्षात् फलं पक्वं पवनेन समीरितम्
नमस्कारेण रुद्रस्य तथा पापं प्रणश्यति ॥
यत्र रुद्रनमस्कारः सर्वकर्मफलो ध्रुवः
अन्यदेवनमस्कारान् न तत्फलमवाप्नुयात् ॥
तस्मात्त्रिःप्रवणं योगी उपासीत महेश्वरम्
दशविस्तारकं ब्रह्म तथा च ब्रह्मविस्तरैः ॥
एवं ध्यानसमायुक्तः स्वदेहं यः परित्यजेत्
स याति शिवसायुज्यं समुद्धृत्य कुलत्रयम् ॥
अथवारिष्टमालोक्य मरणे समुपस्थिते
अविमुक्तेश्वरं गत्वा वाराणस्यां तु शोधनम् ॥
येन केनापि वा देहं संत्यजेन् मुच्यते नरः
श्रीपर्वते वा विप्रेन्द्राः संत्यजेत्स्वतनुं नरः ॥
स याति शिवसायुज्यं नात्र कार्या विचारणा
अविमुक्तं परं क्षेत्रं जन्तूनां मुक्तिदं सदा ॥
सेवेत सततं धीमान् विशेषान्मरणान्तिके ॥
मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0