लिङ्गपुराण · अध्याय 1.9
आलस्यं प्रथमं पश्चाद् व्याधिपीडा प्रजायते
प्रमादः संशयस्थाने चित्तस्येहानवस्थितिः ॥
अश्रद्धादर्शनं भ्रान्तिर् दुःखं च त्रिविधं ततः
दौर्मनस्यमयोग्येषु विषयेषु च योग्यता ॥
दशधाभिप्रजायन्ते मुनेर्योगान्तरायकाः
आलस्यं चाप्रवृत्तिश् च गुरुत्वात्कायचित्तयोः ॥
व्याधयो धातुवैषम्यात् कर्मजा दोषजास् तथा
प्रमादस्तु समाधेस्तु साधनानाम् अभावनम् ॥
इदं वेत्युभयस्पृक्तं विज्ञानं स्थानसंशयः
अनवस्थितचित्तत्वम् अप्रतिष्ठा हि योगिनः ॥
लब्धायामपि भूमौ च चित्तस्य भवबन्धनात्
अश्रद्धाभावरहिता वृत्तिर्वै साधनेषु च ॥
साध्ये चित्तस्य हि गुरौ ज्ञानाचारशिवादिषु
विपर्ययज्ञानमिति भ्रान्तिदर्शनम् उच्यते ॥
अनात्मन्यात्मविज्ञानम् अज्ञानात्तस्य संनिधौ
दुःखमाध्यात्मिकं प्रोक्तं तथा चैवाधिभौतिकम् ॥
आधिदैविकमित्युक्तं त्रिविधं सहजं पुनः
इच्छाविघातात्संक्षोभश् चेतसस्तदुदाहृतम् ॥
दौर्मनस्यं निरोद्धव्यं वैराग्येण परेण तु
तमसा रजसा चैव संस्पृष्टं दुर्मनः स्मृतम् ॥
तदा मनसि संजातं दौर्मनस्यमिति स्मृतम्
हठात्स्वीकरणं कृत्वा योग्यायोग्यविवेकतः ॥
विषयेषु विचित्रेषु जन्तोर्विषयलोलता
अन्तराया इति ख्याता योगस्यैते हि योगिनाम् ॥
अत्यन्तोत्साहयुक्तस्य नश्यन्ति न च संशयः
प्रनष्टेष्वन्तरायेषु द्विजाः पश्चाद्धि योगिनः ॥
उपसर्गाः प्रवर्तन्ते सर्वे ते ऽसिद्धिसूचकाः
प्रतिभा प्रथमा सिद्धिर् द्वितीया श्रवणा स्मृता ॥
वार्त्ता तृतीया विप्रेन्द्रास् तुरीया चेह दर्शना
आस्वादा पञ्चमी प्रोक्ता वेदना षष्ठिका स्मृता ॥
स्वल्पषट्सिद्धिसंत्यागात् सिद्धिदाः सिद्धयो मुनेः
प्रतिभा प्रतिभावृतिः प्रतिभाव इति स्थितिः ॥
बुद्धिर्विवेचना वेद्यं बुध्यते बुद्धिरुच्यते
सूक्ष्मे व्यवहिते ऽतीते विप्रकृष्टे त्वनागते ॥
सर्वत्र सर्वदा ज्ञानं प्रतिभानुक्रमेण तु
श्रवणात्सर्वशब्दानाम् अप्रयत्नेन योगिनः ॥
ह्रस्वदीर्घप्लुतादीनां गुह्यानां श्रवणादपि
स्पर्शस्याधिगमो यस् तु वेदना तूपपादिता ॥
दर्शनाद्दिव्यरूपाणां दर्शनं चाप्रयत्नतः
संविद्दिव्यरसे तस्मिन्न् आस्वादो ह्यप्रयत्नतः ॥
वार्त्ता च दिव्यगन्धानां तन्मात्रा बुद्धिसंविदा
विन्दन्ते योगिनस्तस्माद् आब्रह्मभुवनं द्विजाः ॥
जगत्यस्मिन् हि देहस्थं चतुःषष्टिगुणं समम्
औपसर्गिकम् एतेषु गुणेषु गुणितं द्विजाः ॥
संत्याज्यं सर्वथा सर्वम् औपसर्गिकमात्मनः
पैशाचे पार्थिवं चाप्यं राक्षसानां पुरे द्विजाः ॥
याक्षे तु तैजसं प्रोक्तं गान्धर्वे श्वसनात्मकम्
ऐन्द्रे व्योमात्मकं सर्वं सौम्ये चैव तु मानसम् ॥
प्राजापत्ये त्वहङ्कारं ब्राह्मे बोधमनुत्तमम्
आद्ये चाष्टौ द्वितीये च तथा षोडशरूपकम् ॥
चतुर्विंशत्तृतीये तु द्वात्रिंशच्च चतुर्थके
चत्वारिंशत् पञ्चमे तु भूतमात्रात्मकं स्मृतम् ॥
गन्धो रसस् तथा रूपं शब्दः स्पर्शस्तथैव च
प्रत्येकमष्टधा सिद्धं पञ्चमे तच्छतक्रतोः ॥
तथाष्टचत्वारिंशच् च षट्पञ्चाशत्तथैव च
चतुःषष्टिगुणं ब्राह्मं लभते द्विजसत्तमाः ॥
औपसर्गिकम् आ ब्रह्म भुवनेषु परित्यजेत्
लोकेष्वालोक्य योगेन योगवित्परमं सुखम् ॥
स्थूलता ह्रस्वता बाल्यं वार्धक्यं यौवनं तथा
नानाजातिस्वरूपं च चतुर्भिर् देहधारणम् ॥
पार्थिवांशं विना नित्यं सुरभिर् गन्धसंयुतः
एतदष्टगुणं प्रोक्तम् ऐश्वर्यं पार्थिवं महत् ॥
जले निवसनं यद्वद् भूम्यामिव विनिर्गमः
इच्छेच्छक्तः स्वयं पातुं समुद्रमपि नातुरः ॥
यत्रेच्छति जगत्यस्मिंस् तत्रास्य जलदर्शनम्
यद्यद्वस्तु समादाय भोक्तुमिच्छति कामतः ॥
तत्तद्रसान्वितं तस्य त्रयाणां देहधारणम्
भाण्डं विनाथ हस्तेन जलपिण्डस्य धारणम् ॥
अव्रणत्वं शरीरस्य पार्थिवेन समन्वितम्
एतत् षोडशकं प्रोक्तम् आप्यमैश्वर्यमुत्तमम् ॥
देहादग्निविनिर्माणं तत्तापभयवर्जितम्
लोकं दग्धमपीहान्यद् अदग्धं स्वविधानतः ॥
जलमध्ये हुतवहं चाधाय परिरक्षणम्
अग्निनिग्रहणं हस्ते स्मृतिमात्रेण चागमः ॥
भस्मीभूतविनिर्माणं यथापूर्वं सकामतः
द्वाभ्यां रूपविनिष्पत्तिर् विना तैस्त्रिभिर् आत्मनः ॥
चतुर्विंशात्मकं ह्येतत् तैजसं मुनिपुङ्गवाः
मनोगतित्वं भूतानाम् अन्तर्निवसनं तथा ॥
पर्वतादिमहाभार स्कन्धेनोद्वहनं पुनः
लघुत्वं च गुरुत्वं च पाणिभ्यां वायुधारणम् ॥
अङ्गुल्यग्रनिघातेन भूमेः सर्वत्र कंपनम्
एकेन देहनिष्पत्तिर् वातैश्वर्यं स्मृतं बुधैः ॥
छायाविहीननिष्पत्तिर् इन्द्रियाणां च दर्शनम्
आकाशगमनं नित्यम् इन्द्रियार्थैः समन्वितम् ॥
दूरे च शब्दग्रहणं सर्वशब्दावगाहनम्
तन्मात्रलिङ्गग्रहणं सर्वप्राणिनिदर्शनम् ॥
ऐन्द्रम् ऐश्वर्यम् इत्युक्तम् एतैरुक्तः पुरातनः
यथाकामोपलब्धिश् च यथाकामविनिर्गमः ॥
सर्वत्राभिभवश्चैव सर्वगुह्यनिदर्शनम्
कामानुरूपनिर्माणं वशित्वं प्रियदर्शनम् ॥
संसारदर्शनं चैव मानसं गुणलक्षणम्
छेदनं ताडनं बन्धं संसारपरिवर्तनम् ॥
सर्वभूतप्रसादश् च मृत्युकालजयस् तथा
प्राजापत्यमिदं प्रोक्तम् आहङ्कारिकमुत्तमम् ॥
अकारणजगत्सृष्टिस् तथानुग्रह एव च
प्रलयश्चाधिकारश् च लोकवृत्तप्रवर्तनम् ॥
असादृश्यमिदं व्यक्तं निर्माणं च पृथक्पृथक्
संसारस्य च कर्तृत्वं ब्राह्मम् एतद् अनुत्तमम् ॥
एतावत्तत्त्वमित्युक्तं प्राधान्यं वैष्णवं पदम्
ब्रह्मणा तद्गुणं शक्यं वेत्तुमन्यैर्न शक्यते ॥
विद्यते तत्परं शैवं विष्णुना नावगम्यते
असंख्येयगुणं शुद्धं को जानीयाच्छिवात्मकम् ॥
व्युत्थाने सिद्धयश्चैता ह्य् उपसर्गाश् च कीर्तिताः
निरोद्धव्याः प्रयत्नेन वैराग्येण परेण तु ॥
नाशातिशयतां ज्ञात्वा विषयेषु भयेषु च
अश्रद्धया त्यजेत्सर्वं विरक्त इति कीर्तितः ॥
वैतृष्ण्यं पुरुषे ख्यातं गुणवैतृष्ण्यमुच्यते
वैराग्येणैव संत्याज्याः सिद्धयश्चौपसर्गिकाः ॥
औपसर्गिकम् आ ब्रह्म भुवनेषु परित्यजेत्
निरुध्यैव त्यजेत्सर्वं प्रसीदति महेश्वरः ॥
प्रसन्ने विमला मुक्तिर् वैराग्येण परेण वै
अथवानुग्रहार्थं च लीलार्थं वा तदा मुनिः ॥
अनिरुध्य विचेष्टेद्यः सो ऽप्येवं हि सुखी भवेत्
क्वचिद्भूमिं परित्यज्य ह्य् आकाशे क्रीडते श्रिया ॥
उद्गिरेच्च क्वचिद्वेदान् सूक्ष्मानर्थान् समासतः
क्वचिच्छ्रुते तदर्थेन श्लोकबन्धं करोति सः ॥
क्वचिद्दण्डकबन्धं तु कुर्याद्बन्धं सहस्रशः
मृगपक्षिसमूहस्य रुतज्ञानं च विन्दति ॥
ब्रह्माद्यं स्थावरान्तं च हस्तामलकवद्भवेत्
बहुनात्र किमुक्तेन विज्ञानानि सहस्रशः ॥
उत्पद्यन्ते मुनिश्रेष्ठा मुनेस्तस्य महात्मनः
अभ्यासेनैव विज्ञानं विशुद्धं च स्थिरं भवेत् ॥
तेजोरूपाणि सर्वाणि सर्वं पश्यति योगवित्
देवबिम्बान्यनेकानि विमानानि सहस्रशः ॥
पश्यति ब्रह्मविष्ण्विन्द्र यमाग्निवरुणादिकान्
ग्रहनक्षत्रताराश् च भुवनानि सहस्रशः ॥
पातालतलसंस्थाश् च समाधिस्थः स पश्यति
आत्मविद्याप्रदीपेन स्वस्थेनाचलनेन तु ॥
प्रसादामृतपूर्णेन सत्त्वपात्रस्थितेन तु
तमो निहत्य पुरुषः पश्यति ह्यात्मनीश्वरम् ॥
तस्य प्रसादाद्धर्मश् च ऐश्वर्यं ज्ञानमेव च
वैराग्यमपवर्गश् च नात्र कार्या विचारणा ॥
न शक्यो विस्तरो वक्तुं वर्षाणामयुतैरपि
योगे पाशुपते निष्ठा स्थातव्यं च मुनीश्वराः ॥
मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0