लिङ्गपुराण · अध्याय 1.10
सतां जितात्मनां साक्षाद् द्विजातीनां द्विजोत्तमाः
धर्मज्ञानां च साधूनाम् आचार्याणां शिवात्मनाम् ॥
दयावतां द्विजश्रेष्ठास् तथा चैव तपस्विनाम्
संन्यासिनां विरक्तानां ज्ञानिनां वशगात्मनाम् ॥
दानिनां चैव दान्तानां त्रयाणां सत्यवादिनाम्
अलुब्धानां सयोगानां श्रुतिस्मृतिविदां द्विजाः ॥
श्रौतस्मार्ताविरुद्धानां प्रसीदति महेश्वरः
सदिति ब्रह्मणः शब्दस् तदन्ते ये लभन्त्युत ॥
सायुज्यं ब्रह्मणो याति तेन सन्तः प्रचक्षते
दशात्मके ये विषये साधने चाष्टलक्षणे ॥
न क्रुध्यन्ति न हृष्यन्ति जितात्मानस्तु ते स्मृताः
सामान्येषु च द्रव्येषु तथा वैशेषिकेषु च ॥
ब्रह्मक्षत्रविशो यस्माद् युक्तास्तस्माद्द्विजातयः
वर्णाश्रमेषु युक्तस्य स्वर्गादिसुखकारिणः ॥
श्रौतस्मार्तस्य धर्मस्य ज्ञानाद्धर्मज्ञ उच्यते
विद्यायाः साधनात्साधु ब्रह्मचारी गुरोर्हितः ॥
क्रियाणां साधनाच्चैव गृहस्थः साधुरुच्यते
साधनात्तपसो ऽरण्ये साधुर्वैखानसः स्मृतः ॥
यतमानो यतिः साधुः स्मृतो योगस्य साधनात्
एवमाश्रमधर्माणां साधनात्साधवः स्मृताः ॥
गृहस्थो ब्रह्मचारी च वानप्रस्थो यतिस् तथा
धर्माधर्माविह प्रोक्तौ शब्दावेतौ क्रियात्मकौ ॥
कुशलाकुशलं कर्म धर्माधर्माविति स्मृतौ
धारणार्थे महान् ह्य् एष धर्मशब्दः प्रकीर्तितः ॥
अधारणे महत्त्वे च अधर्म इति चोच्यते
अत्रेष्टप्रापको धर्म आचार्यैरुपदिश्यते ॥
अधर्मश्चानिष्टफलो ह्य् आचार्यैरुपदिश्यते
वृद्धाश्चालोलुपाश्चैव आत्मवन्तो ह्यदाम्भिकाः ॥
सम्यग्विनीता ऋजवस् तानाचार्यान् प्रचक्षते
स्वयमाचरते यस्माद् आचारे स्थापयत्यपि ॥
आचिनोति च शास्त्रार्थान् आचार्यस्तेन चोच्यते
विज्ञेयं श्रवणाच्छ्रौतं स्मरणात्स्मार्तमुच्यते ॥
इज्या वेदात्मकं श्रौतं स्मार्तं वर्णाश्रमात्मकम्
दृष्ट्वानुरूपमर्थं यः पृष्टो नैवापि गूहति ॥
यथादृष्टप्रवादस्तु सत्यं लैङ्गे ऽत्र पठ्यते
ब्रह्मचर्यं तथा मौनं निराहारत्वमेव च ॥
अहिंसा सर्वतः शान्तिस् तप इत्यभिधीयते
आत्मवत् सर्वभूतेषु यो हितायाहिताय च ॥
वर्तते त्वसकृद्वृत्तिः कृत्स्ना ह्येषा दया स्मृता
यद्यदिष्टतमं द्रव्यं न्यायेनैवागतं क्रमात् ॥
तत्तद्गुणवते देयं दातुस्तद्दानलक्षणम्
दानं त्रिविधमित्येतत् कनिष्ठज्येष्ठमध्यमम् ॥
कारुण्यात्सर्वभूतेभ्यः संविभागस्तु मध्यमः
श्रुतिस्मृतिभ्यां विहितो धर्मो वर्णाश्रमात्मकः ॥
शिष्टाचाराविरुद्धश् च स धर्मः साधुरुच्यते
मायाकर्मफलत्यागी शिवात्मा परिकीर्तितः ॥
निवृत्तः सर्वसङ्गेभ्यो युक्तो योगी प्रकीर्तितः
असक्तो भयतो यस्तु विषयेषु विचार्य च ॥
अलुब्धः संयमी प्रोक्तः प्रार्थितो ऽपि समन्ततः
आत्मार्थं वा परार्थं वा इन्द्रियाणीह यस्य वै ॥
न मिथ्या सम्प्रवर्तन्ते शमस्यैव तु लक्षणम्
अनुद्विग्नो ह्यनिष्टेषु तथेष्टान्नाभिनन्दति ॥
प्रीतितापविषादेभ्यो विनिवृत्तिर्विरक्तता
संन्यासः कर्मणां न्यासः कृतानामकृतैः सह ॥
कुशलाकुशलानां तु प्रहाणं न्यास उच्यते
अव्यक्ताद्यविशेषान्ते विकारे ऽस्मिन्नचेतने ॥
चेतनाचेतनान्यत्व विज्ञानं ज्ञानमुच्यते
एवं तु ज्ञानयुक्तस्य श्रद्धायुक्तस्य शङ्करः ॥
प्रसीदति न संदेहो धर्मश्चायं द्विजोत्तमाः
किं तु गुह्यतमं वक्ष्ये सर्वत्र परमेश्वरे ॥
भवे भक्तिर्न संदेहस् तया युक्तो विमुच्यते
अयोग्यस्यापि भगवान् भक्तस्य परमेश्वरः ॥
प्रसीदति न संदेहो निगृह्य विविधं तमः
ज्ञानमध्यापनं होमो ध्यानं यज्ञस्तपः श्रुतम् ॥
दानमध्ययनं सर्वं भवभक्त्यै न संशयः
चान्द्रायणसहस्रैश् च प्राजापत्यशतैस् तथा ॥
मासोपवासैश्चान्यैर्वा भक्तिर्मुनिवरोत्तमाः
अभक्ता भगवत्यस्मिंल् लोके गिरिगुहाशये ॥
पतन्ति चात्मभोगार्थं भक्तो भावेन मुच्यते
भक्तानां दर्शनादेव नृणां स्वर्गादयो द्विजाः ॥
न दुर्लभा न सन्देहो भक्तानां किं पुनस् तथा
ब्रह्मविष्णुसुरेन्द्राणां तथान्येषामपि स्थितिः ॥
भक्त्या एव मुनीनां च बलसौभाग्यमेव च
भवेन च तथा प्रोक्तं सम्प्रेक्ष्योमां पिनाकिना ॥
देव्यै देवेन मधुरं वाराणस्यां पुरा द्विजाः
अविमुक्ते समासीना रुद्रेण परमात्मना ॥
रुद्राणी रुद्रमाहेदं लब्ध्वा वाराणसीं पुरीम्
केन वश्यो महादेव पूज्यो दृश्यस्त्वमीश्वरः ॥
तपसा विद्यया वापि योगेनेह वद प्रभो
निशम्य वचनं तस्यास् तथा ह्यालोक्य पार्वतीम् ॥
आह बालेन्दुतिलकः पूर्णेन्दुवदनां हसन्
स्मृत्वाथ मेनया पत्न्या गिरेर्गां कथितां पुरा ॥
चिरकालस्थितिं प्रेक्ष्य गिरौ देव्या महात्मनः
देवि लब्धा पुरी रम्या त्वया यत्प्रष्टुमर्हसि ॥
स्थानार्थं कथितं मात्रा विस्मृतेह विलासिनि
पुरा पितामहेनापि पृष्टः प्रश्नवतां वरे ॥
यथा त्वयाद्य वै पृष्टो द्रष्टुं ब्रह्मात्मकं त्वहम्
श्वेते श्वेतेन वर्णेन दृष्ट्वा कल्पे तु मां शुभे ॥
सद्योजातं तथा रक्ते रक्तं वामं पितामहः
पीते तत्पुरुषं पीतम् अघोरे कृष्णमीश्वरम् ॥
ईशानं विश्वरूपाख्यो विश्वरूपं तदाह माम् ॥
वाम तत्पुरुषाघोर सद्योजात महेश्वर
दृष्टो मया त्वं गायत्र्या देवदेव महेश्वर
केन वश्यो महादेव ध्येयः कुत्र घृणानिधे ॥
दृश्यः पूज्यस् तथा देव्या वक्तुमर्हसि शङ्कर
अवोचं श्रद्धयैवेति वश्यो वारिजसंभव ॥
ध्येयो लिङ्गे त्वया दृष्टे विष्णुना पयसां निधौ
पूज्यः पञ्चास्यरूपेण पवित्रैः पञ्चभिर्द्विजैः ॥
भव भक्त्याद्य दृष्टो ऽहं त्वयाण्डज जगद्गुरो
सो ऽपि मामाह भावार्थं दत्तं तस्मै मया पुरा ॥
भावं भावेन देवेशि दृष्टवान्मां हृदीश्वरम्
तस्मात्तु श्रद्धया वश्यो दृश्यः श्रेष्ठगिरेः सुते ॥
पूज्यो लिङ्गे न संदेहः सर्वदा श्रद्धया द्विजैः
श्रद्धा धर्मः परः सूक्ष्मः श्रद्धा ज्ञानं हुतं तपः ॥
श्रद्धा स्वर्गश् च मोक्षश् च दृश्यो ऽहं श्रद्धया सदा ॥
मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0