लिङ्गपुराण · अध्याय 1.8
संक्षेपतः प्रवक्ष्यामि योगस्थानानि साम्प्रतम्
कल्पितानि शिवेनैव हिताय जगतां द्विजाः ॥
गलादधो वितस्त्या यन् नाभेरुपरि चोत्तमम्
योगस्थानमधो नाभेर् आवर्तं मध्यमं भ्रुवोः ॥
सर्वार्थज्ञाननिष्पत्तिर् आत्मनो योग उच्यते
एकाग्रता भवेच्चैव सर्वदा तत्प्रसादतः ॥
प्रसादस्य स्वरूपं यत् स्वसंवेद्यं द्विजोत्तमाः
वक्तुं न शक्यं ब्रह्माद्यैः क्रमशो जायते नृणाम् ॥
योगशब्देन निर्वाणं माहेशं पदमुच्यते
तस्य हेतुरृषेर्ज्ञानं ज्ञानं तस्य प्रसादतः ॥
ज्ञानेन निर्दहेत्पापं निरुध्य विषयान् सदा
निरुद्धेन्द्रियवृत्तेस्तु योगसिद्धिर्भविष्यति ॥
योगो निरोधो वृत्तेषु चित्तस्य द्विजसत्तमाः
साधनान्यष्टधा चास्य कथितानीह सिद्धये ॥
यमस्तु प्रथमः प्रोक्तो द्वितीयो नियमस् तथा
तृतीयमासनं प्रोक्तं प्राणायामस्ततः परम् ॥
प्रत्याहारं पञ्चमो वै धारणा च ततः परा
ध्यानं सप्तममित्युक्तं समाधिस्त्वष्टमः स्मृतः ॥
तपस्युपरमश्चैव यम इत्यभिधीयते
अहिंसा प्रथमो हेतुर् यमस्य यमिनां वराः ॥
सत्यमस्तेयमपरं ब्रह्मचर्यापरिग्रहौ
नियमस्यापि वै मूलं यम एव न संशयः ॥
आत्मवत् सर्वभूतानां हितायैव प्रवर्तनम्
अहिंसैषा समाख्याता या चात्मज्ञानसिद्धिदा ॥
दृष्टं श्रुतं चानुमितं स्वानुभूतं यथार्थतः
कथनं सत्यमित्युक्तं परपीडाविवर्जितम् ॥
नाश्लीलं कीर्तयेदेवं ब्राह्मणानामिति श्रुतिः
परदोषान् परिज्ञाय न वदेदिति चापरम् ॥
अनादानं परस्वानाम् आपद्यपि विचारतः
मनसा कर्मणा वाचा तदस्तेयं समासतः ॥
मैथुनस्याप्रवृत्तिर्हि मनोवाक्कायकर्मणा
ब्रह्मचर्यमिति प्रोक्तं यतीनां ब्रह्मचारिणाम् ॥
इह वैखानसानां च विदाराणां विशेषतः
सदाराणां गृहस्थानं तथैव च वदामि वः ॥
स्वदारे विधिवत्कृत्वा निवृत्तिश्चान्यतः सदा
मनसा कर्मणा वाचा ब्रह्मचर्यमिति स्मृतम् ॥
मेध्या स्वनारी सम्भोगं कृत्वा स्नानं समाचरेत्
एवं गृहस्थो युक्तात्मा ब्रह्मचारी न संशयः ॥
अहिंसाप्येवमेवैषा द्विजगुर्वग्निपूजने
विधिना यादृशी हिंसा सा त्वहिंसा इति स्मृता ॥
स्त्रियः सदा परित्याज्याः सङ्गं नैव च कारयेत्
कुणपेषु यथा चित्तं तथा कुर्याद्विचक्षणः ॥
विण्मूत्रोत्सर्गकालेषु बहिर्भूमौ यथा मतिः
तथा कार्या रतौ चापि स्वदारे चान्यतः कुतः ॥
अङ्गारसदृशी नारी घृतकुम्भसमः पुमान्
तस्मान्नारीषु संसर्गं दूरतः परिवर्जयेत् ॥
भोगेन तृप्तिर्नैवास्ति विषयाणां विचारतः
तस्माद्विरागः कर्तव्यो मनसा कर्मणा गिरा ॥
न जातु कामः कामानाम् उपभोगेन शाम्यति
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥
तस्मात्त्यागः सदा कार्यस् त्व् अमृतत्वाय योगिना
अविरक्तो यतो मर्त्यो नानायोनिषु वर्तते ॥
त्यागेनैवामृतत्वं हि श्रुतिस्मृतिविदां वराः
कर्मणा प्रजया नास्ति द्रव्येण द्विजसत्तमाः ॥
तस्माद्विरागः कर्तव्यो मनोवाक्कायकर्मणा
ऋतौ ऋतौ निवृत्तिस्तु ब्रह्मचर्यमिति स्मृतम् ॥
यमाः संक्षेपतः प्रोक्ता नियमांश् च वदामि वः
शौचमिज्या तपो दानं स्वाध्यायोपस्थनिग्रहः ॥
व्रतोपवासमौनं च स्नानं च नियमा दश
नियमः स्यादनीहा च शौचं तुष्टिस्तपस् तथा ॥
जपः शिवप्रणीधानं पद्मकाद्यं तथासनम्
बाह्यमाभ्यन्तरं प्रोक्तं शौचमाभ्यन्तरं वरम् ॥
बाह्यशौचेन युक्तः संस् तथा चाभ्यन्तरं चरेत्
आग्नेयं वारुणं ब्राह्मं कर्तव्यं शिवपूजकैः ॥
स्नानं विधानतः सम्यक् पश्चाद् आभ्यन्तरं चरेत्
आ देहान्तं मृदालिप्य तीर्थतोयेषु सर्वदा ॥
अवगाह्यापि मलिनो ह्य् अन्तः शौचविवर्जितः
शैवला झषका मत्स्याः सत्त्वा मत्स्योपजीविनः ॥
सदावगाह्य सलिले विशुद्धाः किं द्विजोत्तमाः
तस्मादाभ्यन्तरं शौचं सदा कार्यं विधानतः ॥
आत्मज्ञानाम्भसि स्नात्वा सकृदालिप्य भावतः
सुवैराग्यमृदा शुद्धः शौचमेवं प्रकीर्तितम् ॥
शुद्धस्य सिद्धयो दृष्टा नैवाशुद्धस्य सिद्धयः
न्यायेनागतया वृत्त्या संतुष्टो यस्तु सुव्रतः ॥
संतोषस्तस्य सततम् अतीतार्थस्य चास्मृतिः
चान्द्रायणादिनिपुणस् तपांसि सुशुभानि च ॥
स्वाध्यायस्तु जपः प्रोक्तः प्रणवस्य त्रिधा स्मृतः
वाचिकश्चाधमो मुख्य उपांशुश्चोत्तमोत्तमः ॥
मानसो विस्तरेणैव कल्पे पञ्चाक्षरे स्मृतः
तथा शिवप्रणीधानं मनोवाक्कायकर्मणा ॥
शिवज्ञानं गुरोर्भक्तिर् अचला सुप्रतिष्ठिता
निग्रहो ह्यपहृत्याशु प्रसक्तानीन्द्रियाणि च ॥
विषयेषु समासेन प्रत्याहारः प्रकीर्तितः
चित्तस्य धारणा प्रोक्ता स्थानबन्धः समासतः ॥
तस्याः स्वास्थ्येन ध्यानं च समाधिश् च विचारतः
तत्रैकचित्तता ध्यानं प्रत्ययान्तरवर्जितम् ॥
चिद्भासमर्थमात्रस्य देहशून्यमिव स्थितम्
समाधिः सर्वहेतुश् च प्राणायाम इति स्मृतः ॥
प्राणः स्वदेहजो वायुर् यमस्तस्य निरोधनम्
त्रिधा द्विजैर्यमः प्रोक्तो मन्दो मध्योत्तमस् तथा ॥
प्राणापाननिरोधस्तु प्राणायामः प्रकीर्तितः
प्राणायामस्य मानं तु मात्राद्वादशकं स्मृतम् ॥
नीचो द्वादशमात्रस्तु उद्धातो द्वादशः स्मृतः
मध्यमस् तु द्विरुद्धातश् चतुर्विंशतिमात्रकः ॥
मुख्यस्तु यस्त्रिरुद्धातः षट्त्रिंशन्मात्र उच्यते
प्रस्वेदकम्पनोत्थान जनकश्च यथाक्रमम् ॥
आनन्दोद्भवयोगार्थं निद्राघूर्णिस्तथैव च
रोमाञ्चध्वनिसंविद्ध स्वाङ्गमोटनकम्पनम् ॥
भ्रमणं स्वेदजन्या सा संविन्मूर्छा भवेद्यदा
तदोत्तमोत्तमः प्रोक्तः प्राणायामः सुशोभनः ॥
सगर्भो ऽगर्भ इत्युक्तः सजपो विजपः क्रमात्
इभो वा शरभो वापि दुराधर्षो ऽथ केसरी ॥
गृहीतो दम्यमानस्तु यथास्वस्थस्तु जायते
तथा समीरणो ऽस्वस्थो दुराधर्षश् च योगिनाम् ॥
न्यायतः सेव्यमानस्तु स एवं स्वस्थतां व्रजेत्
यथैव मृगराङ्नागः शरभो वापि दुर्मदः ॥
कालान्तरवशाद्योगाद् दम्यते परमादरात्
तथा परिचयात्स्वास्थ्यं समत्वं चाधिगच्छति ॥
योगादभ्यसते यस्तु व्यसनं नैव जायते
एवमभ्यस्यमानस्तु मुनेः प्राणो विनिर्दहेत् ॥
मनोवाक्कायजान् दोषान् कर्तुर्देहं च रक्षति
संयुक्तस्य तथा सम्यक् प्राणायामेन धीमतः ॥
दोषात्तस्माच्च नश्यन्ति निश्वासस्तेन जीर्यते
प्राणायामेन सिध्यन्ति दिव्याः शान्त्यादयः क्रमात् ॥
शान्तिः प्रशान्तिर्दीप्तिश् च प्रसादश् च तथा क्रमात्
आदौ चतुष्टयस्येह प्रोक्ता शान्तिरिह द्विजाः ॥
सहजागन्तुकानां च पापानां शान्तिर् उच्यते
प्रशान्तिः संयमः सम्यग् वचसामिति संस्मृता ॥
प्रकाशो दीप्तिरित्युक्तः सर्वतः सर्वदा द्विजाः
सर्वेन्द्रियप्रसादस्तु बुद्धेर्वै मरुतामपि ॥
प्रसाद इति सम्प्रोक्तः स्वान्ते त्विह चतुष्टये
प्राणो ऽपानः समानश् च उदानो व्यान एव च ॥
नागः कूर्मस्तु कृकलो देवदत्तो धनंजयः
एतेषां यः प्रसादस्तु मरुतामिति संस्मृतः ॥
प्रयाणं कुरुते तस्माद् वायुः प्राण इति स्मृतः
अपानयत्यपानस्तु आहारादीन् क्रमेण च ॥
व्यानो व्यानामयत्यङ्गं व्याध्यादीनां प्रकोपकः
उद्वेजयति मर्माणि उदानो ऽयं प्रकीर्तितः ॥
समं नयति गात्राणि समानः पञ्च वायवः
उद्गारे नाग आख्यातः कूर्म उन्मीलने तु सः ॥
कृकलः क्षुतकायैव देवदत्तो विजृम्भणे
धनंजयो महाघोषः सर्वगः स मृते ऽपि हि ॥
इति यो दशवायूनां प्राणायामेन सिध्यति
प्रसादो ऽस्य तुरीया तु संज्ञा विप्राश्चतुष्टये ॥
विस्वरस्तु महान् प्रज्ञो मनो ब्रह्मा चितिः स्मृतिः
ख्यातिः संवित्ततः पश्चाद् ईश्वरो मतिरेव च ॥
बुद्धेरेताः द्विजाः संज्ञा महतः परिकीर्तिताः
अस्या बुद्धेः प्रसादस्तु प्राणायामेन सिध्यति ॥
विस्वरो विस्वरीभावो द्वंद्वानां मुनिसत्तमाः
अग्रजः सर्वतत्त्वानां महान्यः परिमाणतः ॥
यत्प्रमाणगुहा प्रज्ञा मनस्तु मनुते यतः
बृहत्त्वाद् बृंहणत्वाच्च ब्रह्मा ब्रह्मविदांवराः ॥
सर्वकर्माणि भोगार्थं यच्चिनोति चितिः स्मृता
स्मरते यत्स्मृतिः सर्वं संविद्वै विन्दते यतः ॥
ख्यायते यत्त्विति ख्यातिर् ज्ञानादिभिर् अनेकशः
सर्वतत्त्वाधिपः सर्वं विजानाति यदीश्वरः ॥
मनुते मन्यते यस्मान् मतिर्मतिमतांवराः
अर्थं बोधयते यच्च बुध्यते बुद्धिरुच्यते ॥
अस्या बुद्धेः प्रसादस्तु प्राणायामेन सिध्यति
दोषान्विनिर्दहेत्सर्वान् प्राणायामादसौ यमी ॥
पातकं धारणाभिस्तु प्रत्याहारेण निर्दहेत्
विषयान्विषवद्ध्यात्वा ध्यानेनानीश्वरान् गुणान् ॥
समाधिना यतिश्रेष्ठाः प्रज्ञावृद्धिं विवर्धयेत्
स्थानं लब्ध्वैव कुर्वीत योगाष्टाङ्गानि वै क्रमात् ॥
लब्ध्वासनानि विधिवद् योगसिद्ध्यर्थम् आत्मवित्
आदेशकाले योगस्य दर्शनं हि न विद्यते ॥
अग्न्यभ्यासे जले वापि शुष्कपर्णचये तथा
जन्तुव्याप्ते श्मशाने च जीर्णगोष्ठे चतुष्पथे ॥
सशब्दे सभये वापि चैत्यवल्मीकसंचये
अशुभे दुर्जनाक्रान्ते मशकादिसमन्विते ॥
नाचरेद्देहबाधायां दौर्मनस्यादिसम्भवे
सुगुप्ते तु शुभे रम्ये गुहायां पर्वतस्य तु ॥
भवक्षेत्रे सुगुप्ते वा भवारामे वने ऽपि वा
गृहे तु सुशुभे देशे विजने जन्तुवर्जिते ॥
अत्यन्तनिर्मले सम्यक् सुप्रलिप्ते विचित्रिते
दर्पणोदरसंकाशे कृष्णागरुसुधूपिते ॥
नानापुष्पसमाकीर्णे वितानोपरि शोभिते
फलपल्लवमूलाढ्ये कुशपुष्पसमन्विते ॥
समासनस्थो योगाङ्गान्य् अभ्यसेद्धृषितः स्वयम्
प्रणिपत्य गुरुं पश्चाद् भवं देवीं विनायकम् ॥
योगीश्वरान् सशिष्यांश् च योगं युञ्जीत योगवित्
आसनं स्वस्तिकं बद्ध्वा पद्ममर्धासनं तु वा ॥
समजानुस् तथा धीमान् एकजानुरथापिवा
समं दृढासनो भूत्वा संहृत्य चरणावुभौ ॥
संवृतास्योपबद्धाक्ष उरो विष्टभ्य चाग्रतः
पार्ष्णिभ्यां वृषणौ रक्षंस् तथा प्रजननं पुनः ॥
किंचिदुन्नामितशिर दन्तैर्दन्तान्न संस्पृशेत्
सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥
तमः प्रच्छाद्य रजसा रजः सत्त्वेन छादयेत्
ततः सत्त्वस्थितो भूत्वा शिवध्यानं समभ्यसेत् ॥
ओंकारवाच्यं परमं शुद्धं दीपशिखाकृतिम्
ध्यायेद्वै पुण्डरीकस्य कर्णिकायां समाहितः ॥
नाभेरधस्ताद्वा विद्वान् ध्यात्वा कमलमुत्तमम्
त्र्यङ्गुले चाष्टकोणं वा पञ्चकोणमथापि वा ॥
त्रिकोणं च तथाग्नेयं सौम्यं सौरं स्वशक्तिभिः
सौरं सौम्य तथाग्नेयम् अथ वानुक्रमेण तु ॥
आग्नेयं च ततः सौरं सौम्यमेवं विधानतः
अग्नेरधः प्रकल्प्यैवं धर्मादीनां चतुष्टयम् ॥
गुणत्रयं क्रमेणैव मण्डलोपरि भावयेत्
सत्त्वस्थं चिन्तयेद्रुद्रं स्वशक्त्या परिमण्डितम् ॥
नाभौ वाथ गले वापि भ्रूमध्ये वा यथाविधि
ललाटफलिकायां वा मूर्ध्नि ध्यानं समाचरेत् ॥
द्विदले षोडशारे वा द्वादशारे क्रमेण तु
दशारे वा षडस्रे वा चतुरस्रे स्मरेच्छिवम् ॥
कनकाभे तथागार संनिभे सुसिते ऽपि वा
द्वादशादित्यसंकाशे चन्द्रबिम्बसमे ऽपि वा ॥
विद्युत्कोटिनिभे स्थाने चिन्तयेत्परमेश्वरम्
अग्निवर्णे ऽथवा विद्युद् वलयाभे समाहितः ॥
वज्रकोटिप्रभे स्थाने पद्मरागनिभे ऽपि वा
नीललोहितबिम्बे वा योगी ध्यानं समभ्यसेत् ॥
महेश्वरं हृदि ध्यायेन् नाभिपद्मे सदाशिवम्
चन्द्रचूडं ललाटे तु भ्रूमध्ये शंकरं स्वयम् ॥
दिव्ये च शाश्वतस्थाने शिवध्यानं समभ्यसेत्
निर्मलं निष्कलं ब्रह्म सुशान्तं ज्ञानरूपिणम् ॥
अलक्षणमनिर्देश्यम् अणोरल्पतरं शुभम्
निरालम्बम् अतर्क्यं च विनाशोत्पत्तिवर्जितम् ॥
कैवल्यं चैव निर्वाणं निःश्रेयसम् अनुत्तमम्
अमृतं चाक्षरं ब्रह्म ह्य् अपुनर्भवम् अद्भुतम् ॥
महानन्दं परानन्दं योगानन्दमनामयम्
हेयोपादेयरहितं सूक्ष्मात्सूक्ष्मतरं शिवम् ॥
स्वयंवेद्यमवेद्यं तच् छिवं ज्ञानमयं परम्
अतीन्द्रियम् अनाभासं परं तत्त्वं परात्परम् ॥
सर्वोपाधिविनिर्मुक्तं ध्यानगम्यं विचारतः
अद्वयं तमसश्चैव परस्तात्संस्थितं परम् ॥
मनस्येवं महादेवं हृत्पद्मे वापि चिन्तयेत्
नाभौ सदाशिवं चापि सर्वदेवात्मकं विभुम् ॥
देहमध्ये शिवं देवं शुद्धज्ञानमयं विभुम्
कन्यसेनैव मार्गेण चोद्घातेनापि शंकरम् ॥
क्रमशः कन्यसेनैव मध्यमेनापि सुव्रतः
उत्तमेनापि वै विद्वान् कुम्भकेन समभ्यसेत् ॥
द्वात्रिंशद् रेचयेद्धीमान् हृदि नाभौ समाहितः
रेचकं पूरकं त्यक्त्वा कुम्भकं च द्विजोत्तमाः ॥
साक्षात्समरसेनैव देहमध्ये स्मरेच्छिवम्
एकीभावं समेत्यैवं तत्र यद्रससम्भवम् ॥
आनन्दं ब्रह्मणो विद्वान् साक्षात्समरसे स्थितः
धारणा द्वादशायामा ध्यानं द्वादश धारणम् ॥
ध्यानं द्वादशकं यावत् समाधिर् अभिधीयते
अथवा ज्ञानिनां विप्राः सम्पर्कादेव जायते ॥
प्रयत्नाद्वा तयोस्तुल्यं चिराद्वा ह्यचिराद्द्विजाः
योगान्तरायास् तस्याथ जायन्ते युञ्जतः पुनः ॥
नश्यन्त्य् अभ्यासतस् ते ऽपि प्रणिधानेन वै गुरोः ॥
मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0