भाषा

ENहिગુ
ग्रंथ पाठ

लिङ्गपुराण · अध्याय 1.87

1.87.1

निशम्य ते महाप्राज्ञाः कुमाराद्याः पिनाकिनम्
प्रोचुः प्रणम्य वै भीताः प्रसन्नं परमेश्वरम् ॥

1.87.2

एवं चेदनया देव्या हैमवत्या महेश्वर
क्रीडसे विविधैर्भोगैः कथं वक्तुमिहार्हसि ॥

1.87.3

एवमुक्तः प्रहस्येशः पिनाकी नीललोहितः
प्राह ताम् अंबिकां प्रेक्ष्य प्रणिपत्य स्थितान् द्विजान् ॥

1.87.4

बन्धमोक्षौ न चैवेह मम स्वेच्छा शरीरिणः
अकर्तज्ञः पशुर्जीवो विभुर्भोक्ता ह्यणुः पुमान् ॥

1.87.5

मायी च मायया बद्धः कर्मभिर् युज्यते तु सः
ज्ञानं ध्यानं च बन्धश् च मोक्षो नास्त्यात्मनो द्विजाः ॥

1.87.6

यदैवं मयि विद्वान् यस् तस्यापि न च सर्वतः
एषा विद्या ह्यहं वेद्यः प्रज्ञैषा च श्रुतिः स्मृतिः ॥

1.87.7

धृतिरेषा मया निष्ठा ज्ञानशक्तिः क्रिया तथा
इच्छाख्या च तथा ह्याज्ञा द्वे विद्ये न च संशयः ॥

1.87.8

न ह्येषा प्रकृतिर्जैवी विकृतिश् च विचारतः
विकारो नैव मायैषा सदसद्व्यक्तिवर्जिता ॥

1.87.9

पुरा ममाज्ञा मद्वक्त्रात् समुत्पन्ना सनातनी
पञ्चवक्त्रा महाभागा जगतामभयप्रदा ॥

1.87.10

तामाज्ञां सम्प्रविश्याहं चिन्तयन् जगतां हितम्
सप्तविंशत्प्रकारेण सर्वं व्याप्यानया शिवः ॥

1.87.11

तदाप्रभृति वै मोक्ष प्रवृत्तिर्द्विजसत्तमाः
एवमुक्त्वा तदापश्यद् भवानीं परमेश्वरः ॥

1.87.12

भवानी च तमालोक्य मायामहरदव्यया
ते मायामलनिर्मुक्ता मुनयः प्रेक्ष्य पार्वतीम् ॥

1.87.13

प्रीता बभूवुर्मुक्ताश् च तस्मादेषा परा गतिः
उमाशङ्करयोर्भेदो नास्त्येव परमार्थतः ॥

1.87.14

द्विधासौ रूपमास्थाय स्थित एव न संशयः
यदा विद्वानसंगः स्याद् आज्ञया परमेष्ठिनः ॥

1.87.15

तदा मुक्तिः क्षणादेव नान्यथा कर्मकोटिभिः
क्रमो ऽविवक्षितो भूत विवृद्धः परमेष्ठिनः ॥

1.87.16

प्रसादेन क्षणान्मुक्तिः प्रतिज्ञैषा न संशयः
गर्भस्थो जायमानो वा बालो वा तरुणो ऽपि वा ॥

1.87.17

वृद्धो वा मुच्यते जन्तुः प्रसादात्परमेष्ठिनः
अण्डजश् चोद्भिज्जो वापि स्वेदजो वापि मुच्यते ॥

1.87.18

प्रसादाद्देवदेवस्य नात्र कार्या विचारणा
एष एव जगन्नाथो बन्धमोक्षकरः शिवः ॥

1.87.19

भूर्भूवःस्वर्महश् चैव जनः साक्षात्तपः स्वयम्
सत्यलोकस् तथाण्डानां कोटिकोटिशतानि च ॥

1.87.20

विग्रहं देवदेवस्य तथाण्डावरणाष्टकम्
सप्तद्वीपेषु सर्वेषु पर्वतेषु वनेषु च ॥

1.87.21

समुद्रेषु च सर्वेषु वायुस्कन्धेषु सर्वतः
तथान्येषु च लोकेषु वसन्ति च चराचराः ॥

1.87.22

सर्वे भवांशजा नूनं गतिस्त्वेषां स एव वै
सर्वो रुद्रो नमस्तस्मै पुरुषाय महात्मने ॥

1.87.23

विश्वं भूतं तथा जातं बहुधा रुद्र एव सः
रुद्राज्ञैषा स्थिता देवी ह्य् अनया मुक्तिरंबिका ॥

1.87.24

इत्येवं खेचराः सिद्धा जजल्पुः प्रीतमानसाः
यदावलोक्य तान् सर्वान् प्रसादादनयांबिका ॥

1.87.25

तदा तिष्ठन्ति सायुज्यं प्राप्तास्ते खेचराः प्रभोः ॥

मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc