भाषा

ENहिગુ
ग्रंथ पाठ

लिङ्गपुराण · अध्याय 1.83

1.83.1

व्यपोहनस्तवं पुण्यं श्रुतमस्माभिर् आदरात्
प्रसंगाल्लिङ्गदानस्य व्रतान्यपि वदस्व नः ॥

1.83.2

व्रतानि वः प्रवक्ष्यामि शुभानि मुनिसत्तमाः
नन्दिना कथितानीह ब्रह्मपुत्राय धीमते ॥

1.83.3

तानि व्यासादुपश्रुत्य युष्माकं प्रवदाम्यहम्
अष्टम्यां च चतुर्दश्यां पक्षयोरुभयोरपि ॥

1.83.4

वर्षमेकं तु भुञ्जानो नक्तं यः पूजयेच्छिवम्
सर्वयज्ञफलं प्राप्य स याति परमां गतिम् ॥

1.83.5

पृथिवीं भाजनं कृत्वा भुक्त्वा पर्वसु मानवः
अहोरात्रेण चैकेन त्रिरात्रफलमश्नुते ॥

1.83.6

द्वयोर् मासस्य पञ्चम्योर् द्वयोः प्रतिपदोर्नरः
क्षीरधाराव्रतं कुर्यात् सो ऽश्वमेधफलं लभेत् ॥

1.83.7

कृष्णाष्टम्यां तु नक्तेन यावत्कृष्णचतुर्दशी
भुञ्जन्भोगानवाप्नोति ब्रह्मलोकं च गच्छति ॥

1.83.8

यो ऽब्दमेकं प्रकुर्वीत नक्तं पर्वसु पर्वसु
ब्रह्मचारी जितक्रोधः शिवध्यानपरायणः ॥

1.83.9

संवत्सरान्ते विप्रेन्द्रान् भोजयेद्विधिपूर्वकम्
स याति शाङ्करं लोकं नात्र कार्या विचारणा ॥

1.83.10

उपवासात् परं भैक्ष्यं भैक्ष्यात् परम् अयाचितम्
अयाचितात् परं नक्तं तस्मान् नक्तेन वर्तयेत् ॥

1.83.11

देवैर्भुक्तं तु पूर्वाह्णे मध्याह्ने ऋषिभिस् तथा
अपराह्णे च पितृभिः संध्यायां गुह्यकादिभिः ॥

1.83.12

सर्ववेलामतिक्रम्य नक्तभोजनमुत्तमम्
हविष्यभोजनं स्नानं सत्यमाहारलाघवम् ॥

1.83.13

अग्निकार्यमधःशय्यां नक्तभोजी समाचरेत्
प्रतिमासं प्रवक्ष्यामि शिवव्रतमनुत्तमम् ॥

1.83.14

धर्मकामार्थमोक्षार्थं सर्वपापविशुद्धये
पुष्यमासे च सम्पूज्य यः कुर्यान्नक्तभोजनम् ॥

1.83.15

सत्यवादी जितक्रोधः शालिगोधूमगोरसैः
पक्षयोरष्टमीं यत्नाद् उपवासेन वर्तयेत् ॥

1.83.16

भूमिशय्यां च मासान्ते पौर्णमास्यां घृतादिभिः
स्नाप्य रुद्रं महादेवं सम्पूज्य विधिपूर्वकम् ॥

1.83.17

यावकं चौदनं दत्त्वा सक्षीरं सघृतं द्विजाः
भोजयेद् ब्राह्मणाञ्शिष्टाञ् जपेच्छान्तिं विशेषतः ॥

1.83.18

तथा गोमिथुनं चैव कपिलं विनिवेदयेत्
भवाय देवदेवाय शिवाय परमेष्ठिने ॥

1.83.19

स याति मुनिशार्दूल वाह्नेयं लोकमुत्तमम्
भुक्त्वा स विपुलान् लोकान् तत्रैव स विमुच्यते ॥

1.83.20

माघमासे तु सम्पूज्य यः कुर्यान् नक्तभोजनम्
कृशरं घृतसंयुक्तं भुञ्जानः संयतेन्द्रियः ॥

1.83.21

सोपवासं चतुर्दश्यां भवेदुभयपक्षयोः
रुद्राय पौर्णमास्यां तु दद्याद्वै घृतकम्बलम् ॥

1.83.22

कृष्णं गोमिथुनं दद्यात् पूजयेच्चैव शंकरम्
भोजयेद्ब्राह्मणांश्चैव यथाविभवविस्तरम् ॥

1.83.23

याम्यमासाद्य वै लोकं यमेन सह मोदते
फाल्गुने चैव सम्प्राप्ते कुर्याद्वै नक्तभोजनम् ॥

1.83.24

श्यामाकान्नघृतक्षीरैर् जितक्रोधो जितेन्द्रियः
चतुर्दश्यामथाष्टम्याम् उपवासं च कारयेत् ॥

1.83.25

पौर्णमास्यां महादेवं स्नाप्य सम्पूज्य शङ्करम्
दद्याद्गोमिथुनं वापि ताम्राभं शूलपाणये ॥

1.83.26

ब्राह्मणान् भोजयित्वा तु प्रार्थयेत्परमेश्वरम्
स याति चन्द्रसायुज्यं नात्र कार्या विचारणा ॥

1.83.27

चैत्रे ऽपि रुद्रमभ्यर्च्य कुर्याद्वै नक्तभोजनम्
शाल्यन्नं पयसा युक्तं घृतेन च यथासुखम् ॥

1.83.28

गोष्ठशायी मुनिश्रेष्ठाः क्षितौ निशि भवं स्मरेत्
पौर्णमास्यां शिवं स्नाप्य दद्याद्गोमिथुनं सितम् ॥

1.83.29

ब्राह्मणान् भोजयेच्चैव निरृतेः स्थानमाप्नुयात्
वैशाखे च तथा मासे कृत्वा वै नक्तभोजनम् ॥

1.83.30

पौर्णमास्यां भवं स्नाप्य पञ्चगव्यघृतादिभिः
श्वेतं गोमिथुनं दत्त्वा सो ऽश्वमेधफलं लभेत् ॥

1.83.31

ज्येष्ठे मासे च देवेशं भवं शर्वमुमापतिम्
सम्पूज्य श्रद्धया भक्त्या कृत्वा वै नक्तभोजनम् ॥

1.83.32

रक्तशाल्यन्नमध्वा च अद्भिः पूतं घृतादिभिः
वीरासनो निशार्धं च गवां शुश्रूषणे रतः ॥

1.83.33

पौर्णमास्यां तु सम्पूज्य देवदेवमुमापतिम्
स्नाप्य शक्त्या यथान्यायं चरुं दद्याच् च शूलिने ॥

1.83.34

ब्राह्मणान् भोजयित्वा च यथाविभवविस्तरम्
धूम्रं गोमिथुनं दत्त्वा वायुलोके महीयते ॥

1.83.35

आषाढे मासि चाप्येवं नक्तभोजनतत्परः
भूरिखण्डाज्यसंमिश्रं सक्तुभिश्चैव गोरसम् ॥

1.83.36

पौर्णमास्यां घृताद्यैस्तु स्नाप्य पूज्य यथाविधि
ब्राह्मणान् भोजयित्वा च श्रोत्रियान् वेदपारगान् ॥

1.83.37

दद्याद्गोमिथुनं गौरं वारुणं लोकमाप्नुयात्
श्रावणे च द्विजा मासे कृत्वा वै नक्तभोजनम् ॥

1.83.38

क्षीरषष्टिकभक्तेन सम्पूज्य वृषभध्वजम्
पौर्णमास्यां घृताद्यैस्तु स्नाप्य पूज्य यथाविधि ॥

1.83.39

ब्राह्मणान् भोजयित्वा च श्रोत्रियान् वेदपारगान्
श्वेताग्रपादं पौण्ड्रं च दद्याद्गोमिथुनं पुनः ॥

1.83.40

स याति वायुसायुज्यं वायुवत्सर्वगो भवेत्
प्राप्ते भाद्रपदे मासे कृत्वैवं नक्तभोजनम् ॥

1.83.41

हुतशेषं च विप्रेन्द्रान् वृक्षमूलाश्रितो दिवा
पौर्णमास्यां तु देवेशं स्नाप्य सम्पूज्य शङ्करम् ॥

1.83.42

नीलस्कन्धं वृषं गां च दत्त्वा भक्त्या यथाविधि
ब्राह्मणान् भोजयित्वा च वेदवेदाङ्गपारगान् ॥

1.83.43

यक्षलोकमनुप्राप्य यक्षराजो भवेन्नरः
ततश्चाश्वयुजे मासि कृत्वैवं नक्तभोजनम् ॥

1.83.44

सघृतं शङ्करं पूज्य पौर्णमास्यां च पूर्ववत्
ब्राह्मणान् भोजयित्वा च शिवभक्तान् सदा शुचीन् ॥

1.83.45

वृषभं नीलवर्णाभम् उरोदेशसमुन्नतम्
गां च दत्त्वा यथान्यायम् ऐशानं लोकमाप्नुयात् ॥

1.83.46

कार्तिके च तथा मासे कृत्वा वै नक्तभोजनम्
क्षीरौदनेन साज्येन सम्पूज्य च भवं प्रभुम् ॥

1.83.47

पौर्णमास्यां च विधिवत् स्नाप्य दत्त्वा चरुं पुनः
ब्राह्मणान् भोजयित्वा च यथाविभवविस्तरम् ॥

1.83.48

दत्त्वा गोमिथुनं चैव कापिलं पूर्ववद् द्विजाः
सूर्यसायुज्यमाप्नोति नात्र कार्या विचारणा ॥

1.83.49

मार्गशीर्षे च मासे ऽपि कृत्वैवं नक्तभोजनम्
यवान्नेन यथान्यायम् आज्यक्षीरादिभिः समम् ॥

1.83.50

पौर्णमास्यां च पूर्वोक्तं कृत्वा शर्वाय शंभवे
ब्राह्मणान् भोजयित्वा च दरिद्रान्वेदपारगान् ॥

1.83.51

दत्त्वा गोमिथुनं चैव पाण्डुरं विधिपूर्वकम्
सोमलोकमनुप्राप्य सोमेन सह मोदते ॥

1.83.52

अहिंसा सत्यमस्तेयं ब्रह्मचर्यं क्षमा दया
त्रिःस्नानं चाग्निहोत्रं च भूशय्या नक्तभोजनम् ॥

1.83.53

पक्षयोरुपवासं च चतुर्दश्यष्टमीषु च ॥

1.83.54

इत्येतदखिलं प्रोक्तं प्रतिमासं शिवव्रतम् ॥

1.83.55

कुर्याद्वर्षं क्रमेणैव व्युत्क्रमेणापि वा द्विजाः
स याति शिवसायुज्यं ज्ञानयोगमवाप्नुयात् ॥

मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc