लिङ्गपुराण · अध्याय 1.82
व्यपोहनस्तवं वक्ष्ये सर्वसिद्धिप्रदं शुभम्
नन्दिनश् च मुखाच्छ्रुत्वा कुमारेण महात्मना ॥
व्यासाय कथितं तस्माद् बहुमानेन वै मया
नमः शिवाय शुद्धाय निर्मलाय यशस्विने ॥
दुष्टान्तकाय सर्वाय भवाय परमात्मने
पञ्चवक्त्रो दशभुजो ह्य् अक्षपञ्चदशैर्युतः ॥
शुद्धस्फटिकसंकाशः सर्वाभरणभूषितः
सर्वज्ञः सर्वगः शान्तः सर्वोपरि सुसंस्थितः ॥
पद्मासनस्थः सोमेशः पापमाशु व्यपोहतु
ईशानः पुरुषश्चैव अघोरः सद्य एव च ॥
वामदेवश् च भगवान् पापमाशु व्यपोहतु
अनन्तः सर्वविद्येशः सर्वज्ञः सर्वदः प्रभुः ॥
शिवध्यानैकसम्पन्नः स मे पापं व्यपोहतु
सूक्ष्मः सुरासुरेशानो विश्वेशो गणपूजितः ॥
शिवध्यानैकसम्पन्नः स मे पापं व्यपोहतु
शिवोत्तमो महापूज्यः शिवध्यानपरायणः ॥
सर्वगः सर्वदः शान्तः स मे पापं व्यपोहतु
एकाक्षो भगवानीशः शिवार्चनपरायणः ॥
शिवध्यानैकसम्पन्नः स मे पापं व्यपोहतु
त्रिमूर्तिर् भगवान् ईशः शिवभक्तिप्रबोधकः ॥
शिवध्यानैकसम्पन्नः स मे पापं व्यपोहतु
श्रीकण्ठः श्रीपतिः श्रीमाञ् शिवध्यानरतः सदा ॥
शिवार्चनरतः श्रीमान् स मे पापं व्यपोहतु
त्रैलोक्यनमिता देवी सोल्काकारा पुरातनी ॥
शिवार्चनरतः श्रीमान् स मे पापं व्यपोहतु
त्रैलोक्यनमिता देवी सोल्काकारा पुरातनी ॥
दाक्षायणी महादेवी गौरी हैमवती शुभा
एकपर्णाग्रजा सौम्या तथा वै चैकपाटला ॥
अपर्णा वरदा देवी वरदानैकतत्परा
उमा सुरहरा साक्षात् कौशिकी वा कपर्दिनी ॥
खट्वाङ्गधारिणी दिव्या कराग्रतरुपल्लवा
नैगमेयादिभिर् दिव्यैश् चतुर्भिः पुत्रकैर्वृता ॥
मेनाया नन्दिनी देवी वारिजा वारिजेक्षणा
अंबाया वीतशोकस्य नन्दिनश् च महात्मनः ॥
शुभावत्याः सखी शान्ता पञ्चचूडा वरप्रदा
सृष्ट्यर्थं सर्वभूतानां प्रकृतित्वं गताव्यया ॥
त्रयोविंशतिभिस् तत्त्वैर् महदाद्यैर् विजृम्भिता
लक्ष्म्यादिशक्तिभिर् नित्यं नमिता नन्दनन्दिनी ॥
मनोन्मनी महादेवी मायावी मण्डनप्रिया
मायया या जगत्सर्वं ब्रह्माद्यं सचराचरम् ॥
क्षोभिणी मोहिनी नित्यं योगिनां हृदि संस्थिता
एकानेकस्थिता लोके इन्दीवरनिभेक्षणा ॥
भक्त्या परमया नित्यं सर्वदेवैरभिष्टुता
गणेन्द्राम्भोजगर्भेन्द्र यमवित्तेशपूर्वकैः ॥
संस्तुता जननी तेषां सर्वोपद्रवनाशिनी
भक्तानामार्तिहा भव्या भवभावविनाशनी ॥
भुक्तिमुक्तिप्रदा दिव्या भक्तानामप्रयत्नतः
सा मे साक्षान्महादेवी पापम् आशु व्यपोहतु ॥
चण्डः सर्वगणेशानो मुखाच्छंभोर्विनिर्गतः
शिवार्चनरतः श्रीमान् स मे पापं व्यपोहतु ॥
शालङ्कायनपुत्रस्तु हलमार्गोत्थितः प्रभुः
जामाता मरुतां देवः सर्वभूतमहेश्वरः ॥
सर्वगः सर्वदृक् शर्वः सर्वेशसदृशः प्रभुः
सनारायणकैर् देवैः सेन्द्रचन्द्रदिवाकरैः ॥
सिद्धैश् च यक्षगन्धर्वैर् भूतैर्भूतविधायकैः
उरगैरृषिभिश्चैव ब्रह्मणा च महात्मना ॥
स्तुतस्त्रैलोक्यनाथस्तु मुनिरन्तः पुरं स्थितः
सर्वदा पूजितः सर्वैर् नन्दी पापं व्यपोहतु ॥
महाकायो महातेजा महादेव इवापरः
शिवार्चनरतः श्रीमान् स मे पापं व्यपोहतु ॥
मेरुमन्दारकैलास तटकूटप्रभेदनः
ऐरावतादिभिर् दिव्यैर् दिग्गजैश् च सुपूजितः ॥
सप्तपातालपादश् च सप्तद्वीपोरुजङ्घकः
सप्तार्णवाङ्कुशश्चैव सर्वतीर्थोदरः शिवः ॥
आकाशदेहो दिग्बाहुः सोमसूर्याग्निलोचनः
हतासुरमहावृक्षो ब्रह्मविद्यामहोत्कटः ॥
ब्रह्माद्याधोरणैर् दिव्यैर् योगपाशसमन्वितैः
बद्धो हृत्पुण्डरीकाख्ये स्तंभे वृत्तिं निरुध्य च ॥
नागेन्द्रवक्त्रो यः साक्षाद् गणकोटिशतैर्वृतः
शिवध्यानैकसम्पन्नः स मे पापं व्यपोहतु ॥
भृङ्गीशः पिङ्गलाक्षो ऽसौ भसिताशस्तु देहयुक्
शिवार्चनरतः श्रीमान् स मे पापं व्यपोहतु ॥
चतुर्भिस्तनुभिर् नित्यं सर्वासुरनिबर्हणः
स्कन्दः शक्तिधरः शान्तः सेनानीः शिखिवाहनः ॥
देवसेनापतिः श्रीमान् स मे पापं व्यपोहतु
भवः शर्वस्तथेशानो रुद्रः पशुपतिस् तथा ॥
उग्रो भीमो महादेवः शिवार्चनरतः सदा
एताः पापं व्यपोहन्तु मूर्तयः परमेष्ठिनः ॥
महादेवः शिवो रुद्रः शङ्करो नीललोहितः
ईशानो विजयो भीमो देवदेवो भवोद्भवः ॥
कपालीशश् च विज्ञेयो रुद्रा रुद्रांशसंभवाः
शिवप्रणामसम्पन्ना व्यपोहन्तु मलं मम ॥
विकर्तनो विवस्वांश् च मार्तण्डो भास्करो रविः
लोकप्रकाशकश्चैव लोकसाक्षीत्रिविक्रमः ॥
आदित्यश् च तथा सूर्यश् चांशुमांश् च दिवाकरः
एते वै द्वादशादित्या व्यपोहन्तु मलं मम ॥
गगनं स्पर्शनं तेजो रसश् च पृथिवी तथा
चन्द्रः सूर्यस्तथात्मा च तनवः शिवभाषिताः ॥
पापं व्यपोहन्तु मम भयं निर्णाशयन्तु मे
वासवः पावकश्चैव यमो निरृतिरेव च ॥
वरुणो वायुसोमौ च ईशानो भगवान् हरिः
पितामहश् च भगवान् शिवध्यानपरायणः ॥
एते पापं व्यपोहन्तु मनसा कर्मणा कृतम्
नभस्वान्स्पर्शनो वायुर् अनिलो मारुतस् तथा ॥
प्राणः प्राणेशजीवेशौ मारुतः शिवभाषिताः
शिवार्चनरताः सर्वे व्यपोहन्तु मलं मम ॥
खेचरी वसुचारी च ब्रह्मेशो ब्रह्मब्रह्मधीः
सुषेणः शाश्वतः पृष्टः सुपुष्टश् च महाबलः ॥
एते वै चारणाः शंभोः पूजयातीव भाविताः
व्यपोहन्तु मलं सर्वं पापं चैव मया कृतम् ॥
मन्त्रज्ञो मन्त्रवित् प्राज्ञो मन्त्रराट् सिद्धपूजितः
सिद्धवत्परमः सिद्धः सर्वसिद्धिप्रदायिनः ॥
व्यपोहन्तु मलं सर्वे सिद्धाः शिवपदार्चकाः
यक्षो यक्षेशधनदो जृम्भको मणिभद्रकः ॥
पूर्णभद्रेश्वरो माली शितिकुण्डलिरेव च
नरेन्द्रश्चैव यक्षेशा व्यपोहन्तु मलं मम ॥
अनन्तः कुलिकश्चैव वासुकिस्तक्षकस्तथा
कर्कोटको महापद्मः शङ्खपालो महाबलः ॥
शिवप्रणामसम्पन्नाः शिवदेहप्रभूषणाः
मम पापं व्यपोहन्तु विषं स्थावरजङ्गमम् ॥
वीणाज्ञः किन्नरश्चैव सुरसेनः प्रमर्दनः
अतीशयः स प्रयोगी गीतज्ञश्चैव किन्नराः ॥
शिवप्रणामसम्पन्ना व्यपोहन्तु मलं मम
विद्याधरश् च विबुधो विद्याराशिर्विदां वरः ॥
विबुद्धो विबुधः श्रीमान् कृतज्ञश् च महायशाः
एते विद्याधराः सर्वे शिवध्यानपरायणाः ॥
व्यपोहन्तु मलं घोरं महादेवप्रसादतः
वामदेवी महाजम्भः कालनेमिर्महाबलः ॥
सुग्रीवो मर्दकश्चैव पिङ्गलो देवमर्दनः
प्रह्रादश्चाप्यनुह्रादः संह्रादः किल बाष्कलौ ॥
जम्भः कुंभश् च मायावी कार्तवीर्यः कृतंजयः
एते ऽसुरा महात्मानो महादेवपरायणाः ॥
व्यपोहन्तु भयं घोरम् आसुरं भावमेव च
गरुत्मान् खगतिश्चैव पक्षिराट् नागमर्दनः ॥
नागशत्रुर् हिरण्याङ्गो वैनतेयः प्रभञ्जनः
नागाशीर्विषनाशश् च विष्णुवाहन एव च ॥
एते हिरण्यवर्णाभा गरुडा विष्णुवाहनाः
नानाभरणसम्पन्ना व्यपोहन्तु मलं मम ॥
अगस्त्यश् च वसिष्ठश् च अङ्गिरा भृगुरेव च
काश्यपो नारदश्चैव दधीचश्च्यवनस् तथा ॥
उपमन्युस्तथान्ये च ऋषयः शिवभाविताः
शिवार्चनरताः सर्वे व्यपोहन्तु मलं मम ॥
पितरः पितामहाश् च तथैव प्रपितामहाः
अग्निष्वात्ता बर्हिषदस् तथा मातामहादयः ॥
व्यपोहन्तु भयं पापं शिवध्यानपरायणाः
लक्ष्मीश् च धरणी चैव गायत्री च सरस्वती ॥
दुर्गा उषा शची ज्येष्ठा मातरः सुरपूजिताः
देवानां मातरश् चैव गणानां मातरस् तथा ॥
भूतानां मातरः सर्वा यत्र या गणमातरः
प्रसादाद्देवदेवस्य व्यपोहन्तु मलं मम ॥
उर्वशी मेनका चैव रंभा रतितिलोत्तमाः
सुमुखी दुर्मुखी चैव कामुकी कामवर्धनी ॥
तथान्याः सर्वलोकेषु दिव्याश्चाप्सरसस् तथा
शिवाय ताण्डवं नित्यं कुर्वन्त्यो ऽतीव भाविताः ॥
देव्यः शिवार्चनरता व्यपोहन्तु मलं मम
अर्कः सोमो ऽङ्गारकश् च बुधश्चैव बृहस्पतिः ॥
शुक्रः शनैश्चरश्चैव राहुः केतुस्तथैव च
व्यपोहन्तु भयं घोरं ग्रहपीडां शिवार्चकाः ॥
मेषो वृषो ऽथ मिथुनस् तथा कर्कटकः शुभः
सिंहश् च कन्या विपुला तुला वै वृश्चिकस् तथा ॥
धनुश् च मकरश्चैव कुंभो मीनस्तथैव च
राशयो द्वादश ह्येते शिवपूजापरायणाः ॥
व्यपोहन्तु भयं पापं प्रसादात्परमेष्ठिनः
अश्विनी भरणी चैव कृत्तिका रोहिणी तथा ॥
श्रीमन्मृगशिरश्चार्द्रा पुनर्वसुपुष्यसार्पकाः
मघा वै पूर्वफाल्गुन्य उत्तराफाल्गुनी तथा ॥
हस्तचित्रा तथा स्वाती विशाखा चानुराधिका
ज्येष्ठा मूलं महाभागा पूर्वाषाढा तथैव च ॥
उत्तराषाढिका चैव श्रवणं च श्रविष्ठिका
शतभिषक् पूर्वभद्रा तथा प्रोष्ठपदा तथा ॥
पौष्णं च देव्यः सततं व्यपोहन्तु मलं मम
ज्वरः कुम्भोदरश्चैव शङ्कुकर्णो महाबलः ॥
महाकर्णः प्रभातश् च महाभूतप्रमर्दनः
श्येनजिच्छिवदूतश् च प्रमथाः प्रीतिवर्धनाः ॥
कोटिकोटिशतैश्चैव भूतानां मातरः सदा
व्यपोहन्तु भयं पापं महादेवप्रसादतः ॥
शिवध्यानैकसम्पन्नो हिमराड् अंबुसन्निभः
कुन्देन्दुसदृशाकारः कुंभकुन्देन्दुभूषणः ॥
वडवानलशत्रुर्यो वडवामुखभेदनः
चतुष्पादसमायुक्तः क्षीरोद इव पाण्डुरः ॥
रुद्रलोके स्थितो नित्यं रुद्रैः सार्धं गणेश्वरैः
वृषेन्द्रो विश्वधृग् देवो विश्वस्य जगतः पिता ॥
वृतो नन्दादिभिर् नित्यं मातृभिर् मखमर्दनः
शिवार्चनरतो नित्यं स मे पापं व्यपोहतु ॥
गङ्गा माता जगन्माता रुद्रलोके व्यवस्थिता
शिवभक्ता तु या नन्दा सा मे पापं व्यपोहतु ॥
भद्रा भद्रपदा देवी शिवलोके व्यवस्थिता
माता गवां महाभागा सा मे पापं व्यपोहतु ॥
सुरभिः सर्वतोभद्रा सर्वपापप्रणाशनी
रुद्रपूजारता नित्यं सा मे पापं व्यपोहतु ॥
सुशीला शीलसम्पन्ना श्रीप्रदा शिवभाविता
शिवलोके स्थिता नित्यं सा मे पापं व्यपोहतु ॥
वेदशास्त्रार्थतत्त्वज्ञः सर्वकार्याभिचिन्तकः
समस्तगुणसम्पन्नः सर्वदेवेश्वरात्मजः ॥
ज्येष्ठः सर्वेश्वरः सौम्यो महाविष्णुतनुः स्वयम्
आर्यः सेनापतिः साक्षाद् गहनो मखमर्दनः ॥
ऐरावतगजारूढः कृष्णकुञ्चितमूर्धजः
कृष्णाङ्गो रक्तनयनः शशिपन्नगभूषणः ॥
भूतैः प्रेतैः पिशाचैश् च कूष्माण्डैश् च समावृतः
शिवार्चनरतः साक्षात् स मे पापं व्यपोहतु ॥
ब्रह्माणी चैव माहेशी कौमारी वैष्णवी तथा
वाराही चैव माहेन्द्री चामुण्डाग्नेयिका तथा ॥
एता वै मातरः सर्वाः सर्वलोकप्रपूजिताः
योगिनीभिर् महापापं व्यपोहन्तु समाहिताः ॥
वीरभद्रो महातेजा हिमकुन्देन्दुसन्निभः
रुद्रस्य तनयो रौद्रः शूलासक्तमहाकरः ॥
सहस्रबाहुः सर्वज्ञः सर्वायुधधरः स्वयम्
त्रेताग्निनयनो देवस् त्रैलोक्याभयदः प्रभुः ॥
मातॄणां रक्षको नित्यं महावृषभवाहनः
त्रैलोक्यनमितः श्रीमान् शिवपादार्चने रतः ॥
यज्ञस्य च शिरश्छेत्ता पूष्णो दन्तविनाशनः
वह्नेर्हस्तहरः साक्षाद् भगनेत्रनिपातनः ॥
पादाङ्गुष्ठेन सोमाङ्ग पेषकः प्रभुसंज्ञकः
उपेन्द्रेन्द्रयमादीनां देवानामङ्गरक्षकः ॥
सरस्वत्या महादेव्या नासिकोष्ठावकर्तनः
गणेश्वरो यः सेनानीः स मे पापं व्यपोहतु ॥
ज्येष्ठा वरिष्ठा वरदा वराभरणभूषिता
महालक्ष्मीर्जगन्माता सा मे पापं व्यपोहतु ॥
महामोहा महाभागा महाभूतगणैर्वृता
शिवार्चनरता नित्यं सा मे पापं व्यपोहतु ॥
लक्ष्मीः सर्वगुणोपेता सर्वलक्षणसंयुता
सर्वदा सर्वगा देवी सा मे पापं व्यपोहतु ॥
सिंहारूढा महादेवी पार्वत्यास्तनयाव्यया
विष्णोर्निद्रा महामाया वैष्णवी सुरपूजिता ॥
त्रिनेत्रा वरदा देवी महिषासुरमर्दिनी
शिवार्चनरता दुर्गा सा मे पापं व्यपोहतु ॥
ब्रह्माण्डधारका रुद्राः सर्वलोकप्रपूजिताः
सत्याश् च मानसाः सर्वे व्यपोहन्तु भयं मम ॥
भूताः प्रेताः पिशाचाश् च कूष्माण्डगणनायकाः
कूष्माण्डकाश् च ते पापं व्यपोहन्तु समाहिताः ॥
अनेन देवं स्तुत्वा तु चान्ते सर्वं समापयेत्
प्रणम्य शिरसा भूमौ प्रतिमासे द्विजोत्तमाः ॥
व्यपोहनस्तवं दिव्यं यः पठेच्छृणुयादपि
विधूय सर्वपापानि रुद्रलोके महीयते ॥
कन्यार्थी लभते कन्यां जयकामो जयं लभेत्
अर्थकामो लभेदर्थं पुत्रकामो बहून् सुतान् ॥
विद्यार्थी लभते विद्यां भोगार्थी भोगमाप्नुयात्
यान्यान्प्रार्थयते कामान् मानवः श्रवणादिह ॥
तान्सर्वान् शीघ्रमाप्नोति देवानां च प्रियो भवेत्
पठ्यमानमिदं पुण्यं यमुद्दिश्य तु पठ्यते ॥
तस्य रोगा न बाधन्ते वातपित्तादिसंभवाः
नाकाले मरणं तस्य न सर्पैरपि दश्यते ॥
यत्पुण्यं चैव तीर्थानां यज्ञानां चैव यत्फलम्
दानानां चैव यत्पुण्यं व्रतानां च विशेषतः ॥
तत्पुण्यं कोटिगुणितं जप्त्वा चाप्नोति मानवः
गोघ्नश्चैव कृतघ्नश् च वीरहा ब्रह्महा भवेत् ॥
शरणागतघाती च मित्रविश्वासघातकः
दुष्टः पापसमाचारो मातृहा पितृहा तथा ॥
व्यपोह्य सर्वपापानि शिवलोके महीयते ॥
मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0