लिङ्गपुराण · अध्याय 1.81
व्रतमेतत्त्वया प्रोक्तं पशुपाशविमोक्षणम्
व्रतं पाशुपतं लैङ्गं पुरा देवैर् अनुष्ठितम् ॥
वक्तुमर्हसि चास्माकं यथापूर्वं त्वया श्रुतम्
पुरा सनत्कुमारेण पृष्टः शैलादिरादरात् ॥
नन्दी प्राह वचस्तस्मै प्रवदामि समासतः
देवैर्दैत्यैस् तथा सिद्धैर् गन्धर्वैः सिद्धचारणैः ॥
मुनिभिश् च महाभागैर् अनुष्ठितमनुत्तमम्
व्रतं द्वादशलिङ्गाख्यं पशुपाशविमोक्षणम् ॥
भोगदं योगदं चैव कामदं मुक्तिदं शुभम्
अवियोगकरं पुण्यं भक्तानां भयनाशनम् ॥
षडङ्गसहितान् वेदान् मथित्वा तेन निर्मितम्
सर्वदानोत्तमं पुण्यम् अश्वमेधायुताधिकम् ॥
सर्वमङ्गलदं पुण्यं सर्वशत्रुविनाशनम्
संसारार्णवमग्नानां जन्तूनामपि मोक्षदम् ॥
सर्वव्याधिहरं चैव सर्वज्वरविनाशनम्
देवैरनुष्ठितं पूर्वं ब्रह्मणा विष्णुना तथा ॥
कृत्वा कनीयसं लिङ्गं स्नाप्य चन्दनवारिणा
चैत्रमासादि विप्रेन्द्राः शिवलिङ्गव्रतं चरेत् ॥
कृत्वा हैमं शुभं पद्मं कर्णिकाकेसरान्वितम्
नवरत्नैश् च खचितम् अष्टपत्रं यथाविधि ॥
कर्णिकायां न्यसेल्लिङ्गं स्फाटिकं पीठसंयुतम्
तत्र भक्त्या यथान्यायम् अर्चयेद् बिल्वपत्रकैः ॥
सितैः सहस्रकमलै रक्तैर्नीलोत्पलैरपि
श्वेतार्ककर्णिकारैश् च करवीरैर्बकैरपि ॥
एतैरन्यैर् यथालाभं गायत्र्या तस्य सुव्रताः
सम्पूज्य चैव गन्धाद्यैर् धूपैर्दीपैश् च मङ्गलैः ॥
नीराजनाद्यैश्चान्यैश् च लिङ्गमूर्तिमहेश्वरम्
अगरुं दक्षिणे दद्याद् अघोरेण द्विजोत्तमाः ॥
पश्चिमे सद्यमन्त्रेण दिव्यां चैव मनःशिलाम्
उत्तरे वामदेवेन चन्दनं वापि दापयेत् ॥
पुरुषेण मुनिश्रेष्ठा हरितालं च पूर्वतः
सितागरूद्भवं विप्रास् तथा कृष्णागरूद्भवम् ॥
तथा गुग्गुलुधूपं च सौगन्धिकमनुत्तमम्
सितारं नाम धूपं च दद्याद् ईशाय भक्तितः ॥
महाचरुर्निवेद्यः स्याद् आढकान्नमथापि वा
एतद् वः कथितं पुण्यं शिवलिङ्गमहाव्रतम् ॥
सर्वमासेषु सामान्यं विशेषो ऽपि च कीर्त्यते
वैशाखे वज्रलिङ्गं च ज्येष्ठे मारकतं तथा ॥
आषाढे मौक्तिकं लिङ्गं श्रावणे नीलनिर्मितम्
मासि भाद्रपदे लिङ्गं पद्मरागमयं शुभम् ॥
आश्विने चैव विप्रेन्द्राः गोमेदकमयं शुभम्
प्रवालेनैव कार्तिक्यां तथा वै मार्गशीर्षके ॥
वैडूर्यनिर्मितं लिङ्गं पुष्परागेण पुष्यके
माघे च सूर्यकान्तेन फाल्गुने स्फाटिकेन च ॥
सर्वमासेषु कमलं हैममेकं विधीयते
अलाभे राजतं वापि केवलं कमलं तु वा ॥
रत्नानाम् अप्यलाभे तु हेम्ना वा राजतेन वा
रजतस्याप्यलाभे तु ताम्रलोहेन कारयेत् ॥
शैलं वा दारुजं वापि मृन्मयं वा सवेदिकम्
सर्वगन्धमयं वापि क्षणिकं परिकल्पयेत् ॥
हैमन्तिके महादेवं श्रीपत्त्रेणैव पूजयेत्
सर्वमासेषु कमलं हैममेकमथापि वा ॥
राजतं वापि कमलं हैमकर्णिकमुत्तमम्
राजतस्याप्यभावे तु बिल्वपत्रैः समर्चयेत् ॥
सहस्रकमलालाभे तदर्धेनापि पूजयेत्
तदर्धार्धेन वा रुद्रम् अष्टोत्तरशतेन वा ॥
बिल्वपत्रे स्थिता लक्ष्मीर् देवी लक्षणसंयुता
नीलोत्पले ऽंबिका साक्षाद् उत्पले षण्मुखः स्वयम् ॥
पद्माश्रितो महादेवः सर्वदेवपतिः शिवः
तस्मात्सर्वप्रयत्नेन श्रीपत्त्रं न त्यजेद्बुधः ॥
नीलोत्पलं चोत्पलं च कमलं च विशेषतः
सर्ववश्यकरं पद्मं शिला सर्वार्थसिद्धिदा ॥
कृष्णागरुसमुद्भूतं सर्वपापनिकृन्तनम्
गुग्गुलुप्रभृतीनां चैव दीपानां च निवेदनम् ॥
सर्वरोगक्षयं चैव चन्दनं सर्वसिद्धिदम्
सौगन्धिकं तथा धूपं सर्वकामार्थसाधकम् ॥
श्वेतागरूद्भवं चैव तथा कृष्णागरूद्भवम्
सौम्यं सीतारिधूपं च साक्षान्निर्वाणसिद्धिदम् ॥
श्वेतार्ककुसुमे साक्षाच् चतुर्वक्त्रः प्रजापतिः
कर्णिकारस्य कुसुमे मेधा साक्षाद्व्यवस्थिता ॥
करवीरे गणाध्यक्षो बके नारायणः स्वयम्
सुगन्धिषु च सर्वेषु कुसुमेषु नगात्मजा ॥
तस्मादेतैर्यथालाभं पुष्पधूपादिभिः शुभैः
पूजयेद्देवदेवेशं भक्त्या वित्तानुसारतः ॥
निवेदयेत्ततो भक्त्या पायसं च महाचरुम्
सघृतं सोपदंशं च सर्वद्रव्यसमन्वितम् ॥
शुद्धान्नं वापि मुद्गान्नम् आढकं चार्धकं तु वा
चामरं तालवृन्तं च तस्मै भक्त्या निवेदयेत् ॥
उपहाराणि पुण्यानि न्यायेनैवार्जितान्यपि
नानाविधानि चार्हाणि प्रोक्षितान्यंभसा पुनः ॥
निवेदयेच्च रुद्राय भक्तियुक्तेन चेतसा
क्षीराद्वै सर्वदेवानां स्थित्यर्थममृतं ध्रुवम् ॥
विष्णुना जिष्णुना साक्षाद् अन्ने सर्वं प्रतिष्ठितम्
भूतानाम् अन्नदानेन प्रीतिर् भवति शङ्करे ॥
तस्मात् सम्पूजयेद् देवम् अन्ने प्राणाः प्रतिष्ठिताः
उपहारे तथा तुष्टिर् व्यञ्जने पवनः स्वयम् ॥
सर्वात्मको महादेवो गन्धतोये ह्यपाम्पतिः
पीठे वै प्रकृतिः साक्षान् महदाद्यैर्व्यवस्थिता ॥
तस्माद्देवं यजेद्भक्त्या प्रतिमासं यथाविधि
पौर्णमास्यां व्रतं कार्यं सर्वकामार्थसिद्धये ॥
सत्यं शौचं दया शान्तिः संतोषो दानमेव च
पौर्णमास्याममावास्याम् उपवासं च कारयेत् ॥
संवत्सरान्ते गोदानं वृषोत्सर्गं विशेषतः
भोजयेद्ब्राह्मणान्भक्त्या श्रोत्रियान् वेदपारगान् ॥
तल् लिङ्गं पूजितं तेन सर्वद्रव्यसमन्वितम्
स्थापयेद् वा शिवक्षेत्रे दापयेद् ब्राह्मणाय वा ॥
य एवं सर्वमासेषु शिवलिङ्गमहाव्रतम्
कुर्याद्भक्त्या मुनिश्रेष्ठाः स एव तपतां वरः ॥
सूर्यकोटिप्रतीकाशैर् विमानै रत्नभूषितैः
गत्वा शिवपुरं दिव्यं नेहायाति कदाचन ॥
अथवा ह्येकमासं वा चरेदेवं व्रतोत्तमम्
शिवलोकमवाप्नोति नात्र कार्या विचारणा ॥
अथवा सक्तचित्तश्चेद् यान्यान् संचिन्तयेद्वरान्
वर्षमेकं चरेदेवं तांस्तान्प्राप्य शिवं व्रजेत् ॥
देवत्वं वा पितृत्वं वा देवराजत्वमेव च
गाणपत्यपदं वापि सक्तो ऽपि लभते नरः ॥
विद्यार्थी लभते विद्यां भोगार्थी भोगमाप्नुयात्
द्रव्यार्थी च निधिं पश्येद् आयुःकामश् चिरायुषम् ॥
यान्यांश्चिन्तयते कामांस् तांस्तान्प्राप्येह मोदते
एकमासव्रतादेव सो ऽन्ते रुद्रत्वमाप्नुयात् ॥
इदं पवित्रं परमं रहस्यं व्रतोत्तमं विश्वसृजापि सृष्टम्
हिताय देवासुरसिद्धमर्त्य विद्याधराणां परमं शिवेन ॥
सम्पूज्य पूज्यं विधिनैवमीशं प्रणम्य मूर्ध्ना सह भृत्यपुत्रैः
व्यपोहनं नाम जपेत्स्तवं च प्रदक्षिणं कृत्य शिवं प्रयत्नात् ॥
पुराकृतं विश्वसृजा स्तवं च हिताय देवेन जगत्त्रयस्य
पितामहेनैव सुरैश्च सार्धं महानुभावेन महार्घ्यम् एतत् ॥
मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0