लिङ्गपुराण · अध्याय 1.80
कथं पशुपतिं दृष्ट्वा पशुपाशविमोक्षणम्
पशुत्वं तत्यजुर्देवास् तन्नो वक्तुमिहार्हसि ॥
पुरा कैलासशिखरे भोग्याख्ये स्वपुरे स्थितम्
समेत्य देवाः सर्वज्ञम् आजग्मुस्तत्प्रसादतः ॥
हिताय सर्वदेवानां ब्रह्मणा च जनार्दनः
गरुडस्य तथा स्कन्धम् आरुह्य पुरुषोत्तमः ॥
जगाम देवताभिर् वै देवदेवान्तिकं हरिः
सर्वे सम्प्राप्य देवस्य सार्धं गिरिवरं शुभम् ॥
सेन्द्राः ससाध्याः सयमाः प्रणेमुर् गिरिमुत्तमम्
भगवान् वासुदेवो ऽसौ गरुडाद् गरुडध्वजः
अवतीर्य गिरिं मेरुम् आरुरोह सुरोत्तमैः ॥
सकलदुरितहीनं सर्वदं भोगमुख्यं मुदितकुररवृन्दं नादितं नागवृन्दैः
मधुररणितगीतं सानुकूलान्धकारं पदरचितवनान्तं कान्तवातान्ततोयम् ॥
भवनशतसहस्रैर् जुष्टम् आदित्यकल्पैर् ललितगतिविदग्धैर् हंसवृन्दैश् च भिन्नम्
धवखदिरपलाशैश् चन्दनाद्यैश् च वृक्षैर् द्विजवरगणवृन्दैः कोकिलाद्यैर्द्विरेफैः ॥
क्वचिदशेषसुरद्रुमसंकुलं कुरबकैः प्रियकैस्तिलकैस् तथा
बहुकदम्बतमाललतावृतं गिरिवरं शिखरैर्विविधैस् तथा ॥
गिरेः पृष्ठे परं शार्वं कल्पितं विश्वकर्मणा
क्रीडार्थं देवदेवस्य भवस्य परमेष्ठिनः ॥
अपश्यंस्तत्पुरं देवाः सेन्द्रोपेन्द्राः समाहिताः
प्रणेमुर्दूरतश्चैव प्रभावादेव शूलिनः ॥
सहस्रसूर्यप्रतिमं महान्तं सहस्रशः सर्वगुणैश् च भिन्नम्
जगाम कैलासगिरिं महात्मा मेरुप्रभागे पुरमादिदेवः ॥
ततो ऽथ नारिगजवाजिसंकुलं रथैर् अनेकैर् अमरारिसूदनः
गणैर्गणेशैश् च गिरीन्द्रसंनिभं महापुरद्वारमजो हरिश् च ॥
अथ जांबूनदमयैर् भवनैर्मणिभूषितैः
विमानैर्विविधाकारैः प्राकारैश् च समावृतम् ॥
दृष्ट्वा शंभोः पुरं बाह्यं देवैः सब्रह्मकैर्हरिः
प्रहृष्टवदनो भूत्वा प्रविवेश ततः पुरम् ॥
हर्म्यप्रासादसम्बाधं महाट्टालसमन्वितम्
द्वितीयं देवदेवस्य चतुर्द्वारं सुशोभनम् ॥
वज्रवैडूर्यमाणिक्य मणिजालैः समावृतम्
दोलाविक्षेपसंयुक्तं घण्टाचामरभूषितम् ॥
मृदङ्गमुरजैर्जुष्टं वीणावेणुनिनादितम्
नृत्यद्भिर् अप्सरःसंघैर् भूतसंघैश् च संवृतम्
देवेन्द्रभवनाकारैर् भवनैर् दृष्टिमोहनैः ॥
प्रासादशृङ्गेष्वथ पौरनार्यः सहस्रशः पुष्पफलाक्षताद्यैः
स्थिताः करैस्तस्य हरेः समन्तात् प्रचिक्षिपुर्मूर्ध्नि यथा भवस्य ॥
दृष्ट्वा नार्यस्तदा विष्णुं मदाघूर्णितलोचनाः ॥
विशालजघनाः सद्यो ननृतुर्मुमुदुर्जगुः
काश्चिद्दृष्ट्वा हरिं नार्यः किंचित् प्रहसिताननाः ॥
किंचिद् विस्रस्तवस्त्राश् च स्रस्तकाञ्चीगुणा जगुः
चतुर्थं पञ्चमं चैव षष्ठं च सप्तमं तथा ॥
अष्टमं नवमं चैव दशमं च पुरोत्तमम्
अतीत्यासाद्य देवस्य पुरं शंभोः सुशोभनम् ॥
सुवृत्तं सुतरां शुभ्रं कैलासशिखरे शुभे
सूर्यमण्डलसंकाशैर् विमानैश् च विभूषितम् ॥
स्फाटिकैर् मण्डपैः शुभ्रैर् जांबूनदमयैस् तथा
नानारत्नमयैश्चैव दिग्विदिक्षु विभूषितम् ॥
गोपुरैर्गोपतेः शंभोर् नानाभूषणभूषितैः
अनेकैः सर्वतोभद्रैः सर्वरत्नमयैस् तथा ॥
प्राकारैर्विविधाकारैर् अष्टाविंशतिभिर् वृतम्
उपद्वारैर्महाद्वारैर् विदिक्षु विविधैर्दृढैः ॥
गुह्यालयैर्गुह्यगृहैर् गुहस्य भवनैः शुभैः
ग्राम्यैर् अन्यैर् महाभागा मौक्तिकैर् दृष्टिमोहनैः ॥
गणेशायतनैर् दिव्यैः पद्मरागमयैस् तथा
चन्दनैर्विविधाकारैः पुष्पोद्यानैश् च शोभनैः ॥
तडागैर् दिर्घिकाभिश् च हेमसोपानपङ्क्तिभिः
स्त्रीणां गतिजितैर् हंसैः सेविताभिः समन्ततः ॥
मयूरैश्चैव कारण्डैः कोकिलैश्चक्रवाककैः
शोभिताभिश् च वापीभिर् दिव्यामृतजलैस् तथा ॥
संलापालापकुशलैः सर्वाभरणभूषितैः
स्तनभारावनम्रैश् च मदाघूर्णितलोचनैः ॥
गेयनादरतैर्दिव्यै रुद्रकन्यासहस्रकैः
नृत्यद्भिर् अप्सरःसंघैर् अमरैरपि दुर्लभैः ॥
प्रफुल्लांबुजवृन्दाद्यैस् तथा द्विजवरैरपि
रुद्रस्त्रीगणसंकीर्णैर् जलक्रीडारतैस् तथा ॥
रतोत्सवरतैश्चैव ललितैश् च पदे पदे
ग्रामरागानुरक्तैश् च पद्मरागसमप्रभैः ॥
स्त्रीसंघैर् देवदेवस्य भवस्य परमात्मनः
दृष्ट्वा विस्मयमापन्नास् तस्थुर्देवाः समन्ततः ॥
तत्रैव ददृशुर्देवा वृन्दं रुद्रगणस्य च
गणेश्वराणां वीराणाम् अपि वृन्दं सहस्रशः ॥
सुवर्णकृतसोपानान् वज्रवैडूर्यभूषितान्
स्फाटिकान् देवदेवस्य ददृशुस्ते विमानकान् ॥
तेषां शृङ्गेषु हृष्टाश् च नार्यः कमललोचनाः
विशालजघना यक्षा गन्धर्वाप्सरसस् तथा ॥
किन्नर्यः किंनराश्चैव भुजङ्गाः सिद्धकन्यकाः
नानावेषधराश्चान्या नानाभूषणभूषिताः ॥
नानाप्रभावसंयुक्ता नानाभोगरतिप्रियाः
नीलोत्पलदलप्रख्याः पद्मपत्रायतेक्षणाः ॥
पद्मकिञ्जल्कसंकाशैर् अंशुकैरतिशोभनाः
वलयैर्नूपुरैर्हारैश् छत्रैश्चित्रैस्तथांशुकैः ॥
भूषिता भूषितैश् चान्यैर् मण्डिता मण्डनप्रियाः
दृष्ट्वाथ वृन्दं सुरसुन्दरीणां गणेश्वराणां सुरसुन्दरीणाम्
जग्मुर्गणेशस्य पुरं सुरेशाः पुरद्विषः शक्रपुरोगमाश् च ॥
दृष्ट्वा च तस्थुः सुरसिद्धसंघाः पुरस्य मध्ये पुरुहूतपूर्वाः
भवस्य बालार्कसहस्रवर्णं विमानमाद्यं परमेश्वरस्य ॥
अथ तस्य विमानस्य द्वारि संस्थं गणेश्वरम्
नन्दिनं ददृशुः सर्वे देवाः शक्रपुरोगमाः ॥
तं दृष्ट्वा नन्दिनं सर्वे प्रणम्याहुर् गणेश्वरम्
जयेति देवास्तं दृष्ट्वा सो ऽप्याह च गणेश्वरः ॥
भो भो देवा महाभागाः सर्वे निर्धूतकल्मषाः
सम्प्राप्ताः सर्वलोकेशा वक्तुमर्हथ सुव्रताः ॥
तमाहुर्वरदं देवं वारणेन्द्रसमप्रभम्
पशुपाशविमोक्षार्थं दर्शयास्मान् महेश्वरम् ॥
पुरा पुरत्रयं दग्धुं पशुत्वं परिभाषितम्
शङ्किताश् च वयं तत्र पशुत्वं प्रति सुव्रत ॥
व्रतं पाशुपतं प्रोक्तं भवेन परमेष्ठिना
व्रतेनानेन भूतेश पशुत्वं नैव विद्यते ॥
अथ द्वादशवर्षं वा मासद्वादशकं तु वा
दिनद्वादशकं वापि कृत्वा तद् व्रतम् उत्तमम् ॥
मुच्यन्ते पशवः सर्वे पशुपाशैर्भवस्य तु
दर्शयामास तान्देवान् नारायणपुरोगमान् ॥
नन्दी शिलादतनयः सर्वभूतगणाग्रणीः
तं दृष्ट्वा देवमीशानं सांबं सगणम् अव्ययम् ॥
प्रणेमुस् तुष्टुवुश् चैव प्रीतिकण्टकितत्वचः
विज्ञाप्य शितिकण्ठाय पशुपाशविमोक्षणम् ॥
तस्थुस्तदाग्रतः शंभोः प्रणिपत्य पुनः पुनः
ततः सम्प्रेक्ष्य तान् सर्वान् देवदेवो वृषध्वजः ॥
विशोध्य तेषां देवानां पशुत्वं परमेश्वरः
व्रतं पाशुपतं चैव स्वयं देवो महेश्वरः ॥
उपदिश्य मुनीनां च सहास्ते चांबया भवः
तदाप्रभृति ते देवाः सर्वे पाशुपताः स्मृताः ॥
पशूनां च पतिर्यस्मात् तेषां साक्षाद्धि देवताः
तस्मात्पाशुपताः प्रोक्तास् तपस्तेपुश् च ते पुनः ॥
ततो द्वादशवर्षान्ते मुक्तपाशाः सुरोत्तमाः
ययुर्यथागतं सर्वे ब्रह्मणा सह विष्णुना ॥
एतद्वः कथितं सर्वं पितामहमुखाच्छ्रुतम्
पुरा सनत्कुमारेण तस्माद्व्यासेन धीमता ॥
यः श्रावयेच्छुचिर् विप्राञ् छृणुयाद्वा शुचिर्नरः
स देहभेदमासाद्य पशुपाशैः प्रमुच्यते ॥
मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0