भाषा

ENहिગુ
ग्रंथ पाठ

लिङ्गपुराण · अध्याय 1.79

1.79.1

कथं पूज्यो महादेवो मर्त्यैर्मन्दैर्महामते
कल्पायुषैर् अल्पवीर्यैर् अल्पसत्त्वैः प्रजापतिः ॥

1.79.2

संवत्सरसहस्रैश् च तपसा पूज्य शङ्करम्
न पश्यन्ति सुराश्चापि कथं देवं यजन्ति ते ॥

1.79.3

कथितं तथ्यम् एवात्र युष्माभिर् मुनिपुङ्गवाः
तथापि श्रद्धया दृश्यः पूज्यः संभाष्य एव च ॥

1.79.4

प्रसंगाच्चैव सम्पूज्य भक्तिहीनैरपि द्विजाः
भावानुरूपफलदो भगवानिति कीर्तितः ॥

1.79.5

उच्छिष्टः पूजयन्याति पैशाचं तु द्विजाधमः
संक्रुद्धो राक्षसं स्थानं प्राप्नुयान् मूढधीर् द्विजाः ॥

1.79.6

अभक्ष्यभक्षी सम्पूज्य याक्षं प्राप्नोति दुर्जनः
गानशीलश् च गान्धर्वं नृत्यशीलस्तथैव च ॥

1.79.7

ख्यातिशीलस् तथा चान्द्रं स्त्रीषु सक्तो नराधमः
मदार्तः पूजयन् रुद्रं सोमस्थानमवाप्नुयात् ॥

1.79.8

गायत्र्या देवमभ्यर्च्य प्राजापत्यमवाप्नुयात्
ब्राह्मं हि प्रणवेनैव वैष्णवं चाभिनन्द्य च ॥

1.79.9

श्रद्धया सकृदेवापि समभ्यर्च्य महेश्वरम्
रुद्रलोकमनुप्राप्य रुद्रैः सार्धं प्रमोदते ॥

1.79.10

संशोध्य च शुभं लिङ्गम् अमरासुरपूजितम्
जलैः पूतैस्तथा पीठे देवमावाह्य भक्तितः ॥

1.79.11

दृष्ट्वा देवं यथान्यायं प्रणिपत्य च शङ्करम्
कल्पिते चासने स्थाप्य धर्मज्ञानमये शुभे ॥

1.79.12

वैराग्यैश्वर्यसम्पन्ने सर्वलोकनमस्कृते
ओङ्कारपद्ममध्ये तु सोमसूर्याग्निसंभवे ॥

1.79.13

पाद्यमाचमनं चार्घ्यं दत्त्वा रुद्राय शंभवे
स्नापयेद्दिव्यतोयैश् च घृतेन पयसा तथा ॥

1.79.14

दध्ना च स्नापयेद्रुद्रं शोधयेच्च यथाविधि
ततः शुद्धांबुना स्नाप्य चन्दनाद्यैश् च पूजयेत् ॥

1.79.15

रोचनाद्यैश् च सम्पूज्य दिव्यपुष्पैश् च पूजयेत्
बिल्वपत्रैरखण्डैश् च पद्मैर्नानाविधैस् तथा ॥

1.79.16

नीलोत्पलैश् च राजीवैर् नद्यावर्तैश् च मल्लिकैः
चम्पकैर् जातिपुष्पैश्च बकुलैः करवीरकैः ॥

1.79.17

शमीपुष्पैर् बृहत्पुष्पैर् उन्मत्तागस्त्यजैरपि
अपामार्गकदम्बैश् च भूषणैरपि शोभनैः ॥

1.79.18

दत्त्वा पञ्चविधं धूपं पायसं च निवेदयेत्
दधिभक्तं च मध्वाज्य परिप्लुतमतः परम् ॥

1.79.19

शुद्धान्नं चैव मुद्गान्नं षड्विधं च निवेदयेत्
अथ पञ्चविधं वापि सघृतं विनिवेदयेत् ॥

1.79.20

केवलं चापि शुद्धान्नम् आढकं तण्डुलं पचेत्
कृत्वा प्रदक्षिणं चान्ते नमस्कृत्य मुहुर्मुहुः ॥

1.79.21

स्तुत्वा च देवमीशानं पुनः सम्पूज्य शङ्करम्
ईशानं पुरुषं चैव अघोरं वाममेव च ॥

1.79.22

सद्योजातं जपंश्चापि पञ्चभिः पूजयेच्छिवम्
अनेन विधिना देवः प्रसीदति महेश्वरः ॥

1.79.23

वृक्षाः पुष्पादिपत्राद्यैर् उपयुक्ताः शिवार्चने
गावश्चैव द्विजश्रेष्ठाः प्रयान्ति परमां गतिम् ॥

1.79.24

पूजयेद्यः शिवं रुद्रं शर्वं भवमजं सकृत्
स याति शिवसायुज्यं पुनरावृत्तिवर्जितम् ॥

1.79.25

अर्चितं परमेशानं भवं शर्वमुमापतिम्
सकृत्प्रसंगाद्वा दृष्ट्वा सर्वपापैः प्रमुच्यते ॥

1.79.26

पूजितं वा महादेवं पूज्यमानमथापि वा
दृष्ट्वा प्रयाति वै मर्त्यो ब्रह्मलोकं न संशयः ॥

1.79.27

श्रुत्वानुमोदयेच्चापि स याति परमां गतिम्
यो दद्याद् घृतदीपं च सकृल्लिङ्गस्य चाग्रतः ॥

1.79.28

स तां गतिम् अवाप्नोति स्वाश्रमैर् दुर्लभां स्थिराम्
दीपवृक्षं पार्थिवं वा दारवं वा शिवालये ॥

1.79.29

दत्त्वा कुलशतं साग्रं शिवलोके महीयते
आयसं ताम्रजं वापि रौप्यं सौवर्णिकं तथा ॥

1.79.30

शिवाय दीपं यो दद्याद् विधिना वापि भक्तितः
सूर्यायुतसमैः श्लक्ष्णैर् यानैः शिवपुरं व्रजेत् ॥

1.79.31

कार्तिके मासि यो दद्याद् घृतदीपं शिवाग्रतः
सम्पूज्यमानं वा पश्येद् विधिना परमेश्वरम् ॥

1.79.32

स याति ब्रह्मणो लोकं श्रद्धया मुनिसत्तमाः
आवाहनं सुसान्निध्यं स्थापनं पूजनं तथा ॥

1.79.33

सम्प्रोक्तं रुद्रगायत्र्या आसनं प्रणवेन वै
पञ्चभिः स्नपनं प्रोक्तं रुद्राद्यैश् च विशेषतः ॥

1.79.34

एवं सम्पूजयेन्नित्यं देवदेवमुमापतिम्
ब्रह्माणं दक्षिणे तस्य प्रणवेन समर्चयेत् ॥

1.79.35

उत्तरे देवदेवेशं विष्णुं गायत्रिया यजेत्
वह्नौ हुत्वा यथान्यायं पञ्चभिः प्रणवेन च ॥

1.79.36

स याति शिवसायुज्यम् एवं सम्पूज्य शङ्करम्
इति संक्षेपतः प्रोक्तो लिङ्गार्चनविधिक्रमः ॥

1.79.37

व्यासेन कथितः पूर्वं श्रुत्वा रुद्रमुखात्स्वयम् ॥

मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc