भाषा

ENहिગુ
ग्रंथ पाठ

लिङ्गपुराण · अध्याय 1.7

1.7.1

रहस्यं वः प्रवक्ष्यामि भवस्यामिततेजसः
प्रभावं शंकरस्याद्यं संक्षेपात्सर्वदर्शिनः ॥

1.7.2

योगिनः सर्वतत्त्वज्ञाः परं वैराग्यमास्थिताः ॥

1.7.3

प्राणायामादिभिश्चाष्ट साधनैः सहचारिणः ॥

1.7.4

करुणादिगुणोपेताः कृत्वापि विविधानि ते
कर्माणि नरकं स्वर्गं गच्छन्त्येव स्वकर्मणा ॥

1.7.5

प्रसादाज्जायते ज्ञानं ज्ञानाद्योगः प्रवर्तते
योगेन जायते मुक्तिः प्रसादादखिलं ततः ॥

1.7.6

प्रसादाद् यदि विज्ञानं स्वरूपं वक्तुमर्हसि
दिव्यं माहेश्वरं चैव योगं योगविदां वर ॥

1.7.7

कथं करोति भगवान् चिन्तया रहितः शिवः
प्रसादं योगमार्गेण कस्मिन्काले नृणां विभुः ॥

1.7.8

देवानां च ऋषीणां च पितॄणां संनिधौ पुरा
शैलादिना तु कथितं शृण्वन्तु ब्रह्मसूनवे ॥

1.7.9

व्यासावताराणि तथा द्वापरान्ते च सुव्रताः
योगाचार्यावताराणि तथा तिष्ये तु शूलिनः ॥

1.7.10

तत्रतत्र विभोः शिष्याश् चत्वारः शमभाजनाः
प्रशिष्या बहवस्तेषां प्रसीदत्येवमीश्वरः ॥

1.7.11

एवं क्रमागतं ज्ञानं मुखादेव नृणां विभोः
वैश्यान्तं ब्राह्मणाद्यं हि घृणया चानुरूपतः ॥

1.7.12

द्वापरे द्वापरे व्यासाः के वै कुत्रान्तरेषु वै
कल्पेषु कस्मिन्कल्पे नो वक्तुमर्हसि चात्र तान् ॥

1.7.13

शृण्वन्तु कल्पे वाराहे द्विजा वैवस्वतान्तरे
व्यासांश् च साम्प्रतं रुद्रांस् तथा सर्वान्तरेषु वै ॥

1.7.14

वेदानां च पुराणानां तथा ज्ञानप्रदर्शकान्
यथाक्रमं प्रवक्ष्यामि सर्वावर्तेषु साम्प्रतम् ॥

1.7.15

क्रतुः सत्यो भार्गवश् च अङ्गिराः सविता द्विजाः
मृत्युः शतक्रतुर्धीमान् वसिष्ठो मुनिपुंगवः ॥

1.7.16

सारस्वतस्त्रिधामा च त्रिवृतो मुनिपुंगवः
शततेजाः स्वयंधर्मो नारायण इति श्रुतः ॥

1.7.17

तरक्षुश्चारुणिर्धीमांस् तथा देवः कृतंजयः
ऋतंजयो भरद्वाजो गौतमः कविसत्तमः ॥

1.7.18

वाचश्रवा मुनिः साक्षात् तथा शुष्मायणिः शुचिः
तृणबिन्दुर् मुनी रूक्षः शक्तिः शाक्तेय उत्तरः ॥

1.7.19

जातूकर्ण्यो हरिः साक्षात् कृष्णद्वैपायनो मुनिः
व्यासास्त्वेते च शृण्वन्तु कलौ योगेश्वरान् क्रमात् ॥

1.7.20

असंख्याता हि कल्पेषु विभोः सर्वान्तरेषु च
कलौ रुद्रावताराणां व्यासानां किल गौरवात् ॥

1.7.21

वैवस्वतान्तरे कल्पे वाराहे ये च तान् पुनः
अवतारान् प्रवक्ष्यामि तथा सर्वान्तरेषु वै ॥

1.7.22

मन्वन्तराणि वाराहे वक्तुमर्हसि साम्प्रतम्
तथैव चोर्ध्वकल्पेषु सिद्धान्वैवस्वतान्तरे ॥

1.7.23

मनुः स्वायम्भुवस्त्वाद्यस् ततः स्वारोचिषो द्विजाः
उत्तमस्तामसश्चैव रैवताश्चाक्षुषस् तथा ॥

1.7.24

वैवस्वतश् च सावर्णिर् धर्मः सावर्णिकः पुनः
पिशङ्गश्चापिशङ्गाभः शबलो वर्णकस् तथा ॥

1.7.25

औकारान्ता अकाराद्या मनवः परिकीर्तिताः
श्वेतः पाण्डुस् तथा रक्तस् ताम्रः पीतश्च कापिलः ॥

1.7.26

कृष्णः श्यामस् तथा धूम्रः सुधूम्रश् च द्विजोत्तमाः
अपिशङ्गः पिशङ्गश् च त्रिवर्णः शबलस् तथा ॥

1.7.27

कालंधुरस्तु कथिता वर्णतो मनवः शुभाः
नामतो वर्णतश्चैव वर्णतः पुनरेव च ॥

1.7.28

स्वरात्मानः समाख्याताश् चान्तरेशाः समासतः
वैवस्वत ऋकारस्तु मनुः कृष्णः सुरेश्वरः ॥

1.7.29

सप्तमस्तस्य वक्ष्यामि युगावर्तेषु योगिनः
समतीतेषु कल्पेषु तथा चानागतेषु वै ॥

1.7.30

वाराहः साम्प्रतं ज्ञेयः सप्तमान्तरतः क्रमात्
योगावतारांश् च विभोः शिष्याणां संततिस् तथा ॥

1.7.31

सम्प्रेक्ष्य सर्वकालेषु तथावर्तेषु योगिनाम्
आद्ये श्वेतः कलौ रुद्रः सुतारो मदनस् तथा ॥

1.7.32

सुहोत्रः कङ्कणश्चैव लोकाक्षिर् मुनिसत्तमाः
जैगीषव्यो महातेजा भगवान् दधिवाहनः ॥

1.7.33

ऋषभश् च मुनिर्धीमान् उग्रश्चात्रिः सुबालकः
गौतमश्चाथ भगवान् सर्वदेवनमस्कृतः ॥

1.7.34

वेदशीर्षश् च गोकर्णो गुहावासी शिखण्डभृत्
जटामाल्यट्टहासश् च दारुको लाङ्गली तथा ॥

1.7.35

महाकायमुनिः शूली दण्डी मुण्डीश्वरः स्वयम्
सहिष्णुः सोमशर्मा च नकुलीशो जगद्गुरुः ॥

1.7.36

वैवस्वते ऽन्तरे सम्यक् प्रोक्ता हि परमात्मनः
योगाचार्यावतारा ये सर्वावर्तेषु सुव्रताः ॥

1.7.37

व्यासाश्चैवं मुनिश्रेष्ठा द्वापरे द्वापरे त्विमे
योगेश्वराणां चत्वारः शिष्याः प्रत्येकमव्ययाः ॥

1.7.38

श्वेतः श्वेतशिखण्डी च श्वेताश्वः श्वेतलोहितः
दुन्दुभिः शतरूपश् च ऋचीकः केतुमांस् तथा ॥

1.7.39

विशोकश्च विकेशश् च विपाशः पापनाशनः
सुमुखो दुर्मुखश्चैव दुर्दमो दुरतिक्रमः ॥

1.7.40

सनकश् च सनन्दश् च प्रभुर्यश् च सनातनः
ऋभुः सनत्कुमारश् च सुधामा विरजास् तथा ॥

1.7.41

शङ्खपाद् वैरजश्चैव मेघः सारस्वतस् तथा
सुवाहनो मुनिश्रेष्ठो मेघवाहो महाद्युतिः ॥

1.7.42

कपिलश्चासुरिश्चैव तथा पञ्चशिखो मुनिः
वाल्कलश् च महायोगी धर्मात्मानो महौजसः ॥

1.7.43

पराशरश् च गर्गश् च भार्गवश्चाङ्गिरास् तथा
बलबन्धुर् निरामित्रः केतुशृङ्गस्तपोधनः ॥

1.7.44

लम्बोदरश् च लम्बश्च लम्बाक्षो लम्बकेशकः
सर्वज्ञः समबुद्धिश् च साध्यः सर्वस्तथैव च ॥

1.7.45

सुधामा काश्यपश्चैव वासिष्ठो विरजास् तथा
अत्रिर् देवसदश्चैव श्रवणो ऽथ श्रविष्ठकः
कुणिश् च कुणिबाहुश् च कुशरीरः कुनेत्रकः ॥

1.7.46

कश्यपो ऽप्युशनाश्चैव च्यवनो ऽथ बृहस्पतिः
उतथ्यो वामदेवश् च महायोगो महाबलः ॥

1.7.47

वाचश्रवाः सुधीकश्च श्यावाश्वश् च यतीश्वरः
हिरण्यनाभः कौशल्यो लोगाक्षिः कुथुमिस् तथा ॥

1.7.48

सुमन्तुर्बर्बरी विद्वान् कबन्धः कुशिकंधरः
प्लक्षो दाल्भ्यायणिश्चैव केतुमान् गोपनस् तथा ॥

1.7.49

भल्लावी मधुपिङ्गश्च श्वेतकेतुस्तपोनिधिः
उशिको बृहदश्वश् च देवलः कविरेव च ॥

1.7.50

शालिहोत्रो ऽग्निवेशश्च युवनाश्वः शरद्वसुः
छगलः कुण्डकर्णश् च कुम्भश्चैव प्रवाहकः ॥

1.7.51

उलूको विद्युतश्चैव मण्डूको ह्याश्वलायनः
अक्षपादः कुमारश् च उलूको वत्स एव च ॥

1.7.52

कुशिकश्चैव गर्भश् च मित्रः कौरुष्य एव च
शिष्यास्त्वेते महात्मानः सर्वावर्तेषु योगिनाम् ॥

1.7.53

विमला ब्रह्मभूयिष्ठा ज्ञानयोगपरायणाः
एते पाशुपताः सिद्धा भस्मोद्धूलितविग्रहाः ॥

1.7.54

शिष्याः प्रशिष्याश्चैतेषां शतशो ऽथ सहस्रशः
प्राप्य पाशुपतं योगं रुद्रलोकाय संस्थिताः ॥

1.7.55

देवादयः पिशाचान्ताः पशवः परिकीर्तिताः
तेषां पतित्वात्सर्वेशो भवः पशुपतिः स्मृतः ॥

1.7.56

तेन प्रणीतो रुद्रेण पशूनां पतिना द्विजाः
योगः पाशुपतो ज्ञेयः परावरविभूतये ॥

मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc