भाषा

ENहिગુ
ग्रंथ पाठ

लिङ्गपुराण · अध्याय 1.78

1.78.1

वस्त्रपूतेन तोयेन कार्यं चैवोपलेपनम्
शिवक्षेत्रे मुनिश्रेष्ठा नान्यथा सिद्धिरिष्यते ॥

1.78.2

आपः पूता भवन्त्येता वस्त्रपूताः समुद्धृताः
अफेना मुनिशार्दूला नादेयाश् च विशेषतः ॥

1.78.3

तस्माद्वै सर्वकार्याणि दैविकानि द्विजोत्तमाः
अद्भिः कार्याणि पूताभिः सर्वकार्यप्रसिद्धये ॥

1.78.4

जन्तुभिर् मिश्रिता ह्यापः सूक्ष्माभिस्तान्निहत्य तु
यत्पापं सकलं चाद्भिर् अपूताभिश्चिरं लभेत् ॥

1.78.5

संमार्जने तथा नॄणां मार्जने च विशेषतः
अग्नौ कण्डनके चैव पेषणे तोयसंग्रहे ॥

1.78.6

हिंसा सदा गृहस्थानां तस्माद्धिंसां विवर्जयेत्
अहिंसेयं परो धर्मः सर्वेषां प्राणिनां द्विजाः ॥

1.78.7

तस्मात्सर्वप्रयत्नेन वस्त्रपूतं समाचरेत्
तद्दानमभयं पुण्यं सर्वदानोत्तमोत्तमम् ॥

1.78.8

तस्मात्तु परिहर्तव्या हिंसा सर्वत्र सर्वदा
मनसा कर्मणा वाचा सर्वदाहिंसकं नरम् ॥

1.78.9

रक्षन्ति जन्तवः सर्वे हिंसकं बाधयन्ति च
त्रैलोक्यमखिलं दत्त्वा यत्फलं वेदपारगे ॥

1.78.10

तत्फलं कोटिगुणितं लभते ऽहिंसको नरः
मनसा कर्मणा वाचा सर्वभूतहिते रताः ॥

1.78.11

दयादर्शितपन्थानो रुद्रलोकं व्रजन्ति च
स्वामिवत्परिरक्षन्ति बहूनि विविधानि च ॥

1.78.12

ये पुत्रपौत्रवत्स्नेहाद् रुद्रलोकं व्रजन्ति ते
तस्मात्सर्वप्रयत्नेन वस्त्रपूतेन वारिणा ॥

1.78.13

कार्यमभ्युक्षणं नित्यं स्नपनं च विशेषतः
त्रैलोक्यमखिलं हत्वा यत्फलं परिकीर्त्यते ॥

1.78.14

शिवालये निहत्यैकम् अपि तत्सकलं लभेत्
शिवार्थं सर्वदा कार्या पुष्पहिंसा द्विजोत्तमाः ॥

1.78.15

यज्ञार्थं पशुहिंसा च क्षत्रियैर्दुष्टशासनम्
विहिताविहितं नास्ति योगिनां ब्रह्मवादिनाम् ॥

1.78.16

यतस्तस्मान्न हन्तव्या निषिद्धानां निषेवणात्
सर्वकर्माणि विन्यस्य संन्यस्ता ब्रह्मवादिनः ॥

1.78.17

न हन्तव्याः सदा पूज्याः पापकर्मरता अपि
पवित्रास्तु स्त्रियः सर्वा अत्रेश् च कुलसंभवाः ॥

1.78.18

ब्रह्महत्यासमं पापम् आत्रेयीं विनिहत्य च
स्त्रियः सर्वा न हन्तव्याः पापकर्मरता अपि ॥

1.78.19

न यज्ञार्थं स्त्रियो ग्राह्याः सर्वैः सर्वत्र सर्वदा
सर्ववर्णेषु विप्रेन्द्राः पापकर्मरता अपि ॥

1.78.20

मलिना रूपवत्यश् च विरूपा मलिनांबराः
न हन्तव्याः सदा मर्त्यैः शिववच्छङ्कया तथा ॥

1.78.21

वेदबाह्यव्रताचाराः श्रौतस्मार्तबहिष्कृताः
पाषण्डिन इति ख्याता न संभाष्या द्विजातिभिः ॥

1.78.22

न स्पृष्टव्या न द्रष्टव्या दृष्ट्वा भानुं समीक्षते
तथापि तेन वध्याश् च नृपैरन्यैश् च जन्तुभिः ॥

1.78.23

प्रसंगाद्वापि यो मर्त्यः सतां सकृदहो द्विजाः
रुद्रलोकमवाप्नोति समभ्यर्च्य महेश्वरम् ॥

1.78.24

भवन्ति दुःखिताः सर्वे निर्दया मुनिसत्तमाः
भक्तिहीना नराः सर्वे भवे परमकारणे ॥

1.78.25

ये भक्ता देवदेवस्य शिवस्य परमेष्ठिनः
भाग्यवन्तो विमुच्यन्ते भुक्त्वा भोगानिहैव ते ॥

1.78.26

पुत्रेषु दारेषु गृहेषु नॄणां भक्तं यथा चित्तमथादिदेवे
सकृत्प्रसंगाद्यतितापसानां तेषां न दूरः परमेशलोकः ॥

मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc