भाषा

ENहिગુ
ग्रंथ पाठ

लिङ्गपुराण · अध्याय 1.77

1.77.1

लिङ्गप्रतिष्ठापुण्यं च लिङ्गस्थापनमेव च
लिङ्गानां चैव भेदाश् च श्रुतं तव मुखादिह ॥

1.77.2

मृदादिरत्नपर्यन्तैर् द्रव्यैः कृत्वा शिवालयम्
यत्फलं लभते मर्त्यस् तत्फलं वक्तुमर्हसि ॥

1.77.3

यस्य भक्तो ऽपि लोके ऽस्मिन् पुत्रदारगृहादिभिः
बाध्यते ज्ञानयुक्तश्चेन् न च तस्य गृहैस्तु किम् ॥

1.77.4

तथापि भक्ताः परमेश्वरस्य कृत्वेष्टलोष्टैरपि रुद्रलोकम्
प्रयान्ति दिव्यं हि विमानवर्यं सुरेन्द्रपद्मोद्भववन्दितस्य ॥

1.77.5

गृहं च तादृग्विधमस्य शंभोः सम्पूज्य रुद्रत्वमवाप्नुवन्ति ॥

1.77.6

तस्मात्सर्वप्रयत्नेन भक्त्या भक्तैः शिवालयम्
कर्तव्यं सर्वयत्नेन धर्मकामार्थसिद्धये ॥

1.77.7

केसरं नागरं वापि द्राविडं वा तथापरम्
कृत्वा रुद्रालयं भक्त्या शिवलोके महीयते ॥

1.77.8

कैलासाख्यं च यः कुर्यात् प्रासादं परमेष्ठिनः
कैलासशिखराकारैर् विमानैर् मोदते सुखी ॥

1.77.9

मन्दरं वा प्रकुर्वीत शिवाय विधिपूर्वकम्
भक्त्या वित्तानुसारेण उत्तमाधममध्यमम् ॥

1.77.10

मन्दराद्रिप्रतीकाशैर् विमानैर्विश्वतोमुखैः
अप्सरोगणसंकीर्णैर् देवदानवदुर्लभैः ॥

1.77.11

गत्वा शिवपुरं रम्यं भुक्त्वा भोगान् यथेप्सितान्
ज्ञानयोगं समासाद्य गाणपत्यं लभेन्नरः ॥

1.77.12

यः कुर्यान्मेरुनामानं प्रासादं परमेष्ठिनः
स यत्फलमवाप्नोति न तत् सर्वैर् महामखैः ॥

1.77.13

सर्वयज्ञतपोदान तीर्थवेदेषु यत्फलम्
तत्फलं सकलं लब्ध्वा शिववन्मोदते चिरम् ॥

1.77.14

निषधं नाम यः कुर्यात् प्रासादं भक्तितः सुधीः
शिवलोकमनुप्राप्य शिववन्मोदते चिरम् ॥

1.77.15

कुर्याद्वा यः शुभं विप्रा हिमशैलमनुत्तमम्
हिमशैलोपमैर् यानैर् गत्वा शिवपुरं शुभम् ॥

1.77.16

ज्ञानयोगं समासाद्य गाणपत्यमवाप्नुयात्
नीलाद्रिशिखराख्यं वा प्रासादं यः सुशोभनम् ॥

1.77.17

कृत्वा वित्तानुसारेण भक्त्या रुद्राय शंभवे
यत्फलं लभते मर्त्यस् तत्फलं प्रवदाम्यहम् ॥

1.77.18

हिमशैले कृते भक्त्या यत्फलं प्राक् तवोदितम्
तत्फलं सकलं लब्ध्वा सर्वदेवनमस्कृतः ॥

1.77.19

रुद्रलोकमनुप्राप्य रुद्रैः सार्धं प्रमोदते
महेन्द्रशैलनामानं प्रासादं रुद्रसंमतम् ॥

1.77.20

कृत्वा यत्फलमाप्नोति तत्फलं प्रवदाम्यहम्
महेन्द्रपर्वताकारैर् विमानैर्वृषसंयुतैः ॥

1.77.21

गत्वा शिवपुरं दिव्यं भुक्त्वा भोगान्यथेप्सितान्
ज्ञानं विचारितं रुद्रैः सम्प्राप्य मुनिपुङ्गवाः ॥

1.77.22

विषयान् विषवत् त्यक्त्वा शिवसायुज्यमाप्नुयात्
हेम्ना यस्तु प्रकुर्वीत प्रासादं रत्नशोभितम् ॥

1.77.23

द्राविडं नागरं वापि केसरं वा विधानतः
कूटं वा मण्डपं वापि समं वा दीर्घम् एव च ॥

1.77.24

न तस्य शक्यते वक्तुं पुण्यं शतयुगैरपि
जीर्णं वा पतितं वापि खण्डितं स्फुटितं तथा ॥

1.77.25

पूर्ववत्कारयेद्यस्तु द्वाराद्यैः सुशुभं द्विजाः
प्रासादं मण्डपं वापि प्राकारं गोपुरं तु वा ॥

1.77.26

कर्तुरप्यधिकं पुण्यं लभते नात्र संशयः
वृत्त्यर्थं वा प्रकुर्वीत नरः कर्म शिवालये ॥

1.77.27

यः स याति न संदेहः स्वर्गलोकं सबान्धवः
यश्चात्मभोगसिद्ध्यर्थम् अपि रुद्रालये सकृत् ॥

1.77.28

कर्म कुर्याद्यदि सुखं लब्ध्वा चापि प्रमोदते
तस्माद् आयतनं भक्त्या यः कुर्यान् मुनिसत्तमाः ॥

1.77.29

काष्ठेष्टकादिभिर् मर्त्यः शिवलोके महीयते
प्रसादार्थं महेशस्य प्रासादे मुनिपुङ्गवाः ॥

1.77.30

कर्तव्यः सर्वयत्नेन धर्मकामार्थमुक्तये
अशक्तश्चेन्मुनिश्रेष्ठाः प्रासादं कर्तुमुत्तमम् ॥

1.77.31

संमार्जनादिभिर् वापि सर्वान्कामानवाप्नुयात्
संमार्जनं तु यः कुर्यान् मार्जन्या मृदुसूक्ष्मया ॥

1.77.32

चान्द्रायणसहस्रस्य फलं मासेन लभ्यते
यः कुर्याद्वस्त्रपूतेन गन्धगोमयवारिणा ॥

1.77.33

आलेपनं यथान्यायं वर्षचान्द्रायणं लभेत्
अर्धक्रोशं शिवक्षेत्रं शिवलिङ्गात्समन्ततः ॥

1.77.34

यस् त्यजेद् दुस्त्यजान् प्राणाञ् शिवसायुज्यम् आप्नुयात्
स्वायंभुवस्य मानं हि तथा बाणस्य सुव्रताः ॥

1.77.35

स्वायंभुवे तदर्धं स्यात् स्याद् आर्षे च तदर्धकम्
मानुषे च तदर्धं स्यात् क्षेत्रमानं द्विजोत्तमाः ॥

1.77.36

एवं यतीनामावासे क्षेत्रमानं द्विजोत्तमाः
रुद्रावतारे चाद्यं यच् छिष्ये चैव प्रशिष्यके ॥

1.77.37

नरावतारे तच्छिष्ये तच्छिष्ये च प्रशिष्यके
श्रीपर्वते महापुण्ये तस्य प्रान्ते च वा द्विजाः ॥

1.77.38

तस्मिन्वा यस्त्यजेत्प्राणाञ् छिवसायुज्यमाप्नुयात्
वाराणस्यां तथाप्येवम् अविमुक्ते विशेषतः ॥

1.77.39

केदारे च महाक्षेत्रे प्रयागे च विशेषतः
कुरुक्षेत्रे च यः प्राणान् संत्यजेद्याति निर्वृतिम् ॥

1.77.40

प्रभासे पुष्करे ऽवन्त्यां तथा चैवामरेश्वरे
वणीशैलाकुले चैव मृतो याति शिवात्मताम् ॥

1.77.41

वाराणस्यां मृतो जन्तुर् न जातु जन्तुतां व्रजेत्
त्रिविष्टपे विमुक्ते च केदारे संगमेश्वरे ॥

1.77.42

शालङ्के वा त्यजेत्प्राणांस् तथा वै जम्बुकेश्वरे
शुक्रेश्वरे वा गोकर्णे भास्करेशे गुहेश्वरे ॥

1.77.43

हिरण्यगर्भे नन्दीशे स याति परमां गतिम्
नियमैः शोष्य यो देहं त्यजेत्क्षेत्रे शिवस्य तु ॥

1.77.44

स याति शिवतां योगी मानुषे दैविके ऽपि वा
आर्षे वापि मुनिश्रेष्ठास् तथा स्वायंभुवे ऽपि वा ॥

1.77.45

स्वयंभूते तथा देवे नात्र कार्या विचारणा
आधायाग्निं शिवक्षेत्रे सम्पूज्य परमेश्वरम् ॥

1.77.46

स्वदेहपिण्डं जुहुयाद् यः स याति परां गतिम्
यावत्तावन्निराहारो भूत्वा प्राणान् परित्यजेत् ॥

1.77.47

शिवक्षेत्रे मुनिश्रेष्ठाः शिवसायुज्यमाप्नुयात्
छित्त्वा पादद्वयं चापि शिवक्षेत्रे वसेत्तु यः ॥

1.77.48

स याति शिवतां चैव नात्र कार्या विचारणा
क्षेत्रस्य दर्शनं पुण्यं प्रवेशस्तच्छताधिकः ॥

1.77.49

तस्माच्छतगुणं पुण्यं स्पर्शनं च प्रदक्षिणम्
तस्माच्छतगुणं पुण्यं जलस्नानमतः परम् ॥

1.77.50

क्षीरस्नानं ततो विप्राः शताधिकमनुत्तमम्
दध्ना सहस्रमाख्यातं मधुना तच्छताधिकम् ॥

1.77.51

घृतस्नानेन चानन्तं शार्करे तच्छताधिकम्
शिवक्षेत्रसमीपस्थां नदीं प्राप्यावगाह्य च ॥

1.77.52

त्यजेद्देहं विहायान्नं शिवलोके महीयते
शिवक्षेत्रसमीपस्था नद्यः सर्वाः सुशोभनाः ॥

1.77.53

वापीकूपतडागाश् च शिवतीर्था इति स्मृताः
स्नात्वा तेषु नरो भक्त्या तीर्थेषु द्विजसत्तमाः ॥

1.77.54

ब्रह्महत्यादिभिः पापैर् मुच्यते नात्र संशयः
प्रातः स्नात्वा मुनिश्रेष्ठाः शिवतीर्थेषु मानवः ॥

1.77.55

अश्वमेधफलं प्राप्य रुद्रलोकं स गच्छति
मध्याह्ने शिवतीर्थेषु स्नात्वा भक्त्या सकृन्नरः ॥

1.77.56

गङ्गास्नानसमं पुण्यं लभते नात्र संशयः
अस्तं गते तथा चार्के स्नात्वा गच्छेच्छिवं पदम् ॥

1.77.57

पापकञ्चुकमुत्सृज्य शिवतीर्थेषु मानवः
द्विजास् त्रिषवणं स्नात्वा शिवतीर्थे सकृन्नरः ॥

1.77.58

शिवसायुज्यमाप्नोति नात्र कार्या विचारणा
पुराथ सूकरः कश्चित् श्वानं दृष्ट्वा भयात्पथि ॥

1.77.59

प्रसंगाद्वारमेकं तु शिवतीर्थे ऽवगाह्य च
मृतः स्वयं द्विजश्रेष्ठा गाणपत्यमवाप्तवान् ॥

1.77.60

यः प्रातर्देवदेवेशं शिवं लिङ्गस्वरूपिणम्
पश्येत्स याति सर्वस्माद् अधिकां गतिमेव च ॥

1.77.61

मध्याह्ने च महादेवं दृष्ट्वा यज्ञफलं लभेत्
सायाह्ने सर्वयज्ञानां फलं प्राप्य विमुच्यते ॥

1.77.62

मानसैर्वाचिकैः पापैः कायिकैश् च महत्तरैः
तथोपपातकैश्चैव पापैश्चैवानुपातकैः ॥

1.77.63

संक्रमे देवमीशानं दृष्ट्वा लिङ्गाकृतिं प्रभुम्
मासेन यत्कृतं पापं त्यक्त्वा याति शिवं पदम् ॥

1.77.64

अयने चार्धमासेन दक्षिणे चोत्तरायणे
विषुवे चैव सम्पूज्य प्रयाति परमां गतिम् ॥

1.77.65

प्रदक्षिणत्रयं कुर्याद् यः प्रासादं समन्ततः
सव्यापसव्यन्यायेन मृदुगत्या शुचिर्नरः ॥

1.77.66

पदे पदे ऽश्वमेधस्य यज्ञस्य फलमाप्नुयात्
वाचा यस्तु शिवं नित्यं संरौति परमेश्वरम् ॥

1.77.67

सो ऽपि याति शिवं स्थानं प्राप्य किं पुनरेव च
कृत्वा मण्डलकं क्षेत्रं गन्धगोमयवारिणा ॥

1.77.68

मुक्ताफलमयैश्चूर्णैर् इन्द्रनीलमयैस् तथा
पद्मरागमयैश्चैव स्फाटिकैश् च सुशोभनैः ॥

1.77.69

तथा मारकतैश्चैव सौवर्णै राजतैस् तथा
तद्वर्णैर् लौकिकैश्चैव चूर्णैर्वित्तविवर्जितैः ॥

1.77.70

आलिख्य कमलं भद्रं दशहस्तप्रमाणतः
सकर्णिकं महाभागा महादेवसमीपतः ॥

1.77.71

तत्रावाह्य महादेवं नवशक्तिसमन्वितम्
पञ्चभिश्च तथा षड्भिर् अष्टाभिश्चेष्टदं परम् ॥

1.77.72

पुनरष्टाभिर् ईशानं दशारे दशभिस् तथा
पुनर्बाह्ये च दशभिः सम्पूज्य प्रणिपत्य च ॥

1.77.73

निवेद्य देवदेवाय क्षितिदानफलं लभेत्
शालिपिष्टादिभिर् वापि पद्ममालिख्य निर्धनः ॥

1.77.74

पूर्वोक्तमखिलं पुण्यं लभते नात्र संशयः
द्वादशारं तथालिख्य मण्डलं पदम् उत्तमम् ॥

1.77.75

रत्नचूर्णादिभिश्चूर्णैस् तथा द्वादशमूर्तिभिः
मण्डलस्य च मध्ये तु भास्करं स्थाप्य पूजयेत् ॥

1.77.76

ग्रहैश् च संवृतं वापि सूर्यसायुज्यमुत्तमम्
एवं प्राकृतम् अप्यार्थ्यां षडस्रं परिकल्प्य च ॥

1.77.77

मध्यदेशे च देवेशीं प्रकृतिं ब्रह्मरूपिणीम्
दक्षिणे सत्त्वमूर्तिं च वामतश् च रजोगुणम् ॥

1.77.78

अग्रतस्तु तमोमूर्तिं मध्ये देवीं तथांबिकाम्
पञ्चभूतानि तन्मात्रा पञ्चकं चैव दक्षिणे ॥

1.77.79

कर्मेन्द्रियाणि पञ्चैव तथा बुद्धीन्द्रियाणि च
उत्तरे विधिवत्पूज्य षडस्रे चैव पूजयेत् ॥

1.77.80

आत्मानं चान्तरात्मानं युगलं बुद्धिमेव च
अहङ्कारं च महता सर्वयज्ञफलं लभेत् ॥

1.77.81

एवं वः कथितं सर्वं प्राकृतं मण्डलं परम्
अतो वक्ष्यामि विप्रेन्द्राः सर्वकामार्थसाधनम् ॥

1.77.82

गोचर्ममात्रमालिख्य मण्डलं गोमयेन तु
चतुरश्रं विधानेन चाद्भिर् अभ्युक्ष्य मन्त्रवित् ॥

1.77.83

अलंकृत्य वितानाद्यैश् छत्रैर् वापि मनोरमैः
बुद्बुदैरर्धचन्द्रैश् च हैमैरश्वत्थपत्रकैः ॥

1.77.84

सितैर्विकसितैः पद्मै रक्तैर् नीलोत्पलैस् तथा
मुक्तादामैर् वितानान्ते लम्बितस्तु सितैर्ध्वजैः ॥

1.77.85

सितमृत्पात्रकैश्चैव सुश्लक्ष्णैः पूर्णकुम्भकैः
फलपल्लवमालाभिर् वैजयन्तीभिर् अंशुकैः ॥

1.77.86

पञ्चाशद्दीपमालाभिर् धूपैः पञ्चविधैस् तथा
पञ्चाशद्दलसंयुक्तम् आलिखेत्पद्ममुत्तमम् ॥

1.77.87

तत्तद्वर्णैस् तथा चूर्णैः श्वेतचूर्णैरथापि वा
एकहस्तप्रमाणेन कृत्वा पद्मं विधानतः ॥

1.77.88

कर्णिकायां न्यसेद् देवं देव्या देवेश्वरं भवम्
वर्णानि च न्यसेत्पत्रे रुद्रैः प्रागाद्यनुक्रमात् ॥

1.77.89

प्रणवादिनमो ऽन्तानि सर्ववर्णानि सुव्रताः
सम्पूज्यैवं मुनिश्रेष्ठा गन्धपुष्पादिभिः क्रमात् ॥

1.77.90

ब्राह्मणान् भोजयेत्तत्र पञ्चाशद्विधिपूर्वकम्
अक्षमालोपवीतं च कुण्डलं च कमण्डलुम् ॥

1.77.91

आसनं च तथा दण्डम् उष्णीषं वस्त्रमेव च
दत्त्वा तेषां मुनीन्द्राणां देवदेवाय शंभवे ॥

1.77.92

महाचरुं निवेद्यैवं कृष्णं गोमिथुनं तथा
अन्ते च देवदेवाय दापयेच्चूर्णमण्डलम् ॥

1.77.93

यागोपयोगद्रव्याणि शिवाय विनिवेदयेत्
ओङ्काराद्यं जपेद्धीमान् प्रतिवर्णम् अनुक्रमात् ॥

1.77.94

एवमालिख्य यो भक्त्या सर्वमण्डलमुत्तमम्
यत्फलं लभते मर्त्यस् तद्वदामि समासतः ॥

1.77.95

साङ्गान् वेदान् यथान्यायम् अधीत्य विधिपूर्वकम्
इष्ट्वा यज्ञैर्यथान्यायं ज्योतिष्टोमादिभिः क्रमात् ॥

1.77.96

ततो विश्वजिदन्तैश् च पुत्रानुत्पाद्य तादृशान्
वानप्रस्थाश्रमं गत्वा सदारः साग्निरेव च ॥

1.77.97

चान्द्रायणादिकाः सर्वाः कृत्वा न्यस्य क्रिया द्विजाः
ब्रह्मविद्यामधीत्यैव ज्ञानमासाद्य यत्नतः ॥

1.77.98

ज्ञानेन ज्ञेयम् आलोक्य योगी यत्काममाप्नुयात्
तत्फलं लभते सर्वं वर्णमण्डलदर्शनात् ॥

1.77.99

येन केनापि वा मर्त्यः प्रलिप्यायतनाग्रतः
उत्तरे दक्षिणे वापि पृष्ठतो वा द्विजोत्तमाः ॥

1.77.100

चतुष्कोणं तु वा चूर्णैर् अलंकृत्य समन्ततः
पुष्पाक्षतादिभिः पूज्य सर्वपापैः प्रमुच्यते ॥

1.77.101

यस्तु गर्भगृहं भक्त्या सकृदालिप्य सर्वतः
चन्दनाद्यैः सकर्पूरैर् गन्धद्रव्यैः समन्ततः ॥

1.77.102

विकीर्य गन्धकुसुमैर् धूपैर्धूप्य चतुर्विधैः
प्रार्थयेद्देवमीशानं शिवलोकं स गच्छति ॥

1.77.103

तत्र भुक्त्वा महाभोगान् कल्पकोटिशतं नरः
स्वदेहगन्धकुसुमैः पूरयञ्छिवमन्दिरम् ॥

1.77.104

क्रमाद्गान्धर्वमासाद्य गन्धर्वैश् च सुपूजितः
क्रमादागत्य लोके ऽस्मिन् राजा भवति वीर्यवान् ॥

1.77.105

आदिदेवो महादेवः प्रलयस्थितिकारकः
सर्गश् च भुवनाधीशः शर्वव्यापी सदाशिवः
शिवब्रह्मामृतं ग्राह्यं मोक्षसाधनम् उत्तमम् ॥

1.77.106

व्यक्ताव्यक्तं सदा नित्यम् अचिन्त्यम् अर्चयेत् प्रभुम् ॥

मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc