लिङ्गपुराण · अध्याय 1.76
अतः परं प्रवक्ष्यामि स्वेच्छाविग्रहसंभवम्
प्रतिष्ठायाः फलं सर्वं सर्वलोकहिताय वै ॥
स्कन्दोमासहितं देवम् आसीनं परमासने
कृत्वा भक्त्या प्रतिष्ठाप्य सर्वान्कामानवाप्नुयात् ॥
स्कन्दोमासहितं देवं सम्पूज्य विधिना सकृत्
यत्फलं लभते मर्त्यस् तद्वदामि यथाश्रुतम् ॥
सूर्यकोटिप्रतिकाशैर् विमानैः सार्वकामिकैः
रुद्रकन्यासमाकीर्णैर् गेयनाट्यसमन्वितैः ॥
शिववत्क्रीडते योगी यावदाभूतसंप्लवम्
तत्र भुक्त्वा महाभोगान् विमानैः सार्वकामिकैः ॥
औमं कौमारमैशानं वैष्णवं ब्राह्ममेव च
प्राजापत्यं महातेजा जनलोकं महस् तथा ॥
ऐन्द्रम् आसाद्य चैन्द्रत्वं कृत्वा वर्षायुतं पुनः
भुक्त्वा चैव भुवर्लोके भोगान् दिव्यान् सुशोभनान् ॥
मेरुमासाद्य देवानां भवनेषु प्रमोदते
एकपादं चतुर्बाहुं त्रिनेत्रं शूलसंयुतम् ॥
सृष्ट्वा स्थितं हरिं वामे दक्षिणे चतुराननम्
अष्टाविंशतिरुद्राणां कोटिः सर्वाङ्गसुप्रभम् ॥
पञ्चविंशतिकं साक्षात् पुरुषं हृदयात्तथा
प्रकृतिं वामतश्चैव बुद्धिं वै बुद्धिदेशतः ॥
अहङ्कारमहङ्कारात् तन्मात्राणि तु तत्र वै
इन्द्रियाणीन्द्रियादेव लीलया परमेश्वरम् ॥
पृथिवीं पादमूलात्तु गुह्यदेशाज्जलं तथा
नाभिदेशात् तथा वह्निं हृदयाद्भास्करं तथा ॥
कण्ठात्सोमं तथात्मानं भ्रूमध्यान्मस्तकाद्दिवम्
सृष्टैवं संस्थितं साक्षाज् जगत्सर्वं चराचरम् ॥
सर्वज्ञं सर्वगं देवं कृत्वा विद्याविधानतः
प्रतिष्ठाप्य यथान्यायं शिवसायुज्यमाप्नुयात् ॥
त्रिपादं सप्तहस्तं च चतुःशृङ्गं द्विशीर्षकम्
कृत्वा यज्ञेशमीशानं विष्णुलोके महीयते ॥
तत्र भुक्त्वा महाभोगान् कल्पलक्षं सुखी नरः
क्रमादागत्य लोके ऽस्मिन् सर्वयज्ञान्तगो भवेत् ॥
वृषारूढं तु यः कुर्यात् सोमं सोमार्धभूषणम्
हयमेधायुतं कृत्वा यत्पुण्यं तद् अवाप्य सः ॥
काञ्चनेन विमानेन किङ्किणीजालमालिना
गत्वा शिवपुरं दिव्यं तत्रैव स विमुच्यते ॥
नन्दिना सहितं देवं साम्बं सर्वगणैर्वृतम्
कृत्वा यत्फलमाप्नोति वक्ष्ये तद्वै यथाश्रुतम् ॥
सूर्यमण्डलसंकाशैर् विमानैर् वृषसंयुतैः
अप्सरोगणसंकीर्णैर् देवदानवदुर्लभैः ॥
नृत्यद्भिर् अप्सरःसंघैः सर्वतः सर्वशोभितैः
गत्वा शिवपुरं दिव्यं गाणपत्यमवाप्नुयात् ॥
नृत्यन्तं देवदेवेशं शैलजासहितं प्रभुम्
सहस्रबाहुं सर्वज्ञं चतुर्बाहुम् अथापि वा ॥
भृग्वाद्यैर्भूतसंघैश् च संवृतं परमेश्वरम्
शैलजासहितं साक्षाद् वृषभध्वजमीश्वरम् ॥
ब्रह्मेन्द्रविष्णुसोमाद्यैः सदा सर्वैर्नमस्कृतम्
मातृभिर् मुनिभिश्चैव संवृतं परमेश्वरम् ॥
कृत्वा भक्त्या प्रतिष्ठाप्य यत्फलं तद्वदाम्यहम्
सर्वयज्ञतपोदान तीर्थदेवेषु यत् फलम् ॥
तत्फलं कोटिगुणितं लब्ध्वा याति शिवं पदम्
तत्र भुक्त्वा महाभोगान् यावद् आभूतसंप्लवम् ॥
सृष्ट्यन्तरे पुनः प्राप्ते मानवं पदमाप्नुयात्
नग्नं चतुर्भुजं श्वेतं त्रिनेत्रं सर्पमेखलम् ॥
कपालहस्तं देवेशं कृष्णकुञ्चितमूर्धजम्
कृत्वा भक्त्या प्रतिष्ठाप्य शिवसायुज्यमाप्नुयात् ॥
इभेन्द्रदारकं देवं सांबं सिद्धार्थदं प्रभुम्
सुधूम्रवर्णं रक्ताक्षं त्रिनेत्रं चन्द्रभूषणम् ॥
काकपक्षधरं मूर्ध्ना नागटङ्कधरं हरम्
सिंहाजिनोत्तरीयं च मृगचर्मांबरं प्रभुम् ॥
तीक्ष्णदंष्ट्रं गदाहस्तं कपालोद्यतपाणिनम्
हुंफट्कारे महाशब्द शब्दिताखिलदिङ्मुखम् ॥
पुण्डरीकाजिनं दोर्भ्यां बिभ्रन्तं कम्बुकं तथा
हसन्तं च नदन्तं च पिबन्तं कृष्णसागरम् ॥
नृत्यन्तं भूतसंघैश् च गणसंघैस् त्वलंकृतम्
कृत्वा भक्त्या प्रतिष्ठाप्य यथाविभवविस्तरम् ॥
सर्वविघ्नान् अतिक्रम्य शिवलोके महीयते
तत्र भुक्त्वा महाभोगान् यावदाभूतसंप्लवम् ॥
ज्ञानं विचारतो लब्ध्वा रुद्रेभ्यस्तत्र मुच्यते
अर्धनारीश्वरं देवं चतुर्भुजमनुत्तमम् ॥
वरदाभयहस्तं च शूलपद्मधरं प्रभुम्
स्त्रीपुंभावेन संस्थानं सर्वाभरणभूषितम् ॥
कृत्वा भक्त्या प्रतिष्ठाप्य शिवलोके महीयते
तत्र भुक्त्वा महाभोगान् अणिमादिगुणैर्युतः ॥
आचन्द्रतारकं ज्ञानं ततो लब्ध्वा विमुच्यते
यः कुर्याद्देवदेवेशं सर्वज्ञं लकुलीश्वरम् ॥
वृतं शिष्यप्रशिष्यैश् च व्याख्यानोद्यतपाणिनम्
कृत्वा भक्त्या प्रतिष्ठाप्य शिवलोकं स गच्छति ॥
भुक्त्वा तु विपुलांस्तत्र भोगान् युगशतं नरः
ज्ञानयोगं समासाद्य तत्रैव च विमुच्यते ॥
पूर्वदेवामराणां च यत्स्थानं सकलेप्सितम्
कृतमुद्रस्य देवस्य चिताभस्मानुलेपिनः ॥
त्रिपुण्ड्रधारिणस्तेषां शिरोमालाधरस्य च
ब्रह्मणः केशकेनैकम् उपवीतं च बिभ्रतः ॥
बिभ्रतो वामहस्तेन कपालं ब्रह्मणो वरम्
विष्णोः कलेवरं चैव बिभ्रतः परमेष्ठिनः ॥
कृत्वा भक्त्या प्रतिष्ठाप्य मुच्यते भवसागरात्
ओंनमो नीलकण्ठाय इति पुण्याक्षराष्टकम् ॥
मन्त्रमाह सकृद्वा यः पातकैः स विमुच्यते
मन्त्रेणानेन गन्धाद्यैर् भक्त्या वित्तानुसारतः ॥
सम्पूज्य देवदेवेशं शिवलोके महीयते
जालन्धरान्तकं देवं सुदर्शनधरं प्रभुम् ॥
कृत्वा भक्त्या प्रतिष्ठाप्य द्विधाभूतं जलंधरम्
प्रयाति शिवसायुज्यं नात्र कार्या विचारणा ॥
सुदर्शनप्रदं देवं साक्षात्पूर्वोक्तलक्षणम्
अर्चमानेन देवेन चार्चितं नेत्रपूजया ॥
कृत्वा भक्त्या प्रतिष्ठाप्य शिवलोके महीयते
तिष्ठतो ऽथ निकुम्भस्य पृष्ठतश्चरणांबुजम् ॥
वामेतरं सुविन्यस्य वामे चालिङ्ग्य चाद्रिजाम्
शूलाग्रे कूर्परं स्थाप्य किङ्किणीकृतपन्नगम् ॥
सम्प्रेक्ष्य चान्धकं पार्श्वे कृताञ्जलिपुटं स्थितम्
रूपं कृत्वा यथान्यायं शिवसायुज्यमाप्नुयात् ॥
यः कुर्याद्देवदेवेशं त्रिपुरान्तकमीश्वरम्
धनुर्बाणसमायुक्तं सोमं सोमार्धभूषणम् ॥
रथे सुसंस्थितं देवं चतुराननसारथिम्
तदाकारतया सो ऽपि गत्वा शिवपुरं सुखी ॥
क्रीडते नात्र संदेहो द्वितीय इव शङ्करः
तत्र भुक्त्वा महाभोगान् यावद् इच्छा द्विजोत्तमाः ॥
ज्ञानं विचारितं लब्ध्वा तत्रैव स विमुच्यते ॥
गङ्गाधरं सुखासीनं चन्द्रशेखरमेव च ॥
गङ्गया सहितं चैव वामोत्सङ्गे ऽंबिकान्वितम्
विनायकं तथा स्कन्दं ज्येष्ठं दुर्गां सुशोभनाम् ॥
भास्करं च तथा सोमं ब्रह्माणीं च महेश्वरीम्
कौमारीं वैष्णवीं देवीं वाराहीं वरदां तथा ॥
इन्द्राणीं चैव चामुण्डां वीरभद्रसमन्विताम्
विघ्नेशेन च यो धीमान् शिवसायुज्यमाप्नुयात् ॥
लिङ्गमूर्तिं महाज्वालाम् आलासंवृतम् अव्ययम्
लिङ्गस्य मध्ये वै कृत्वा चन्द्रशेखरमीश्वरम् ॥
व्योम्नि कुर्यात् तथा लिङ्गं ब्रह्माणं हंसरूपिणम्
विष्णुं वराहरूपेण लिङ्गस्याधस्त्वधोमुखम् ॥
ब्रह्माणं दक्षिणे तस्य कृताञ्जलिपुटं स्थितम्
मध्ये लिङ्गं महाघोरं महाम्भसि च संस्थितम् ॥
कृत्वा भक्त्या प्रतिष्ठाप्य शिवसायुज्यमाप्नुयात्
क्षेत्रसंरक्षकं देवं तथा पाशुपतं प्रभुम् ॥
कृत्वा भक्त्या यथान्यायं शिवलोके महीयते ॥
मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0