लिङ्गपुराण · अध्याय 1.75
निष्कलो निर्मलो नित्यः सकलत्वं कथं गतः
वक्तुमर्हसि चास्माकं यथा पूर्वं यथा श्रुतम् ॥
परमार्थविदः केचिद् ऊचुः प्रणवरूपिणम्
विज्ञानमिति विप्रेन्द्राः श्रुत्वा श्रुतिशिरस्यजम् ॥
शब्दादिविषयं ज्ञानं ज्ञानमित्यभिधीयते
तज्ज्ञानं भ्रान्तिरहितम् इत्यन्ये नेति चापरे ॥
यज्ज्ञानं निर्मलं शुद्धं निर्विकल्पं निराश्रयम्
गुरुप्रकाशकं ज्ञानम् इत्यन्ये मुनयो द्विजाः ॥
ज्ञानेनैव भवेन्मुक्तिः प्रसादो ज्ञानसिद्धये
उभाभ्यां मुच्यते योगी तत्रानन्दमयो भवेत् ॥
वदन्ति मुनयः केचित् कर्मणा तस्य संगतिम्
कल्पनाकल्पितं रूपं संहृत्य स्वेच्छयैव हि ॥
द्यौर्मूर्धा तु विभोस्तस्य खं नाभिः परमेष्ठिनः
सोमसूर्याग्नयो नेत्रे दिशः श्रोत्रं महात्मनः ॥
चरणौ चैव पातालं समुद्रस्तस्य चांबरम्
देवास्तस्य भुजाः सर्वे नक्षत्राणि च भूषणम् ॥
प्रकृतिस्तस्य पत्नी च पुरुषो लिङ्गमुच्यते
वक्त्राद्वै ब्राह्मणाः सर्वे ब्रह्मा च भगवान्प्रभुः ॥
इन्द्रोपेन्द्रौ भुजाभ्यां तु क्षत्रियाश् च महात्मनः
वैश्याश्चोरुप्रदेशात्तु शूद्राः पादात्पिनाकिनः ॥
पुष्करावर्तकाद्यास्तु केशास्तस्य प्रकीर्तिताः
वायवो घ्राणजास्तस्य गतिः श्रौतं स्मृतिस् तथा ॥
अथानेनैव कर्मात्मा प्रकृतेस्तु प्रवर्तकः
पुंसां तु पुरुषः श्रीमान् ज्ञानगम्यो न चान्यथा ॥
कर्मयज्ञसहस्रेभ्यस् तपोयज्ञो विशिष्यते
तपोयज्ञसहस्रेभ्यो जपयज्ञो विशिष्यते ॥
जपयज्ञसहस्रेभ्यो ध्यानयज्ञो विशिष्यते
ध्यानयज्ञात्परो नास्ति ध्यानं ज्ञानस्य साधनम् ॥
यदा समरसे निष्ठो योगी ध्यानेन पश्यति
ध्यानयज्ञरतस्यास्य तदा संनिहितः शिवः ॥
नास्ति विज्ञानिनां शौचं प्रायश्चित्तादि चोदना
विशुद्धा विद्यया सर्वे ब्रह्मविद्याविदो जनाः ॥
नास्ति क्रिया च लोकेषु सुखं दुःखं विचारतः
धर्माधर्मौ जपो होमो ध्यानिनां संनिधिः सदा ॥
परानन्दात्मकं लिङ्गं विशुद्धं शिवमक्षरम्
निष्कलं सर्वगं ज्ञेयं योगिनां हृदि संस्थितम् ॥
लिङ्गं तु द्विविधं प्राहुर् बाह्यमाभ्यन्तरं द्विजाः
बाह्यं स्थूलं मुनिश्रेष्ठाः सूक्ष्ममाभ्यन्तरं द्विजाः ॥
कर्मयज्ञरताः स्थूलाः स्थूललिङ्गार्चने रताः
असतां भावनार्थाय नान्यथा स्थूलविग्रहः ॥
आध्यात्मिकं च यल्लिङ्गं प्रत्यक्षं यस्य नो भवेत्
असौ मूढो बहिः सर्वं कल्पयित्वैव नान्यथा ॥
ज्ञानिनां सूक्ष्मममलं भवेत्प्रत्यक्षमव्ययम्
यथा स्थूलमयुक्तानां मृत्काष्ठाद्यैः प्रकल्पितम् ॥
अर्थो विचारतो नास्तीत्य् अन्ये तत्त्वार्थवेदिनः
निष्कलः सकलश्चेति सर्वं शिवमयं ततः ॥
व्योमैकमपि दृष्टं हि शरावं प्रति सुव्रताः
पृथक्त्वं चापृथक्त्वं च शङ्करस्येति चापरे ॥
प्रत्ययार्थं हि जगताम् एकस्थो ऽपि दिवाकरः
एको ऽपि बहुधा दृष्टो जलाधारेषु सुव्रताः ॥
जन्तवो दिवि भूमौ च सर्वे वै पाञ्चभौतिकाः
तथापि बहुला दृष्टा जातिव्यक्तिविभेदतः ॥
दृश्यते श्रूयते यद्यत् तत्तद्विद्धि शिवात्मकम्
भेदो जनानां लोके ऽस्मिन् प्रतिभासो विचारतः ॥
स्वप्ने च विपुलान् भोगान् भुक्त्वा मर्त्यः सुखी भवेत्
दुःखी च भोगं दुःखं च नानुभूतं विचारतः ॥
एवमाहुस्तथान्ये च सर्वे वेदार्थतत्त्वगाः
हृदि संसारिणां साक्षात् सकलः परमेश्वरः ॥
योगिनां निष्कलो देवो ज्ञानिनां च जगन्मयः
त्रिविधं परमेशस्य वपुर्लोके प्रशस्यते ॥
निष्कलं प्रथमं चैकं ततः सकलनिष्कलम्
तृतीयं सकलं चैव नान्यथेति द्विजोत्तमाः ॥
अर्चयन्ति मुहुः केचित् सदा सकलनिष्कलम्
सर्वज्ञं हृदये केचिच् छिवलिङ्गे विभावसौ ॥
सकलं मुनयः केचित् सदा संसारवर्तिनः
एवमभ्यर्चयन्त्येव सदाराः ससुता नराः ॥
यथा शिवस् तथा देवी यथा देवी तथा शिवः
तस्मादभेदबुद्ध्यैव सप्तविंशत्प्रभेदतः ॥
यजन्ति देहे बाह्ये च चतुष्कोणे षडस्रके
दशारे द्वादशारे च षोडशारे त्रिरस्रके ॥
स स्वेच्छया शिवः साक्षाद् देव्या सार्धं स्थितः प्रभुः
संतारणार्थं च शिवः सदसद्व्यक्तिवर्जितः ॥
तमेकमाहुर्द्विगुणं च केचित् केचित्तमाहुस्त्रिगुणात्मकं च
ऊचुस् तथा तं च शिवं तथान्ये संसारिणं वेदविदो वदन्ति ॥
भक्त्या च योगेन शुभेन युक्ता विप्राः सदा धर्मरता विशिष्टाः
यजन्ति योगेशम् अशेषमूर्तिं षडस्रमध्ये भगवन्तमेव ॥
ये तत्र पश्यन्ति शिवं त्रिरस्रे त्रितत्त्वमध्ये त्रिगुणं त्रियक्षम्
ते यान्ति चैनं न च योगिनो ऽन्ये तया च देव्या पुरुषं पुराणम् ॥
मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0