लिङ्गपुराण · अध्याय 1.74
लिङ्गानि कल्पयित्वैवं स्वाधिकारानुरूपतः
विश्वकर्मा ददौ तेषां नियोगाद्ब्रह्मणः प्रभोः ॥
इन्द्रनीलमयं लिङ्गं विष्णुना पूजितं सदा
पद्मरागमयं शक्रो हैमं विश्रवसः सुतः ॥
विश्वेदेवास् तथा रौप्यं वसवः कान्तिकं शुभम्
आरकूटमयं वायुर् अश्विनौ पार्थिवं सदा ॥
स्फाटिकं वरुणो राजा आदित्यास्ताम्रनिर्मितम्
मौक्तिकं सोमराड् धीमांस् तथा लिङ्गमनुत्तमम् ॥
अनन्ताद्या महानागाः प्रवालकमयं शुभम्
दैत्या ह्ययोमयं लिङ्गं राक्षसाश् च महात्मनः ॥
त्रैलोहिकं गुह्यकाश् च सर्वलोहमयं गणाः
चामुण्डा सैकतं साक्षान् मातरश् च द्विजोत्तमाः ॥
दारुजं नैरृतिर् भक्त्या यमो मारकतं शुभम्
नीलाद्याश् च तथा रुद्राः शुद्धं भस्ममयं शुभम् ॥
लक्ष्मीवृक्षमयं लक्ष्मीर् गुहो वै गोमयात्मकम्
मुनयो मुनिशार्दूलाः कुशाग्रमयम् उत्तमम् ॥
वामाद्याः पुष्पलिङ्गं तु गन्धलिङ्गं मनोन्मनी
सरस्वती च रत्नेन कृतं रुद्रस्य वाग्भवा ॥
दुर्गा हैमं महादेवं सवेदिकमनुत्तमम्
उग्रा पिष्टमयं सर्वे मन्त्रा ह्याज्यमयं शुभम् ॥
वेदाः सर्वे दधिमयं पिशाचाः सीसनिर्मितम्
लेभिरे च यथायोग्यं प्रसादाद्ब्रह्मणः पदम् ॥
बहुनात्र किमुक्तेन चराचरमिदं जगत्
शिवलिङ्गं समभ्यर्च्य स्थितमत्र न संशयः ॥
षड्विधं लिङ्गमित्याहुर् द्रव्याणां च प्रभेदतः
तेषां भेदाश्चतुर्युक्त चत्वारिंशदिति स्मृताः ॥
शैलजं प्रथमं प्रोक्तं तद्धि साक्षाच्चतुर्विधम्
द्वितीयं रत्नजं तच्च सप्तधा मुनिसत्तमाः ॥
तृतीयं धातुजं लिङ्गम् अष्टधा परमेष्ठिनः
तुरीयं दारुजं लिङ्गं तत्तु षोडशधोच्यते ॥
मृन्मयं पञ्चमं लिङ्गं द्विधा भिन्नं द्विजोत्तमाः
षष्ठं तु क्षणिकं लिङ्गं सप्तधा परिकीर्तितम् ॥
श्रीप्रदं रत्नजं लिङ्गं शैलजं सर्वसिद्धिदम्
धातुजं धनदं साक्षाद् दारुजं भोगसिद्धिदम् ॥
मृन्मयं चैव विप्रेन्द्राः सर्वसिद्धिकरं शुभम्
शैलजं चोत्तमं प्रोक्तं मध्यमं चैव धातुजम् ॥
बहुधा लिङ्गभेदाश् च नव चैव समासतः
मूले ब्रह्मा तथा मध्ये विष्णुस्त्रिभुवनेश्वरः ॥
रुद्रोपरि महादेवः प्रणवाख्यः सदाशिवः
लिङ्गवेदी महादेवी त्रिगुणा त्रिमयांबिका ॥
तया च पूजयेद्यस्तु देवी देवश् च पूजितौ
शैलजं रत्नजं वापि धातुजं वापि दारुजम् ॥
मृन्मयं क्षणिकं वापि भक्त्या स्थाप्य फलं शुभम्
सुरेन्द्राम्भोजगर्भाग्नि यमाम्बुपधनेश्वरैः ॥
सिद्धविद्याधराहीन्द्रैर् यक्षदानवकिन्नरैः
स्तूयमानः सुपुण्यात्मा देवदुन्दुभिनिःस्वनैः ॥
भूर्भूवःस्वर्महर्लोकान् क्रमाद् वै जनतः परम्
तपः सत्यं पराक्रम्य भासयन् स्वेन तेजसा ॥
लिङ्गस्थापनसन्मार्ग निहितस्वायतासिना
आशु ब्रह्माण्डमुद्भिद्य निर्गच्छन्निर्विशङ्कया ॥
शैलजं रत्नजं वापि धातुजं वापि दारुजम्
मृन्मयं क्षणिकं त्यक्त्वा स्थापयेत्सकलं वपुः ॥
विधिना चैव कृत्वा तु स्कन्दोमासहितं शुभम्
कुन्दगोक्षीरसंकाशं लिङ्गं यः स्थापयेन्नरः ॥
नृणां तनुं समास्थाय स्थितो रुद्रो न संशयः
दर्शनात्स्पर्शनात्तस्य लभन्ते निर्वृतिं नराः ॥
तस्य पुण्यं मया वक्तुं सम्यग्युगशतैरपि
शक्यते नैव विप्रेन्द्रास् तस्माद् वै स्थापयेत् तथा ॥
सर्वेषामेव मर्त्यानां विभोर्दिव्यं वपुः शुभम्
सकलं भावनायोग्यं योगिनामेव निष्कलम् ॥
मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0