लिङ्गपुराण · अध्याय 1.73
गते महेश्वरे देवे दग्ध्वा च त्रिपुरं क्षणात्
सदस्याह सुरेन्द्राणां भगवान्पद्मसंभवः ॥
संत्यज्य देवदेवेशं लिङ्गमूर्तिमहेश्वरम्
तारपौत्रो महातेजास् तारकस्य सुतो बली ॥
तारकाक्षो ऽपि दितिजः कमलाक्षश् च वीर्यवान्
विद्युन्माली च दैत्येशः अन्ये चापि सबान्धवाः ॥
त्यक्त्वा देवं महादेवं मायया च हरेः प्रभोः
सर्वे विनष्टाः प्रध्वस्ताः स्वपुरैः पुरसंभवैः ॥
तस्मात्सदा पूजनीयो लिङ्गमूर्तिः सदाशिवः
यावत्पूजा सुरेशानां तावदेव स्थितिर्यतः ॥
पूजनीयः शिवो नित्यं श्रद्धया देवपुङ्गवैः
सर्वलिङ्गमयो लोकः सर्वं लिङ्गे प्रतिष्ठितम् ॥
तस्मात् सम्पूजयेल्लिङ्गं य इच्छेत्सिद्धिमात्मनः
सर्वे लिङ्गार्चनादेव देवा दैत्याश् च दानवाः ॥
यक्षा विद्याधराः सिद्धा राक्षसाः पिशिताशनाः
पितरो मुनयश्चापि पिशाचाः किन्नरादयः ॥
अर्चयित्वा लिङ्गमूर्ति संसिद्धा नात्र संशयः
तस्माल्लिङ्गं यजेन्नित्यं येन केनापि वा सुराः ॥
पशवश् च वयं तस्य देवदेवस्य धीमतः
पशुत्वं च परित्यज्य कृत्वा पाशुपतं ततः ॥
पूजनीयो महादेवो लिङ्गमूर्तिः सनातनः
विशोध्य चैव भूतानि पञ्चभिः प्रणवैः समम् ॥
प्राणायामैः समायुक्तैः पञ्चभिः सुरपुङ्गवाः
चतुर्भिः प्रणवैश्चैव प्राणायामपरायणैः ॥
त्रिभिश् च प्रणवैर्देवाः प्राणायामैस्तथाविधैः
द्विधा न्यस्य तथौंकारं प्राणायामपरायणः ॥
ततश्चौंकारम् उच्चार्य प्राणापानौ नियम्य च
ज्ञानामृतेन सर्वाङ्गान्य् आपूर्य प्रणवेन च ॥
गुणत्रयं चतुर्धाख्यम् अहङ्कारं च सुव्रताः
तन्मात्राणि च भूतानि तथा बुद्धीन्द्रियाणि च ॥
कर्मेन्द्रियाणि संशोध्य पुरुषं युगलं तथा
चिदात्मानं तनुं कृत्वा चाग्निर्भस्मेति संस्पृशेत् ॥
वायुर्भस्मेति च व्योम तथाम्भः पृथिवी तथा
त्रियायुषं त्रिसंध्यं च धूलयेद् भसितेन यः ॥
स योगी सर्वतत्त्वज्ञो व्रतं पाशुपतं त्विदम्
भवेन पाशमोक्षार्थं कथितं देवसत्तमाः ॥
एवं पाशुपतं कृत्वा सम्पूज्य परमेश्वरम्
लिङ्गे पुरा मया दृष्टे विष्णुना च महात्मना ॥
पशवो नैव जायन्ते वर्षमात्रेण देवताः
अस्माभिः सर्वकार्याणां देवमभ्यर्च्य यत्नतः ॥
बाह्ये चाभ्यन्तरे चैव मन्ये कर्तव्यमीश्वरम्
प्रतिज्ञा मम विष्णोश् च दिव्यैषा सुरसत्तमाः ॥
मुनीनां च न संदेहस् तस्मात् सम्पूजयेच्छिवम्
सा हानिस्तन्महच्छिद्रं स मोहः सा च मूकता ॥
यत्क्षणं वा मुहूर्तं वा शिवमेकं न चिन्तयेत्
भवभक्तिपरा ये च भवप्रणतचेतसः ॥
भवसंस्मरणोद्युक्ता न ते दुःखस्य भाजनम्
भवनानि मनोज्ञानि दिव्यमाभरणं स्त्रियः ॥
धनं वा तुष्टिपर्यन्तं शिवपूजाविधेः फलम्
ये वाञ्छन्ति महाभोगान् राज्यं च त्रिदशालये
ते ऽर्चयन्तु सदा कालं लिङ्गमूर्तिं महेश्वरम् ॥
हत्वा भित्त्वा च भूतानि दग्ध्वा सर्वमिदं जगत् ॥
यजेदेकं विरूपाक्षं न पापैः स प्रलिप्यते
शैलं लिङ्गं मदीयं हि सर्वदेवनमस्कृतम् ॥
इत्युक्त्वा पूर्वमभ्यर्च्य रुद्रं त्रिभुवनेश्वरम्
तुष्टाव वाग्भिर् इष्टाभिर् देवदेवं त्रियंबकम् ॥
तदाप्रभृति शक्राद्याः पूजयामासुरीश्वरम्
साक्षात्पाशुपतं कृत्वा भस्मोद्धूलितविग्रहाः ॥
मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0