भाषा

ENहिગુ
ग्रंथ पाठ

लिङ्गपुराण · अध्याय 1.72

1.72.1

अथ रुद्रस्य देवस्य निर्मितो विश्वकर्मणा
सर्वलोकमयो दिव्यो रथो यत्नेन सादरम् ॥

1.72.2

सर्वभूतमयश्चैव सर्वदेवनमस्कृतः
सर्वदेवमयश्चैव सौवर्णः सर्वसंमतः ॥

1.72.3

रथाङ्गं दक्षिणं सूर्यो वामाङ्गं सोम एव च
दक्षिणं द्वादशारं हि षोडशारं तथोत्तरम् ॥

1.72.4

अरेषु तेषु विप्रेन्द्राश् चादित्या द्वादशैव तु
शशिनः षोडशारेषु कला वामस्य सुव्रताः ॥

1.72.5

ऋक्षाणि च तदा तस्य वामस्यैव तु भूषणम्
नेम्यः षडृतवश्चैव तयोर्वै विप्रपुङ्गवाः ॥

1.72.6

पुष्करं चान्तरिक्षं वै रथनीडश् च मन्दरः
अस्ताद्रिरुदयाद्रिश् च उभौ तौ कूबरौ स्मृतौ ॥

1.72.7

अधिष्ठानं महामेरुर् आश्रयाः केसराचलाः
वेगः संवत्सरस्तस्य अयने चक्रसंगमौ ॥

1.72.8

मुहूर्ता बन्धुरास्तस्य शम्याश्चैव कलाः स्मृताः
तस्य काष्ठाः स्मृता घोणा चाक्षदण्डाः क्षणाश् च वै ॥

1.72.9

निमेषाश्चानुकर्षाश् च ईषा चास्य लवाः स्मृताः
द्यौर्वरूथं रथस्यास्य स्वर्गमोक्षावुभौ ध्वजौ ॥

1.72.10

धर्मो विरागो दण्डो ऽस्य यज्ञा दण्डाश्रयाः स्मृताः
दक्षिणाः संधयस्तस्य लोहाः पञ्चाशदग्नयः ॥

1.72.11

युगान्तकोटी तौ तस्य धर्मकामावुभौ स्मृतौ
ईषादण्डस्तथाव्यक्तं बुद्धिस्तस्यैव नड्वलः ॥

1.72.12

कोणस् तथा ह्यहङ्कारो भूतानि च बलं स्मृतम्
इन्द्रियाणि च तस्यैव भूषणानि समन्ततः ॥

1.72.13

श्रद्धा च गतिरस्यैव वेदास्तस्य हयाः स्मृताः
पदानि भूषणान्येव षडङ्गान्युपभूषणम् ॥

1.72.14

पुराणन्यायमीमांसा धर्मशास्त्राणि सुव्रताः
वालाश्रयाः पटाश्चैव सर्वलक्षणसंयुताः ॥

1.72.15

मन्त्रा घण्टाः स्मृतास्तेषां वर्णाः पादास्तथाश्रमाः
अवच्छेदो ह्यनन्तस्तु सहस्रफणभूषितः ॥

1.72.16

दिशः पादा रथस्यास्य तथा चोपदिशश् च ह
पुष्कराद्याः पताकाश् च सौवर्णा रत्नभूषिताः ॥

1.72.17

समुद्रास्तस्य चत्वारो रथकम्बलिकाः स्मृताः
गङ्गाद्याः सरितः श्रेष्ठाः सर्वाभरणभूषिताः ॥

1.72.18

चामरासक्तहस्ताग्राः सर्वाः स्त्रीरूपशोभिताः
तत्रतत्र कृतस्थानाः शोभयांचक्रिरे रथम् ॥

1.72.19

आवहाद्यास् तथा सप्त सोपानं हैममुत्तमम्
सारथिर्भगवान्ब्रह्मा देवाभीषुधराः स्मृताः ॥

1.72.20

प्रतोदो ब्रह्मणस्तस्य प्रणवो ब्रह्मदैवतम्
लोकालोकाचलस्तस्य ससोपानः समन्ततः ॥

1.72.21

विषमश् च तदा बाह्यो मानसाद्रिः सुशोभनः
नासाः समन्ततस्तस्य सर्व एवाचलाः स्मृताः ॥

1.72.22

तलाः कपोताः कापोताः सर्वे तलनिवासिनः
मेरुरेव महाछत्रं मन्दरः पार्श्वडिण्डिमः ॥

1.72.23

शैलेन्द्रः कार्मुकं चैव ज्या भुजङ्गाधिपः स्वयम्
कालरात्र्या तथैवेह तथेन्द्रधनुषा पुनः ॥

1.72.24

घण्टा सरस्वती देवी धनुषः श्रुतिरूपिणी
इषुर्विष्णुर्महातेजाः शल्यं सोमः शरस्य च ॥

1.72.25

कालाग्निस्तच्छरस्यैव साक्षात्तीक्ष्णः सुदारुणः
अनीकं विषसम्भूतं वायवो वाजकाः स्मृताः ॥

1.72.26

एवं कृत्वा रथं दिव्यं कार्मुकं च शरं तथा
सारथिं जगतां चैव ब्रह्माणं प्रभुमीश्वरम् ॥

1.72.27

आरुरोह रथं दिव्यं रणमण्डनधृग् भवः
सर्वदेवगणैर्युक्तं कम्पयन्निव रोदसी ॥

1.72.28

ऋषिभिः स्तूयमानश् च वन्द्यमानश् च बन्दिभिः
उपनृत्तश्चाप्सरसां गणैर्नृत्यविशारदैः ॥

1.72.29

सुशोभमानो वरदः सम्प्रेक्ष्यैव च सारथिम्
तस्मिन्नारोहति रथं कल्पितं लोकसंभृतम् ॥

1.72.30

शिरोभिः पतिता भूमीं तुरगा वेदसंभवाः
अथाधस्ताद्रथस्यास्य भगवान् धरणीधरः ॥

1.72.31

वृषेन्द्ररूपी चोत्थाप्य स्थापयामास वै क्षणम्
क्षणान्तरे वृषेन्द्रो ऽपि जानुभ्यामगमद्धराम् ॥

1.72.32

अभीषुहस्तो भगवान् उद्यम्य च हयान् विभुः
स्थापयामास देवस्य वचनाद्वै रथं शुभम् ॥

1.72.33

ततो ऽश्वांश्चोदयामास मनोमारुतरंहसः
पुराण्युद्दिश्य खस्थानि दानवानां तरस्विनाम् ॥

1.72.34

अथाह भगवान् रुद्रो देवानालोक्य शङ्करः
पशूनामाधिपत्यं मे दत्तं हन्मि ततो ऽसुरान् ॥

1.72.35

पृथक्पशुत्वं देवानां तथान्येषां सुरोत्तमाः
कल्पयित्वैव वध्यास्ते नान्यथा नैव सत्तमाः ॥

1.72.36

इति श्रुत्वा वचः सर्वं देवदेवस्य धीमतः
विषादमगमन् सर्वे पशुत्वं प्रति शङ्किताः ॥

1.72.37

तेषां भावं ततो ज्ञात्वा देवस्तानिदमब्रवीत्
मा वो ऽस्तु पशुभावे ऽस्मिन् भयं विबुधसत्तमाः ॥

1.72.38

श्रूयतां पशुभावस्य विमोक्षः क्रियतां च सः
यो वै पाशुपतं दिव्यं चरिष्यति स मोक्ष्यति ॥

1.72.39

पशुत्वादिति सत्यं च प्रतिज्ञातं समाहिताः
ये चाप्यन्ये चरिष्यन्ति व्रतं पाशुपतं मम ॥

1.72.40

मोक्ष्यन्ति ते न संदेहः पशुत्वात् सुरसत्तमाः
नैष्ठिकं द्वादशाब्दं वा तदर्धं वर्षकत्रयम् ॥

1.72.41

शुश्रूषां कारयेद्यस्तु स पशुत्वाद्विमुच्यते
तस्मात्परमिदं दिव्यं चरिष्यथ सुरोत्तमाः ॥

1.72.42

तथेति चाब्रुवन्देवाः शिवे लोकनमस्कृते
तस्माद्वै पशवः सर्वे देवासुरनराः प्रभोः ॥

1.72.43

रुद्रः पशुपतिश्चैव पशुपाशविमोचकः
यः पशुस्तत्पशुत्वं च व्रतेनानेन संत्यजेत् ॥

1.72.44

तत्कृत्वा न च पापीयान् इति शास्त्रस्य निश्चयः
ततो विनायकः साक्षाद् बालो ऽबालपराक्रमः ॥

1.72.45

अपूजितस्तदा देवैः प्राह देवान्निवारयन्
मामपूज्य जगत्यस्मिन् भक्ष्यभोज्यादिभिः शुभैः ॥

1.72.46

कः पुमान्सिद्धिमाप्नोति देवो वा दानवो ऽपि वा
ततस्तस्मिन् क्षणादेव देवकार्ये सुरेश्वराः ॥

1.72.47

विघ्नं करिष्ये देवेश कथं कर्तुं समुद्यताः
ततः सेन्द्राः सुराः सर्वे भीताः सम्पूज्य तं प्रभुम् ॥

1.72.48

भक्ष्यभोज्यादिभिश्चैव उण्डरैश्चैव मोदकैः
अब्रुवंस्ते गणेशानं निर्विघ्नं चास्तु नः सदा ॥

1.72.49

आलिङ्ग्य चाघ्राय सुतं तदानीमपूजयत्सर्वसुरेन्द्रमुख्यः ॥

1.72.50

सम्पूज्य पूज्यं सह देवसंघैर् विनायकं नायकमीश्वराणाम्
गणेश्वरैरेव नगेन्द्रधन्वा पुरत्रयं दग्धुमसौ जगाम ॥

1.72.51

तं देवदेवं सुरसिद्धसंघा महेश्वरं भूतगणाश् च सर्वे
गणेश्वरा नन्दिमुखास्तदानीं स्ववाहनैरन्वयुरीशमीशाः ॥

1.72.52

अग्रे सुराणां च गणेश्वराणां तदाथ नन्दी गिरिराजकल्पम्
विमानमारुह्य पुरं प्रहर्तुं जगाम मृत्युं भगवानिवेशः ॥

1.72.53

यान्तं तदानीं तु शिलादपुत्रम् आरुह्य नागेन्द्रवृषाश्ववर्यान्
देवास्तदानीं गणपाश् च सर्वे गणा ययुः स्वायुधचिह्नहस्ताः ॥

1.72.54

जगाम जगतां हिताय पुरत्रयं दग्धुमलुप्तशक्तिः ॥

1.72.55

सुरासुरेशं सहस्ररश्मिर् भगवान् सुतीक्ष्णः ॥

1.72.56

रराज मध्ये भगवान्सुराणां विवाहनो वारिजपत्रवर्णः
यथा सुमेरोः शिखराधिरूढः सहस्ररश्मिर् भगवान् सुतीक्ष्णः ॥

1.72.57

सहस्रनेत्रः प्रथमः सुराणां गजेन्द्रमारुह्य च दक्षिणे ऽस्य
जगाम रुद्रस्य पुरं निहन्तुं यथोरगांस्तत्र तु वैनतेयः ॥

1.72.58

तं सिद्धगन्धर्वसुरेन्द्रवीराः सुरेन्द्रवृन्दाधिपम् इन्द्रम् ईशम्
समन्ततस्तुष्टुवुरिष्टदं ते जयेति शक्रं वरपुष्पवृष्ट्या ॥

1.72.59

प्रणेमुरालोक्य सहस्रनेत्रं सलीलमंबा तनयं यथेन्द्रम् ॥

1.72.60

यमपावकवित्तेशा वायुर्निरृतिरेव च
अपाम्पतिस् तथेशानो भवं चानु समागताः ॥

1.72.61

वीरभद्रो रणे भद्रो नैरृत्यां वै रथस्य तु
वृषभेन्द्रं समारुह्य रोमजैश् च समावृतः ॥

1.72.62

सेवां चक्रे पुरं हन्तुं देवदेवं त्रियंबकम्
महाकालो महातेजा महादेव इवापरः ॥

1.72.63

वायव्यां सगणैः सार्धं सेवां चक्रे रथस्य तु ॥

1.72.64

षण्मुखो ऽपि सह सिद्धचारणैः सेनया च गिरिराजसंनिभः
देवनाथगणवृन्दसंवृतो वारणेन च तथाग्निसंभवः ॥

1.72.65

विघ्नं गणेशो ऽप्यसुरेश्वराणां कृत्वा सुराणां भगवानविघ्नम्
विघ्नेश्वरो विघ्नगणैश् च सार्धं तं देशमीशानपदं जगाम ॥

1.72.66

काली तदा कालनिशाप्रकाशं शूलं कपालाभरणा करेण
प्रकम्पयन्ती च तदा सुरेन्द्रान् महासुरासृङ्मधुपानमत्ता ॥

1.72.67

मत्तेभगामी मदलोलनेत्रा मत्तैः पिशाचैश् च गणैश् च मत्तैः
मत्तेभचर्मांबरवेष्टिताङ्गी ययौ पुरस्ताच्च गणेश्वरस्य ॥

1.72.68

तां सिद्धगन्धर्वपिशाचयक्ष विद्याधराहीन्द्रसुरेन्द्रमुख्याः
प्रणेमुरुच्चैरभितुष्टुवुश् च जयेति देवीं हिमशैलपुत्रीम् ॥

1.72.69

मातरः सुरवरारिसूदनाः सादरं सुरगणैः सुपूजिताः
मातरं ययुरथ स्ववाहनैः स्वैर्गणैर्ध्वजधरैः समन्ततः ॥

1.72.70

दुर्गारूढमृगाधिपा दुरतिगा दोर्दण्डवृन्दैः शिवा बिभ्राणाङ्कुशशूलपाशपरशुं चक्रासिशङ्खायुधम्
प्रौढादित्यसहस्रसदृशैर्नेत्रैर्दहन्ती पथं बाला बालपराक्रमा भगवती दैत्यान्प्रहर्तुं ययौ ॥

1.72.71

तं देवमीशं त्रिपुरं निहन्तुं तदा तु देवेन्द्ररविप्रकाशाः
गजैर्हयैः सिंहवरै रथैश् च वृषैर्ययुस्ते गणराजमुख्याः ॥

1.72.72

हलैश् च फालैर् मुसलैर् भुशुण्डैर् गिरीन्द्रकूटैर् गिरिसन्निभास्ते
ययुः पुरस्ताद्धि महेश्वरस्य सुरेश्वरा भूतगणेश्वराश् च ॥

1.72.73

तथेन्द्रपद्मोद्भवविष्णुमुख्याः सुरा गणेशाश् च गणेशमीशम्
जयेति वाग्भिर् भगवन्तमूचुः किरीटदत्ताञ्जलयः समन्तात् ॥

1.72.74

ननृतुर्मुनयः सर्वे दण्डहस्ता जटाधराः
ववृषुः पुष्पवर्षाणि खेचराः सिद्धचारणाः
पुरत्रयं च विप्रेन्द्राः प्राणदत्सर्वतस् तथा ॥

1.72.75

गणेश्वरैर् देवगणैश् च भृङ्गी सहावृतः सर्वगणेन्द्रवर्यः
जगाम योगी त्रिपुरं निहन्तुं विमानमारुह्य यथा महेन्द्रः ॥

1.72.76

केशो विगतवासाश् च महाकेशो महाज्वरः
सोमवल्ली सवर्णश् च सोमपः सेनकस् तथा ॥

1.72.77

सोमधृक् सूर्यवाचश् च सूर्यपेषणकस् तथा
सूर्याक्षः सूरिनामा च सुरः सुन्दर एव च ॥

1.72.78

प्रकुदः ककुदन्तश् च कम्पनश् च प्रकम्पनः
इन्द्रश् चेन्द्रजयश्चैव महाभीर् भीमकस् तथा ॥

1.72.79

शताक्षश्चैव पञ्चाक्षः सहस्राक्षो महोदरः
यमजिह्वः शताश्वश् च कण्ठनः कण्ठपूजनः ॥

1.72.80

द्विशिखस् त्रिशिखश्चैव तथा पञ्चशिखो द्विजाः
मुण्डो ऽर्धमुण्डो दीर्घश् च पिशाचास्यः पिनाकधृक् ॥

1.72.81

पिप्पलायतनश्चैव तथा ह्यङ्गारकाशनः
शिथिलः शिथिलास्यश् च अक्षपादो ह्यजः कुजः ॥

1.72.82

अजवक्त्रो हयवक्त्रो गजवक्त्रो ऽर्ध्ववक्त्रकः
इत्याद्याः परिवार्येशं लक्ष्यलक्षणवर्जिताः ॥

1.72.83

वृन्दशस्तं समावृत्य जग्मुः सोमं गणैर्वृताः
सहस्राणां सहस्राणि रुद्राणामूर्ध्वरेतसाम् ॥

1.72.84

समावृत्य महादेवं देवदेवं महेश्वरम्
दग्धुं पुरत्रयं जग्मुः कोटिकोटिगणैर्वृताः ॥

1.72.85

त्रयस्त्रिंशत्सुराश्चैव त्रयश् च त्रिशतास् तथा
त्रयश् च त्रिसहस्राणि जग्मुर्देवाः समन्ततः ॥

1.72.86

मातरः सर्वलोकानां गणानां चैव मातरः
भूतानां मातरश्चैव जग्मुर्देवस्य पृष्ठतः ॥

1.72.87

भाति मध्ये गणानां च रथमध्ये गणेश्वरः
नभस्यमलनक्षत्रे तारामध्य इवोडुराट् ॥

1.72.88

रराज देवी देवस्य गिरिजा पार्श्वसंस्थिता
तदा प्रभावतो गौरी भवस्येव जगन्मयी ॥

1.72.89

शुभावती तदा देवी पार्श्वसंस्था विभाति सा
चामरासक्तहस्ताग्रा सा हेमांबुजवर्णिका ॥

1.72.90

अथ विभाति विभोर्विशदं वपुर् भसितभासितमंबिकया तया
सितमिवाभ्रमहो सह विद्युता नभसि देवपतेः परमेष्ठिनः ॥

1.72.91

भातीन्द्रधनुषाकाशं मेरुणा च यथा जगत्
हिरण्यधनुषा सौम्यं वपुः शंभोः शशिद्युति ॥

1.72.92

सितातपत्रं रत्नांशु मिश्रितं परमेष्ठिनः
यथोदये शशाङ्कस्य भात्यखण्डं हि मण्डलम् ॥

1.72.93

सदुकूला शिवे रक्ता लम्बिता भाति मालिका
छत्रान्ता रत्नजाकाशात् पतन्तीव सरिद्वरा ॥

1.72.94

अथ महेन्द्रविरिञ्चिविभावसु प्रभृतिभिर् नतपादसरोरुहः
सह तदा च जगाम तयांबया सकललोकहिताय पुरत्रयम् ॥

1.72.95

दग्धुं समर्थो मनसा क्षणेन चराचरं सर्वमिदं त्रिशूली
किमत्र दग्धुं त्रिपुरं पिनाकी स्वयं गतश्चात्र गणैश् च सार्धम् ॥

1.72.96

रथेन किं चेषुवरेण तस्य गणैश् च किं देवगणैश् च शंभोः
पुरत्रयं दग्धुमलुप्तशक्तेः किमेतद् इत्याहुर् अजेन्द्रमुख्याः ॥

1.72.97

मन्वाम नूनं भगवान्पिनाकी लीलार्थमेतत्सकलं प्रवर्त्तुम्
व्यवस्थितश्चेति तथान्यथा चेद् आडम्बरेणास्य फलं किमन्यत् ॥

1.72.98

पुरत्रयस्यास्य समीपवर्ती सुरेश्वरैर् नन्दिमुखैश् च नन्दी
गणैर्गणेशस्तु रराज देव्या जगद्रथो मेरुरिवाष्टशृङ्गैः ॥

1.72.99

अथ निरीक्ष्य सुरेश्वरमीश्वरं सगणमद्रिसुतासहितं तदा
त्रिपुररङ्गतलोपरि संस्थितः सुरगणो ऽनुजगाम स्वयं तथा ॥

1.72.100

जगत्त्रयं सर्वमिवापरं तत् पुरत्रयं तत्र विभाति सम्यक्
नरेश्वरैश्चैव गणैश् च देवैः सुरेतरैश् च त्रिविधैर्मुनीन्द्राः ॥

1.72.101

अथ सज्यं धनुः कृत्वा शर्वः संधाय तं शरम्
युक्त्वा पाशुपतास्त्रेण त्रिपुरं समचिन्तयत् ॥

1.72.102

तस्मिन् स्थिते महादेवे रुद्रे विततकार्मुके
पुराणि तेन कालेन जग्मुरेकत्वमाशु वै ॥

1.72.103

एकीभावं गते चैव त्रिपुरे समुपागते
बभूव तुमुलो हर्षो देवतानां महात्मनाम् ॥

1.72.104

ततो देवगणाः सर्वे सिद्धाश् च परमर्षयः
जयेति वाचो मुमुचुः संस्तुवन्तो ऽष्टमूर्तिकम् ॥

1.72.105

अथाह भगवान्ब्रह्मा भगनेत्रनिपातनम्
पुष्ययोगे ऽपि सम्प्राप्ते लीलावशमुमापतिम् ॥

1.72.106

स्थाने तव महादेव चेष्टेयं परमेश्वर
पूर्वदेवाश् च देवाश् च समास्तव यतः प्रभो ॥

1.72.107

तथापि देवा धर्मिष्ठाः पूर्वदेवाश् च पापिनः
यतस्तस्माज्जगन्नाथ लीलां त्यक्तुमिहार्हसि ॥

1.72.108

किं रथेन ध्वजेनेश तव दग्धुं पुरत्रयम्
इषुणा भूतसंघैश् च विष्णुना च मया प्रभो ॥

1.72.109

पुष्ययोगे त्वनुप्राप्ते पुरं दग्धुमिहार्हसि
यावन्न यान्ति देवेश वियोगं तावदेव तु ॥

1.72.110

दग्धुमर्हसि शीघ्रं त्वं त्रीण्येतानि पुराणि वै
अथ देवो महादेवः सर्वज्ञस्तदवैक्षत ॥

1.72.111

पुरत्रयं विरूपाक्षस् तत्क्षणाद्भस्म वै कृतम्
सोमश् च भगवान्विष्णुः कालाग्निर्वायुरेव च ॥

1.72.112

शरे व्यवस्थिताः सर्वे देवमूचुः प्रणम्य तम्
दग्धमप्यथ देवेश वीक्षणेन पुरत्रयम् ॥

1.72.113

अस्मद्धितार्थं देवेश शरं मोक्तुमिहार्हसि
अथ संमृज्य धनुषो ज्यां हसन् त्रिपुरार्दनः ॥

1.72.114

मुमोच बाणं विप्रेन्द्रा व्याकृष्याकर्णम् ईश्वरः
तत्क्षणात्त्रिपुरं दग्ध्वा त्रिपुरान्तकरः शरः ॥

1.72.115

देवदेवं समासाद्य नमस्कृत्वा व्यवस्थितः
रेजे पुरत्रयं दग्धं दैत्यकोटिशतैर्वृतम् ॥

1.72.116

इषुणा तेन कल्पान्ते रुद्रेणेव जगत्त्रयम्
ये पूजयन्ति तत्रापि दैत्या रुद्रं सबान्धवाः ॥

1.72.117

गाणपत्यं तदा शंभोर् ययुः पूजाविधेर्बलात्
न किंचिद् अब्रुवन् देवाः सेन्द्रोपेन्द्रा गणेश्वराः ॥

1.72.118

भयाद्देवं निरीक्ष्यैव देवीं हिमवतः सुताम्
दृष्ट्वा भीतं तदानीकं देवानां देवपुङ्गवः ॥

1.72.119

किं चेत्याह तदा देवान् प्रणेमुस्तं समन्ततः ॥

1.72.120

ववन्दिरे नन्दिनमिन्दुभूषणं ववन्दिरे पर्वतराजसंभवाम्
ववन्दिरे चाद्रिसुतासुतं प्रभुं ववन्दिरे देवगणा महेश्वरम् ॥

1.72.121

तुष्टाव हृदये ब्रह्मा देवैः सह समाहितः
विष्णुना च भवं देवं त्रिपुरारातिमीश्वरम् ॥

1.72.122

प्रसीद देवदेवेश प्रसीद परमेश्वर
प्रसीद जगतां नाथ प्रसीदानन्ददाव्यय ॥

1.72.123

पञ्चास्यरुद्ररुद्राय पञ्चाशत्कोटिमूर्तये
आत्मत्रयोपविष्टाय विद्यातत्त्वाय ते नमः ॥

1.72.124

शिवाय शिवतत्त्वाय अघोराय नमोनमः
अघोराष्टकतत्त्वाय द्वादशात्मस्वरूपिणे ॥

1.72.125

विद्युत्कोटिप्रतीकाशम् अष्टकाशं सुशोभनम्
रूपमास्थाय लोके ऽस्मिन् संस्थिताय शिवात्मने ॥

1.72.126

अग्निवर्णाय रौद्राय अंबिकार्धशरीरिणे
धवलश्यामरक्तानां मुक्तिदायामराय च ॥

1.72.127

ज्येष्ठाय रुद्ररूपाय सोमाय वरदाय च
त्रिलोकाय त्रिदेवाय वषट्काराय वै नमः ॥

1.72.128

मध्ये गगनरूपाय गगनस्थाय ते नमः
अष्टक्षेत्राष्टरूपाय अष्टतत्त्वाय ते नमः ॥

1.72.129

चतुर्धा च चतुर्धा च चतुर्धा संस्थिताय च
पञ्चधा पञ्चधा चैव पञ्चमन्त्रशरीरिणे ॥

1.72.130

चतुःषष्टिप्रकाराय अकाराय नमोनमः
द्वात्रिंशत्तत्त्वरूपाय उकाराय नमोनमः ॥

1.72.131

षोडशात्मस्वरूपाय मकाराय नमोनमः
अष्टधात्मस्वरूपाय अर्धमात्रात्मने नमः ॥

1.72.132

ओङ्काराय नमस्तुभ्यं चतुर्धा संस्थिताय च
गगनेशाय देवाय स्वर्गेशाय नमो नमः ॥

1.72.133

सप्तलोकाय पाताल नरकेशाय वै नमः
अष्टक्षेत्राष्टरूपाय परात्परतराय च ॥

1.72.134

सहस्रशिरसे तुभ्यं सहस्राय च ते नमः
सहस्रपादयुक्ताय शर्वाय परमेष्ठिने ॥

1.72.135

नवात्मतत्त्वरूपाय नवाष्टात्मात्मशक्तये
पुनरष्टप्रकाशाय तथाष्टाष्टकमूर्तये ॥

1.72.136

चतुःषष्ट्यात्मतत्त्वाय पुनरष्टविधाय ते
गुणाष्टकवृतायैव गुणिने निर्गुणाय ते ॥

1.72.137

मूलस्थाय नमस्तुभ्यं शाश्वतस्थानवासिने
नाभिमण्डलसंस्थाय हृदि निःस्वनकारिणे ॥

1.72.138

कन्धरे च स्थितायैव तालुरन्ध्रस्थिताय च
भ्रूमध्ये संस्थितायैव नादमध्ये स्थिताय च ॥

1.72.139

चन्द्रबिम्बस्थितायैव शिवाय शिवरूपिणे
वह्निसोमार्करूपाय षट्त्रिंशच्छक्तिरूपिणे ॥

1.72.140

त्रिधा संवृत्य लोकान्वै प्रसुप्तभुजगात्मने
त्रिप्रकारं स्थितायैव त्रेताग्निमयरूपिणे ॥

1.72.141

सदाशिवाय शान्ताय महेशाय पिनाकिने
सर्वज्ञाय शरण्याय सद्योजाताय वै नमः ॥

1.72.142

अघोराय नमस्तुभ्यं वामदेवाय ते नमः
तत्पुरुषाय नमो ऽस्तु ईशानाय नमोनमः ॥

1.72.143

नमस्त्रिंशत्प्रकाशाय शान्तातीताय वै नमः
अनन्तेशाय सूक्ष्माय उत्तमाय नमो ऽस्तु ते ॥

1.72.144

एकाक्षाय नमस्तुभ्यम् एकरुद्राय ते नमः
नमस्त्रिमूर्तये तुभ्यं श्रीकण्ठाय शिखण्डिने ॥

1.72.145

अनन्तासनसंस्थाय अनन्तायान्तकारिणे
विमलाय विशालाय विमलाङ्गाय ते नमः ॥

1.72.146

विमलासनसंस्थाय विमलार्थार्थरूपिणे
योगपीठान्तरस्थाय योगिने योगदायिने ॥

1.72.147

योगिनां हृदि संस्थाय सदा नीवारशूकवत्
प्रत्याहाराय ते नित्यं प्रत्याहाररताय ते ॥

1.72.148

प्रत्याहाररतानां च प्रतिस्थानस्थिताय च
धारणायै नमस्तुभ्यं धारणाभिरताय ते ॥

1.72.149

धारणाभ्यासयुक्तानां पुरस्तात्संस्थिताय च
ध्यानाय ध्यानरूपाय ध्यानगम्याय ते नमः ॥

1.72.150

ध्येयाय ध्येयगम्याय ध्येयध्यानाय ते नमः
ध्येयानामपि ध्येयाय नमो ध्येयतमाय ते ॥

1.72.151

समाधानाभिगम्याय समाधानाय ते नमः
समाधानरतानां तु निर्विकल्पार्थरूपिणे ॥

1.72.152

दग्ध्वोद्धृतं सर्वमिदं त्वयाद्य जगत्त्रयं रुद्र पुरत्रयं हि
कः स्तोतुमिच्छेत् कथमीदृशं त्वां स्तोष्ये हि तुष्टाय शिवाय तुभ्यम् ॥

1.72.153

भक्त्या च तुष्ट्याद्भुतदर्शनाच्च मर्त्या अमर्त्या अपि देवदेव
एते गणाः सिद्धगणैः प्रणामं कुर्वन्ति देवेश गणेश तुभ्यम् ॥

1.72.154

निरीक्षणादेव विभो ऽसि दग्धुं पुरत्रयं चैव जगत्त्रयं च
लीलालसेनांबिकया क्षणेन दग्धं किलेषुश् च तदाथ मुक्तः ॥

1.72.155

कृतो रथश्चेषुवरश् च शुभ्रं शरसनं ते त्रिपुरक्षयाय
अनेकयत्नैश् च मयाथ तुभ्यं फलं न दृष्टं सुरसिद्धसंघैः ॥

1.72.156

रथो रथी देववरो हरिश् च रुद्रः स्वयं शक्रपितामहौ च
त्वमेव सर्वे भगवन् कथं तु स्तोष्ये ह्य् अतोष्यं प्रणिपत्य मूर्ध्ना ॥

1.72.157

अनन्तपादस् त्वम् अनन्तबाहुर् अनन्तमूर्धान्तकरः शिवश् च
अनन्तमूर्तिः कथम् ईदृशं त्वां तोष्ये ह्य् अतोष्यं कथमीदृशं त्वाम् ॥

1.72.158

नमोनमः सर्वविदे शिवाय रुद्राय शर्वाय भवाय तुभ्यम्
स्थूलाय सूक्ष्माय सुसूक्ष्मसूक्ष्म सूक्ष्माय सूक्ष्मार्थविदे विधात्रे ॥

1.72.159

स्रष्ट्रे नमः सर्वसुरासुराणां भर्त्रे च हर्त्रे जगतां विधात्रे
नेत्रे सुराणामसुरेश्वराणां दात्रे प्रशास्त्रे मम सर्वशास्त्रे ॥

1.72.160

वेदान्तवेद्याय सुनिर्मलाय वेदार्थविद्भिः सततं स्तुताय
वेदात्मरूपाय भवाय तुभ्यम् अन्ताय मध्याय सुमध्यमाय ॥

1.72.161

आद्यन्तशून्याय च संस्थिताय तथा त्वशून्याय च लिङ्गिने च
अलिङ्गिने लिङ्गमयाय तुभ्यं लिङ्गाय वेदादिमयाय साक्षात् ॥

1.72.162

रुद्राय मूर्धाननिकृन्तनाय ममादिदेवस्य च यज्ञमूर्तेः
विध्वान्तभङ्गं मम कर्तुमीश दृष्ट्वैव भूमौ करजाग्रकोट्या ॥

1.72.163

अहो विचित्रं तव देवदेव विचेष्टितं सर्वसुरासुरेश
देहीव देवैः सह देवकार्यं करिष्यसे निर्गुणरूपतत्त्व ॥

1.72.164

एकं स्थूलं सूक्ष्ममेकं सुसूक्ष्मं मूर्तामूर्तं मूर्तमेकं ह्यमूर्तम्
एकं दृष्टं वाङ्मयं चैकमीशं ध्येयं चैकं तत्त्वमत्राद्भुतं ते ॥

1.72.165

स्वप्ने दृष्टं यत्पदार्थं ह्यलक्ष्यं दृष्टं नूनं भाति मन्ये न चापि
मूर्तिर्नो वै दैवकीशान देवैर् लक्ष्या यत्नैरप्यलक्ष्यं कथं तु ॥

1.72.166

दिव्यः क्व देवेश भवत्प्रभावो वयं क्व भक्तिः क्व च ते स्तुतिश् च
तथापि भक्त्या विलपन्तमीश पितामहं मां भगवन्क्षमस्व ॥

1.72.167

य इमं शृणुयाद्द्विजोत्तमा भुवि देवं प्रणिपत्य पठेत्
स च मुञ्चति पापबन्धनं भवभक्त्या पुरशासितुः स्तवम् ॥

1.72.168

श्रुत्वा च भक्त्या चतुराननेन स्तुतो हसञ्शैलसुतां निरीक्ष्य
स्तवं तदा प्राह महानुभावं महाभुजो मन्दरशृङ्गवासी ॥

1.72.169

स्तवेनानेन तुष्टो ऽस्मि तव भक्त्या च पद्मज
वरान् वरय भद्रं ते देवानां च यथेप्सितान् ॥

1.72.170

ततः प्रणम्य देवेशं भगवान्पद्मसंभवः
कृताञ्जलिपुटो भूत्वा प्राहेदं प्रीतमानसः ॥

1.72.171

भगवन्देवदेवेश त्रिपुरान्तक शङ्कर
त्वयि भक्तिं परां मे ऽद्य प्रसीद परमेश्वरम् ॥

1.72.172

देवानां चैव सर्वेषां त्वयि सर्वार्थदेश्वर
प्रसीद भक्तियोगेन सारथ्येन च सर्वदा ॥

1.72.173

जनार्दनो ऽपि भगवान् नमस्कृत्य महेश्वरम्
कृताञ्जलिपुटो भूत्वा प्राह सांबं त्रियंबकम् ॥

1.72.174

वाहनत्वं तवेशान नित्यमीहे प्रसीद मे
त्वयि भक्तिं च देवेश देवदेव नमो ऽस्तु ते ॥

1.72.175

सामर्थ्यं च सदा मह्यं भवन्तं वोढुमीश्वरम्
सर्वज्ञत्वं च वरद सर्वगत्वं च शङ्कर ॥

1.72.176

तयोः श्रुत्वा महादेवो विज्ञप्तिं परमेश्वरः
सारथ्ये वाहनत्वे च कल्पयामास वै भवः ॥

1.72.177

दत्त्वा तस्मै ब्रह्मणे विष्णवे च दग्ध्वा दैत्यान्देवदेवो महात्मा
सार्धं देव्या नन्दिना भूतसंघैर् अन्तर्धानं कारयामास शर्वः ॥

1.72.178

ततस्तदा महेश्वरे गते रणाद्गणैः सह
सुरेश्वराः सुविस्मिता भवं प्रणम्य पार्वतीम् ॥

1.72.179

ययुश् च दुःखवर्जिताः स्ववाहनैर्दिवं ततः
सुरेश्वरा मुनीश्वरा गणेश्वराश् च भास्कराः ॥

1.72.180

त्रिपुरारेरिमं पुण्यं निर्मितं ब्रह्मणा पुरा
यः पठेच्छ्राद्धकाले वा दैवे कर्मणि च द्विजाः ॥

1.72.181

श्रावयेद्वा द्विजान् भक्त्या ब्रह्मलोकं स गच्छति
मानसैर्वाचिकैः पापैस् तथा वै कायिकैः पुनः ॥

1.72.182

स्थूलैः सूक्ष्मैः सुसूक्ष्मैश् च महापातकसंभवैः
पातकैश् च द्विजश्रेष्ठा उपपातकसंभवैः ॥

1.72.183

पापैश् च मुच्यते जन्तुः श्रुत्वाध्यायमिमं शुभम्
शत्रवो नाशमायान्ति संग्रामे विजयीभवेत् ॥

1.72.184

सर्वरोगैर्न बाध्येत आपदो न स्पृशन्ति तम्
धनमायुर्यशो विद्यां प्रभावमतुलं लभेत् ॥

मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc