लिङ्गपुराण · अध्याय 1.6
पवमानः पावकश् च शुचिरग्निश् च ते स्मृताः
निर्मथ्यः पवमानस्तु वैद्युतः पावकः स्मृतः ॥
शुचिः सौरस्तु विज्ञेयः स्वाहापुत्रास्त्रयस्तु ते
पुत्रैः पौत्रैस्त्विहैतेषां संख्या संक्षेपतः स्मृता ॥
विसृज्य सप्तकं चादौ चत्वारिंशन्नवैव च
इत्येते वह्नयः प्रोक्ताः प्रणीयन्ते ऽध्वरेषु च ॥
सर्वे तपस्विनस्त्वेते सर्वे व्रतभृतः स्मृताः
प्रजानां पतयः सर्वे सर्वे रुद्रात्मकाः स्मृताः ॥
अयज्वानश् च यज्वानः पितरः प्रीतिमानसाः
अग्निष्वात्ताश् च यज्वानः शेषा बर्हिषदः स्मृताः ॥
मेनां तु मानसीं तेषां जनयामास वै स्वधा
अग्निष्वात्तात्मजा मेना मानसी लोकविश्रुता ॥
असूत मेना मैनाकं क्रौञ्चं तस्यानुजामुमाम्
गङ्गां हैमवतीं जज्ञे भवाङ्गाश्लेषपावनीम् ॥
धरणीं जनयामास मानसीं यज्ञयाजिनीम्
स्वधा सा मेरुराजस्य पत्नी पद्मसमानना ॥
पितरो ऽमृतपाः प्रोक्तास् तेषां चैवेह विस्तरः
ऋषीणां च कुलं सर्वं शृणुध्वं तत्सुविस्तरम् ॥
वदामि पृथगध्याय संस्थितं वस्तदूर्ध्वतः
दाक्षायणी सती याता पार्श्वं रुद्रस्य पार्वती ॥
पश्चाद्दक्षं विनिन्द्यैषा पतिं लेभे भवं तथा
तां ध्यात्वा व्यसृजद्रुद्रान् अनेकान्नीललोहितः ॥
आत्मनस्तु समान्सर्वान् सर्वलोकनमस्कृतान्
याचितो मुनिशार्दूला ब्रह्मणा प्रहसन् क्षणात् ॥
तैस्तु संछादितं सर्वं चतुर्दशविधं जगत्
तान्दृष्ट्वा विविधान् रुद्रान् निर्मलान्नीललोहितान् ॥
जरामरणनिर्मुक्तान् प्राह रुद्रान्पितामहः
नमो ऽस्तु वो महादेवास् त्रिनेत्रा नीललोहिताः ॥
सर्वज्ञाः सर्वगा दीर्घा ह्रस्वा वामनकाः शुभाः
हिरण्यकेशा दृष्टिघ्ना नित्या बुद्धाश् च निर्मलाः ॥
निर्द्वंद्वा वीतरागाश् च विश्वात्मानो भवात्मजाः
एवं स्तुत्वा तदा रुद्रान् रुद्रं चाह भवं शिवम्
प्रदक्षिणीकृत्य तदा भगवान्कनकाण्डजः ॥
नमो ऽस्तु ते महादेव प्रजा नार्हसि शंकर
मृत्युहीना विभो स्रष्टुं मृत्युयुक्ताः सृज प्रभो ॥
ततस्तमाह भगवान् न हि मे तादृशी स्थितिः
स त्वं सृज यथाकामं मृत्युयुक्ताः प्रजाः प्रभो ॥
लब्ध्वा ससर्ज सकलं शंकराच्चतुराननः
जरामरणसंयुक्तं जगदेतच्चराचरम् ॥
शंकरो ऽपि तदा रुद्रैर् निवृत्तात्मा ह्यधिष्ठितः
स्थाणुत्वं तस्य वै विप्राः शंकरस्य महात्मनः ॥
निष्कलस्यात्मनः शम्भोः स्वेच्छाधृतशरीरिणः
शं रुद्रः सर्वभूतानां करोति घृणया यतः ॥
शंकरश्चाप्रयत्नेन तदात्मा योगविद्यया
वैराग्यस्थं विरक्तस्य विमुक्तिर्यच्छमुच्यते ॥
अणोस्तु विषयत्यागः संसारभयतः क्रमात्
वैराग्याज्जायते पुंसो विरागो दर्शनान्तरे ॥
विमुख्यो विगुणत्यागो विज्ञानस्याविचारतः
तस्य चास्य च संधानं प्रसादात्परमेष्ठिनः ॥
धर्मो ज्ञानं च वैराग्यम् ऐश्वर्यं शंकरादिह
स एव शंकरः साक्षात् पिनाकी नीललोहितः ॥
ये शंकराश्रिताः सर्वे मुच्यन्ते ते न संशयः
न गच्छन्त्येव नरकं पापिष्ठा अपि दारुणम् ॥
आश्रिताः शंकरं तस्मात् प्राप्नुवन्ति च शाश्वतम्
मायान्ताश्चैव घोराद्या ह्य् अष्टविंशतिरेव च ॥
कोटयो नरकाणां तु पच्यन्ते तासु पापिनः
अनाश्रिताः शिवं रुद्रं शंकरं नीललोहितम् ॥
आश्रयं सर्वभूतानाम् अव्ययं जगतां पतिम्
पुरुषं परमात्मानं पुरुहूतं पुरुष्टुतम् ॥
तमसा कालरुद्राख्यं रजसा कनकाण्डजम्
सत्त्वेन सर्वगं विष्णुं निर्गुणत्वे महेश्वरम् ॥
केन गच्छन्ति नरकं नराः केन महामते
कर्मणाकर्मणा वापि श्रोतुं कौतूहलं हि नः ॥
मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0