लिङ्गपुराण · अध्याय 1.68
यदोर्वंशं प्रवक्ष्यामि ज्येष्ठस्योत्तमतेजसः
संक्षेपेणानुपूर्व्याच्च गदतो मे निबोधत ॥
यदोः पुत्रा बभूवुर् हि पञ्च देवसुतोपमाः
सहस्रजित्सुतो ज्येष्ठः क्रोष्टुर् नीलो ऽजको लघुः ॥
सहस्रजित्सुतस्तद्वच् छतजिन्नाम पार्थिवः
सुताः शतजितः ख्यातास् त्रयः परमकीर्तयः ॥
हैहयश् च हयश्चैव राजा वेणुहयश् च यः
हैहयस्य तु दायादो धर्म इत्यभिविश्रुतः ॥
तस्य पुत्रो ऽभवद्विप्रा धर्मनेत्र इति श्रुतः
धर्मनेत्रस्य कीर्तिस् तु संजयस् तस्य चात्मजः ॥
संजयस्य तु दायादो महिष्मान्नाम धार्मिकः
आसीन् महिष्मतः पुत्रो भद्रश्रेण्यः प्रतापवान् ॥
भद्रश्रेण्यस्य दायादो दुर्दमो नाम पार्थिवः
दुर्दमस्य सुतो धीमान् धनको नाम विश्रुतः ॥
धनकस्य तु दायादाश् चत्वारो लोकसंमताः
कृतवीर्यः कृताग्निश् च कृतवर्मा तथैव च ॥
कृतौजाश् च चतुर्थो ऽभूत् कार्तवीर्यस्ततो ऽर्जुनः
जज्ञे बाहुसहस्रेण सप्तद्वीपेश्वरोत्तमः ॥
तस्य रामस् तदा त्वासीन् मृत्युर्नारायणात्मकः
तस्य पुत्रशतान्यासन् पञ्च तत्र महारथाः ॥
कृतास्त्रा बलिनः शूरा धर्मात्मानो मनस्विनः
शूरश् च शूरसेनश् च धृष्टः कृष्णस्तथैव च ॥
जयध्वजश् च राजासीद् आवन्तीनां विशां पतिः
जयध्वजस्य पुत्रो ऽभूत् तालजङ्घो महाबलः ॥
शतं पुत्रास्तु तस्येह तालजङ्घाः प्रकीर्तिताः
तेषां ज्येष्ठो महावीर्यो वीतिहोत्रो ऽभवन्नृपः ॥
वृषप्रभृतयश्चान्ये तत्सुताः पुण्यकर्मणः
वृषो वंशकरस्तेषां तस्य पुत्रो ऽभवन्मधुः ॥
मधोः पुत्रशतं चासीद् वृष्णिस्तस्य तु वंशभाक्
वृष्णेस्तु वृष्णयः सर्वे मधोर्वै माधवाः स्मृताः
यादवा यदुवंशेन निरुच्यन्ते तु हैहयाः ॥
तेषां पञ्च गणा ह्येते हैहयानां महात्मनाम् ॥
वीतिहोत्राश् च हर्याता भोजाश्चावन्तयस् तथा
शूरसेनास्तु विख्यातास् तालजङ्घास्तथैव च ॥
शूरश् च शूरसेनश् च वृषः कृष्णस्तथैव च
जयध्वजः पञ्चमस्तु विख्याता हैहयोत्तमाः ॥
शूरश् च शूरवीरश् च शूरसेनस्य चानघाः
शूरसेना इति ख्याता देशास्तेषां महात्मनाम् ॥
वीतिहोत्रसुतश्चापि विश्रुतो नर्त इत्युत
दुर्जयः कृष्णपुत्रस्तु बभूवामित्रकर्शनः ॥
क्रोष्टुश् च शृणु राजर्षेर् वंशमुत्तमपौरुषम्
यस्यान्वये तु सम्भूतो विष्णुर् वृष्णिकुलोद्वहः ॥
क्रोष्टोरेको ऽभवत्पुत्रो वृजिनीवान्महायशाः
तस्य पुत्रो ऽभवत् स्वाती कुशङ्कुस् तत्सुतो ऽभवत् ॥
अथ प्रसूतिमिच्छन्वै कुशङ्कुः सुमहाबलः
महाक्रतुभिर् ईजे ऽसौ विविधैराप्तदक्षिणैः ॥
जज्ञे चित्ररथस्तस्य पुत्रः कर्मभिर् अन्वितः
अथ चैत्ररथो वीरो यज्वा विपुलदक्षिणः ॥
शशबिन्दुस् तु वै राजा अन्वयाद् व्रतम् उत्तमम्
चक्रवर्ती महासत्त्वो महावीर्यो बहुप्रजाः ॥
शशबिन्दोस्तु पुत्राणां सहस्राणामभूच्छतम्
शंसन्ति तस्य पुत्राणाम् अनन्तकम् अनुत्तमम् ॥
अनन्तकात् सुतो यज्ञो यज्ञस्य तनयो धृतिः
उशनास्तस्य तनयः सम्प्राप्य तु महीमिमाम् ॥
आजहाराश्वमेधानां शतमुत्तमधार्मिकः
स्मृतश्चोशनसः पुत्रः सितेषुर् नाम पार्थिवः ॥
मरुतस्तस्य तनयो राजर्षिर्वंशवर्धनः
वीरः कम्बलबर्हिस्तु मरुस्तस्यात्मजः स्मृतः ॥
पुत्रस्तु रुक्मकवचो विद्वान् कम्बलबर्हिषः
निहत्य रुक्मकवचो वीरान् कवचिनो रणे ॥
धन्विनो निशितैर् बाणैर् अवाप श्रियमुत्तमाम्
अश्वमेधे तु धर्मात्मा ऋत्विग्भ्यः पृथिवीं ददौ ॥
जज्ञे तु रुक्मकवचात् परावृत्परवीरहा
जज्ञिरे पञ्च पुत्रास्तु महासत्त्वाः परावृतः ॥
रुक्मेषुः पृथुरुक्मश् च ज्यामघः परिघो हरिः
परिघं च हरिं चैव विदेहेषु पिता न्यसत् ॥
रुक्मेषुरभवद्राजा पृथुरुक्मस्तदाश्रयात्
तैस्तु प्रव्राजितो राजा ज्यामघो ऽवसदाश्रमे ॥
प्रशान्तः स वनस्थो ऽपि ब्राह्मणैरेव बोधितः
जगाम धनुरादाय देशमन्यं ध्वजी रथी ॥
नर्मदातीरमेकाकी केवलं भार्यया युतः
ऋक्षवन्तं गिरिं गत्वा त्यक्तमन्यैरुवास सः ॥
ज्यामघस्याभवद्भार्या शैब्या शीलवती सती
सा चैव तपसोग्रेण शैब्या वै सम्प्रसूयत ॥
सुतं विदर्भं सुभगा वयःपरिणता सती
राजा पुत्रसुतायां तु विद्वांसौ क्रथकैशिकौ ॥
पुत्रौ विदर्भराजस्य शूरौ रणविशारदौ
रोमपादस्तृतीयश् च बभ्रुस्तस्यात्मजः स्मृतः ॥
सुधृतिस्तनयस्तस्य विद्वान्परमधार्मिकः
कौशिकस्तनयस्तस्मात् तस्माच्चैद्यान्वयः स्मृतः ॥
क्रथो विदर्भस्य सुतः कुन्तिस्तस्यात्मजो ऽभवत्
कुन्तेर् वृतस्ततो जज्ञे रणधृष्टः प्रतापवान् ॥
रणधृष्टस्य च सुतो निधृतिः परवीरहा
दशार्हो नैधृतो नाम्ना महारिगणसूदनः ॥
दशार्हस्य सुतो व्याप्तो जीमूत इति तत्सुतः
जीमूतपुत्रो विकृतिस् तस्य भीमरथः सुतः ॥
अथ भीमरथस्यासीत् पुत्रो नवरथः किल
दानधर्मरतो नित्यं सत्यशीलपरायणः ॥
तस्य चासीद्दृढरथः शकुनिस्तस्य चात्मजः
तस्मात् करम्भः सम्भूतो देवरातो ऽभवत्ततः ॥
देवरातादभूद्राजा देवरातिर् महायशाः
देवगर्भोपमो जज्ञे यो देवक्षत्रनामकः ॥
देवक्षत्रसुतः श्रीमान् मधुर्नाम महायशाः
मधूनां वंशकृद्राजा मधोस्तु कुरुवंशकः ॥
कुरुवंशाद् अनुस् तस्मात् पुरुत्वान् पुरुषोत्तमः
अंशुर्जज्ञे च वैदर्भ्यां भद्रवत्यां पुरुत्वतः ॥
ऐक्ष्वाकीम् अवहच्चांशुः सत्त्वस्तस्मादजायत
सत्त्वात् सर्वगुणोपेतः सात्वतः कुलवर्धनः ॥
ज्यामघस्य मया प्रोक्ता सृष्टिर्वै विस्तरेण वः
यः पठेच्छृणुयाद्वापि निसृष्टिं ज्यामघस्य तु ॥
प्रजीवत्येति वै स्वर्गं राज्यं सौख्यं च विन्दति ॥
मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0