भाषा

ENहिગુ
ग्रंथ पाठ

लिङ्गपुराण · अध्याय 1.67

1.67.1

ब्राह्मणप्रमुखा वर्णाः सर्वे शृण्वन्तु मे वचः
ज्येष्ठं प्रति यथा राज्यं न देयं मे कथञ्चन ॥

1.67.2

मम ज्येष्ठेन यदुना नियोगो नानुपालितः
प्रतिकूलमतिश्चैव न स पुत्रः सतां मतः ॥

1.67.3

मातापित्रोर्वचनकृत् सद्भिः पुत्रः प्रशस्यते
स पुत्रः पुत्रवद् यस् तु वर्तते मातृपितृषु ॥

1.67.4

यदुनाहमवज्ञातस् तथा तुर्वसुनापि च
द्रुह्येन चानुना चैव मय्यवज्ञा कृता भृशम् ॥

1.67.5

पुरुणा च कृतं वाक्यं मानितश् च विशेषतः
कनीयान्मम दायादो जरा येन धृता मम ॥

1.67.6

शुक्रेण मे समादिष्टा देवयान्याः कृते जरा
प्रार्थितेन पुनस्तेन जरा संचारिणी कृता ॥

1.67.7

शुक्रेण च वरो दत्तः काव्येनोशनसा स्वयम्
पुत्रो यस्त्वनुवर्तेत स ते राज्यधरस्त्विति ॥

1.67.8

भवन्तो ऽप्यनुजानन्तु पूरू राज्ये ऽभिषिच्यते
यः पुत्रो गुणसम्पन्नो मातापित्रोर्हितः सदा ॥

1.67.9

सर्वमर्हति कल्याणं कनीयान् अपि स प्रभुः
अर्हः पूरुरिदं राज्यं यः सुतो वाक्यकृत्तव ॥

1.67.10

वरदानेन शुक्रस्य न शक्यं कर्तुमन्यथा
एवं जानपदैस्तुष्टैर् इत्युक्तो नाहुषस्तदा ॥

1.67.11

अभिषिच्य ततो राज्यं पूरुं स सुतम् आत्मनः
दिशि दक्षिणपूर्वस्यां तुर्वसुं पुत्रमादिशत् ॥

1.67.12

दक्षिणायामथो राजा यदुं ज्येष्ठं न्ययोजयत्
प्रतीच्यामुत्तरस्यां तु द्रुह्युं चानुं च तावुभौ ॥

1.67.13

सप्तद्वीपां ययातिस्तु जित्वा पृथ्वीं ससागराम्
व्यभजच्च त्रिधा राज्यं पुत्रेभ्यो नाहुषस्तदा ॥

1.67.14

पुत्रसंक्रामितश्रीस्तु हर्षनिर्भरमानसः
प्रीतिमानभवद्राजा भारम् आवेश्य बन्धुषु ॥

1.67.15

अत्र गाथा महाराज्ञा पुरा गीता ययातिना
याभिः प्रत्याहरेत् कामान् सर्वतो ऽङ्गानि कूर्मवत् ॥

1.67.16

ताभिर् एव नरः श्रीमान् नान्यथा कर्मकोटिकृत्
न जातु कामः कामानाम् उपभोगेन शाम्यति ॥

1.67.17

हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते
यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः ॥

1.67.18

नालमेकस्य तत्सर्वम् इति मत्वा शमं व्रजेत्
यदा न कुरुते भावं सर्वभूतेषु पापकम् ॥

1.67.19

कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा
यदा परान्न बिभेति परे चास्मान्न बिभ्यति ॥

1.67.20

यदा न निन्देन्न द्वेष्टि ब्रह्म सम्पद्यते तदा
या दुस्त्यजा दुर्मतिभिर् यानजीर्यति जीर्यतः ॥

1.67.21

यो ऽसौ प्राणान्तिको रोगस् तां तृष्णां त्यजतः सुखम्
जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः ॥

1.67.22

चक्षुःश्रोत्रे च जीर्येते तृष्णैका निरुपद्रवा
जीर्यन्ति देहिनः सर्वे स्वभावादेव नान्यथा ॥

1.67.23

जीविताशा धनाशा च जीर्यतो ऽपि न जीर्यते
यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् ॥

1.67.24

तृष्णाक्षयसुखस्यैतत् कलां नार्हति षोडशीम्
एवमुक्त्वा स राजर्षिः सदारः प्राविशद्वनम् ॥

1.67.25

भृगुतुङ्गे तपस्तप्त्वा तत्रैव च महायशाः
साधयित्वा त्वनशनं सदारः स्वर्गमाप्तवान् ॥

1.67.26

तस्य वंशास्तु पञ्चैते पुण्या देवर्षिसत्कृताः
यैर्व्याप्ता पृथिवी कृत्स्ना सूर्यस्येव मरीचिभिः ॥

1.67.27

धनी प्रजावान् आयुष्मान् कीर्तिमांश् च भवेन्नरः
ययातिचरितं पुण्यं पठञ्छृण्वंश् च बुद्धिमान् ॥

1.67.28

सर्वपापविनिर्मुक्तः शिवलोके महीयते ॥

मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc