भाषा

ENहिગુ
ग्रंथ पाठ

लिङ्गपुराण · अध्याय 1.66

1.66.1

त्रिधन्वा देवदेवस्य प्रसादात्तण्डिनस् तथा
अश्वमेधसहस्रस्य फलं प्राप्य प्रयत्नतः ॥

1.66.2

गाणपत्यं दृढं प्राप्तः सर्वदेवनमस्कृतः
आसीत्त्रिधन्वनश्चापि विद्वांस्त्रय्यारुणो नृपः ॥

1.66.3

तस्य सत्यव्रतो नाम कुमारो ऽभून्महाबलः
तेन भार्या विदर्भस्य हृता हत्वामितौजसम् ॥

1.66.4

पाणिग्रहणमन्त्रेषु निष्ठाम् अप्रापितेष्विह
तेनाधर्मेण संयुक्तं राजा त्रय्यारुणो ऽत्यजत् ॥

1.66.5

पितरं सो ऽब्रवीत् त्यक्तः क्व गच्छामीति वै द्विजाः
पिता त्वेनमथोवाच श्वपाकैः सह वर्तय ॥

1.66.6

इत्युक्तः स विचक्राम नगराद्वचनात् पितुः
स तु सत्यव्रतो धीमाञ् छ्वपाकावसथान्तिके ॥

1.66.7

पित्रा त्यक्तो ऽवसद्वीरः पिता चास्य वनं ययौ
सर्वलोकेषु विख्यातस् त्रिशङ्कुरिति वीर्यवान् ॥

1.66.8

वसिष्ठकोपात्पुण्यात्मा राजा सत्यव्रतः पुरा
विश्वामित्रो महातेजा वरं दत्त्वा त्रिशङ्कवे ॥

1.66.9

राज्ये ऽभिषिच्य तं पित्र्ये याजयामास तं मुनिः
मिषतां देवतानां च वसिष्ठस्य च कौशिकः ॥

1.66.10

सशरीरं तदा तं वै दिवमारोपयद्विभुः
तस्य सत्यव्रता नाम भार्या कैकयवंशजा ॥

1.66.11

कुमारं जनयामास हरिश्चन्द्रमकल्मषम्
हरिश्चन्द्रस्य च सुतो रोहितो नाम वीर्यवान् ॥

1.66.12

हरितो रोहितस्याथ धुन्धुर्हारित उच्यते
विजयश् च सुतेजाश् च धुन्धुपुत्रौ बभूवतुः ॥

1.66.13

जेता क्षत्रस्य सर्वत्र विजयस्तेन स स्मृतः
रुचकस्तस्य तनयो राजा परमधार्मिकः ॥

1.66.14

रुचकस्य वृकः पुत्रस् तस्माद्बाहुश् च जज्ञिवान्
सगरस्तस्य पुत्रो ऽभूद् राजा परमधार्मिकः ॥

1.66.15

द्वे भार्ये सगरस्यापि प्रभा भानुमती तथा
ताभ्यामाराधितः पूर्वम् और्वो ऽग्निः पुत्रकाम्यया ॥

1.66.16

और्वस्तुष्टस्तयोः प्रादाद् यथेष्टं वरमुत्तमम्
एका षष्टिसहस्राणि सुतमेकं परा तथा ॥

1.66.17

अगृह्णाद् वंशकर्तारं प्रभागृह्णात्सुतान्बहून्
एकं भानुमतिः पुत्रम् अगृह्णाद् असमञ्जसम् ॥

1.66.18

ततः षष्टिसहस्राणि सुषुवे सा तु वै प्रभा
खनन्तः पृथिवीं दग्धा विष्णुहुङ्कारमार्गणैः ॥

1.66.19

असमञ्जस्य तनयः सो ऽंशुमान्नाम विश्रुतः
तस्य पुत्रो दिलीपस्तु दिलीपात्तु भगीरथः ॥

1.66.20

येन भागीरथी गङ्गा तपः कृत्वावतारिता
भगीरथसुतश्चापि श्रुतो नाम बभूव ह ॥

1.66.21

नाभागस्तस्य दायादो भवभक्तः प्रतापवान्
अंबरीषः सुतस्तस्य सिन्धुद्वीपस् ततो ऽभवत् ॥

1.66.22

नाभागेनांबरीषेण भुजाभ्यां परिपालिता
बभूव वसुधात्यर्थं तापत्रयविवर्जिता ॥

1.66.23

अयुतायुः सुतस्तस्य सिन्धुद्वीपस्य वीर्यवान्
पुत्रो ऽयुतायुषो धीमान् ऋतुपर्णो महायशाः ॥

1.66.24

दिव्याक्षहृदयज्ञो वै राजा नलसखो बली
नलौ द्वावेव विख्यातौ पुराणेषु दृढव्रतौ ॥

1.66.25

वीरसेनसुतश्चान्यो यश्चेक्ष्वाकुकुलोद्भवः
ऋतुपर्णस्य पुत्रो ऽभूत् सार्वभौमः प्रजेश्वरः ॥

1.66.26

सुदासस्तस्य तनयो राजा त्विन्द्रसमो ऽभवत्
सुदासस्य सुतः प्रोक्तः सौदासो नाम पार्थिवः ॥

1.66.27

ख्यातः कल्माषपादो वै नाम्ना मित्रसहश् च सः
वसिष्ठस्तु महातेजाः क्षेत्रे कल्माषपादके ॥

1.66.28

अश्मकं जनयामास इक्ष्वाकुकुलवर्धनम्
अश्मकस्योत्तरायां तु मूलकस्तु सुतो ऽभवत् ॥

1.66.29

स हि रामभयाद्राजा स्त्रीभिः परिवृतो वने
बिभर्ति त्राणमिच्छन्वै नारीकवचमुत्तमम् ॥

1.66.30

मूलकस्यापि धर्मात्मा राजा शतरथः सुतः
तस्माच्छतरथाज्जज्ञे राजा त्विलविलो बली ॥

1.66.31

आसीत् त्वैलविलिः श्रीमान् वृद्धशर्मा प्रतापवान्
पुत्रो विश्वसहस्तस्य पितृकन्या व्यजीजनत् ॥

1.66.32

दिलीपस्तस्य पुत्रो ऽभूत् खट्वाङ्ग इति विश्रुतः
येन स्वर्गाद् इहागत्य मुहूर्तं प्राप्य जीवितम् ॥

1.66.33

त्रयो ऽग्नयस्त्रयो लोका बुद्ध्या सत्येन वै जिताः
दीर्घबाहुः सुतस्तस्य रघुस्तस्मादजायत ॥

1.66.34

अजः पुत्रो रघोश्चापि तस्माज्जज्ञे च वीर्यवान्
राजा दशरथस्तस्माच् छ्रीमानिक्ष्वाकुवंशकृत् ॥

1.66.35

रामो दशरथाद्वीरो धर्मज्ञो लोकविश्रुतः
भरतो लक्ष्मणश्चैव शत्रुघ्नश् च महाबलः ॥

1.66.36

तेषां श्रेष्ठो महातेजा रामः परमवीर्यवान्
रावणं समरे हत्वा यज्ञैरिष्ट्वा च धर्मवित् ॥

1.66.37

दशवर्षसहस्राणि रामो राज्यं चकार सः
रामस्य तनयो जज्ञे कुश इत्यभिविश्रुतः ॥

1.66.38

लवश् च सुमहाभागः सत्यवान् अभवत् सुधीः
अतिथिस्तु कुशाज्जज्ञे निषधस्तस्य चात्मजः ॥

1.66.39

नलस्तु निषधाज्जातो नभस्तस्मादजायत
नभसः पुण्डरीकाख्यः क्षेमधन्वा ततः स्मृतः ॥

1.66.40

तस्य पुत्रो ऽभवद् वीरो देवानीकः प्रतापवान्
अहीनरः सुतस् तस्य सहस्राश्वस्ततः परः ॥

1.66.41

शुभश्चन्द्रावलोकश् च तारापीडस्ततो ऽभवत्
तस्यात्मजश्चन्द्रगिरिर् भानुचन्द्रस् ततो ऽभवत् ॥

1.66.42

श्रुतायुरभवत्तस्माद् बृहद्बल इति स्मृतः
भारते यो महातेजाः सौभद्रेण निपातितः ॥

1.66.43

एते इक्ष्वाकुदायादा राजानः प्रायशः स्मृताः
वंशे प्रधाना एतस्मिन् प्राधान्येन प्रकीर्तिताः ॥

1.66.44

सर्वे पाशुपते ज्ञानम् अधीत्य परमेश्वरम्
समभ्यर्च्य यथाज्ञानम् इष्ट्वा यज्ञैर्यथाविधि ॥

1.66.45

दिवं गता महात्मानः केचिन्मुक्तात्मयोगिनः
नृगो ब्राह्मणशापेन कृकलासत्वम् आगतः ॥

1.66.46

धृष्टश् च धृष्टकेतुश् च यमबालश् च वीर्यवान्
रणधृष्टश् च ते पुत्रास् त्रयः परमधार्मिकाः ॥

1.66.47

आनर्तो नाम शर्यातेः सुकन्या नाम दारिका
आनर्तस्याभवत् पुत्रो रोचमानः प्रतापवान् ॥

1.66.48

रोचमानस्य रेवो ऽभूद् रेवाद् रैवत एव च
ककुद्मी चापरो ज्येष्ठ पुत्रः पुत्रशतस्य तु ॥

1.66.49

रेवती यस्य सा कन्या पत्नी रामस्य विश्रुता
नरिष्यन्तस्य पुत्रो ऽभूज् जितात्मा तु महाबली ॥

1.66.50

नाभागादंबरीषस्तु विष्णुभक्तः प्रतापवान्
ऋतस्तस्य सुतः श्रीमान् सर्वधर्मविदांवरः ॥

1.66.51

कृतस्तस्य सुधर्माभूत् पृषितो नाम विश्रुतः
करूषस्य तु कारूषाः सर्वे प्रख्यातकीर्तयः ॥

1.66.52

पृषितो हिंसयित्वा गां गुरोः प्राप सुकल्मषम्
शापाच्छूद्रत्वम् आपन्नश् च्यवनस्येति विश्रुतः ॥

1.66.53

दिष्टपुत्रस्तु नाभागस् तस्मादपि भलन्दनः
भलन्दनस्य विक्रान्तो राजासीद् अजवाहनः ॥

1.66.54

एते समासतः प्रोक्ता मनुपुत्रा महाभुजाः
इक्ष्वाकोः पुत्रपौत्राद्या एलस्याथ वदामि वः ॥

1.66.55

ऐलः पुरूरवा नाम रुद्रभक्तः प्रतापवान्
चक्रे त्वकण्टकं राज्यं देशे पुण्यतमे द्विजाः ॥

1.66.56

उत्तरे यमुनातीरे प्रयागे मुनिसेविते
प्रतिष्ठानाधिपः श्रीमान् प्रतिष्ठाने प्रतिष्ठितः ॥

1.66.57

तस्य पुत्राः सप्त भवन् सर्वे वितततेजसः
गन्धर्वलोकविदिता भवभक्ता महाबलाः ॥

1.66.58

आयुर् मायुर् अमायुश् च विश्वायुश्चैव वीर्यवान्
श्रुतायुश् च शतायुश् च दिव्याश्चैवोर्वशीसुताः ॥

1.66.59

आयुषस्तनया वीराः पञ्चैवासन्महौजसः
स्वर्भानुतनयायां ते प्रभायां जज्ञिरे नृपाः ॥

1.66.60

नहुषः प्रथमस्तेषां धर्मज्ञो लोकविश्रुतः
नहुषस्य तु दायादाः षडिन्द्रोपमतेजसः ॥

1.66.61

उत्पन्नाः पितृकन्यायां विरजायां महौजसः
यतिर्ययातिः संयातिर् आयातिः पञ्चमो ऽन्धकः ॥

1.66.62

विजातिश्चेति षडिमे सर्वे प्रख्यातकीर्तयः
यतिर्ज्येष्ठश् च तेषां वै ययातिस्तु ततो ऽवरः ॥

1.66.63

ज्येष्ठस्तु यतिर्मोक्षार्थो ब्रह्मभूतो ऽभवत्प्रभुः
तेषां ययातिः पञ्चानां महाबलपराक्रमः ॥

1.66.64

देवयानीमुशनसः सुतां भार्यामवाप सः
शर्मिष्ठामासुरीं चैव तनयां वृषपर्वणः ॥

1.66.65

यदुं च तुर्वसुं चैव देवयानी व्यजायत
तावुभौ शुभकर्माणौ स्तुतौ विद्याविशारदौ ॥

1.66.66

द्रुह्यं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी
ययातये रथं तस्मै ददौ शुक्रः प्रतापवान् ॥

1.66.67

तोषितस्तेन विप्रेन्द्रः प्रीतः परमभास्वरम्
सुसंगं काञ्चनं दिव्यम् अक्षये च महेषुधी ॥

1.66.68

युक्तं मनोजवैर् अश्वैर् येन कन्यां समुद्वहन्
स तेन रथमुख्येन षण्मासेनाजयन्महीम् ॥

1.66.69

ययातिर्युधि दुर्धर्षो देवदानवमानुषैः
भवभक्तस्तु पुण्यात्मा धर्मनिष्ठः समञ्जसः ॥

1.66.70

यज्ञयाजी जितक्रोधः सर्वभूतानुकम्पनः
कौरवाणां च सर्वेषां स भवद्रथ उत्तमः ॥

1.66.71

यावन्नरेन्द्रप्रवरः कौरवो जनमेजयः
पूरोर्वंशस्य राज्ञस्तु राज्ञः पारिक्षितस्य तु ॥

1.66.72

जगाम स रथो नाशं शापाद्गर्गस्य धीमतः
गर्गस्य हि सुतं बालं स राजा जनमेजयः ॥

1.66.73

अक्रूरं हिंसयामास ब्रह्महत्यामवाप सः
स लोहगन्धी राजर्षिः परिधावन्नितस्ततः ॥

1.66.74

पौरजानपदैस्त्यक्तो न लेभे शर्म कर्हिचित्
ततः स दुःखसंतप्तो न लेभे संविदं क्वचित् ॥

1.66.75

जगाम शौनकमृषिं शरण्यं व्यथितस्तदा
इन्द्रेतिर् नाम विख्यातो यो ऽसौ मुनिरुदारधीः ॥

1.66.76

याजयामास चेन्द्रेतिस् तं नृपं जनमेजयम्
अश्वमेधेन राजानं पावनार्थं द्विजोत्तमाः ॥

1.66.77

स लोहगन्धान्निर्मुक्त एनसा च महायशाः
यज्ञस्यावभृथे मध्ये यातो दिव्यो रथः शुभः ॥

1.66.78

तस्माद्वंशात्परिभ्रष्टो वसोश्चेदिपतेः पुनः
दत्तः शक्रेण तुष्टेन लेभे तस्माद् बृहद्रथः ॥

1.66.79

ततो हत्वा जरासंधं भीमस्तं रथमुत्तमम्
प्रददौ वासुदेवाय प्रीत्या कौरवनन्दनः ॥

1.66.80

अभ्यषिञ्चत्पुरुं पुत्रं ययातिर्नाहुषः प्रभुः
कृतोपकारस्तेनैव पुरुणा द्विजसत्तमाः ॥

1.66.81

अभिषेक्तुकामं च नृपं पुरुं पुत्रं कनीयसम्
ब्राह्मणप्रमुखा वर्णा इदं वचनमब्रुवन् ॥

1.66.82

कथं शुक्रस्य नप्तारं देवयान्याः सुतं प्रभो
ज्येष्ठं यदुमतिक्रम्य कनीयान्राज्यमर्हति ॥

1.66.83

एते संबोधयामस्त्वां धर्मं च अनुपालय ॥

मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc