भाषा

ENहिગુ
ग्रंथ पाठ

लिङ्गपुराण · अध्याय 1.62

1.62.1

कथं विष्णोः प्रसादाद्वै ध्रुवो बुद्धिमतां वरः
मेढीभूतो ग्राहाणां वै वक्तुमर्हसि सांप्रतम् ॥

1.62.2

एतमर्थं मया पृष्टो नानाशास्त्रविशारदः
मार्कण्डेयः पुरा प्राह मह्यं शुश्रूषवे द्विजाः ॥

1.62.3

सार्वभौमो महातेजाः सर्वशस्त्रभृतां वरः
उत्तानपादो राजा वै पालयामास मेदिनीम् ॥

1.62.4

तस्य भार्याद्वयम् अभूत् सुनीतिः सुरुचिस् तथा
अग्रजायामभूत्पुत्रः सुनीत्यां तु महायशाः ॥

1.62.5

ध्रुवो नाम महाप्राज्ञः कुलदीपो महामतिः
कदाचित् सप्तवर्षे ऽपि पितुरङ्कम् उपाविशत् ॥

1.62.6

सुरुचिस्तं विनिर्धूय स्वपुत्रं प्रीतिमानसा
न्यवेशयत्तं विप्रेन्द्रा ह्य् अङ्कं रूपेण मानिता ॥

1.62.7

अलब्ध्वा स पितुर्धीमान् अङ्कं दुःखितमानसः
मातुः समीपमागम्य रुरोद स पुनः पुनः ॥

1.62.8

रुदन्तं पुत्रमाहेदं माता शोकपरिप्लुता
सुरुचिर्दयिता भर्तुस् तस्याः पुत्रो ऽपि तादृशः ॥

1.62.9

मम त्वं मन्दभाग्याया जातः पुत्रो ऽप्यभाग्यवान्
किं शोचसि किमर्थं त्वं रोदमानः पुनः पुनः ॥

1.62.10

संतप्तहृदयो भूत्वा मम शोकं करिष्यसि
स्वस्थस्थानं ध्रुवं पुत्र स्वशक्त्या त्वं समाप्नुयाः ॥

1.62.11

इत्युक्तः स तु मात्रा वै निर्जगाम तदा वनम्
विश्वामित्रं ततो दृष्ट्वा प्रणिपत्य यथाविधि ॥

1.62.12

उवाच प्राञ्जलिर्भूत्वा भगवन् वक्तुमर्हसि
सर्वेषामुपरिस्थानं केन प्राप्स्यामि सत्तम ॥

1.62.13

पितुरङ्के समासीनं माता मां सुरुचिर्मुने
व्यधूनयत्स तं राजा पिता नोवाच किंचन ॥

1.62.14

एतस्मात् कारणाद् ब्रह्मंस् त्रस्तो ऽहं मातरं गतः
सुनीतिराह मे माता मा कृथाः शोकमुत्तमम् ॥

1.62.15

स्वकर्मणा परं स्थानं प्राप्तुमर्हसि पुत्रक
तस्या हि वचनं श्रुत्वा स्थानं तव महामुने ॥

1.62.16

प्राप्तो वनमिदं ब्रह्मन्न् अद्य त्वां दृष्टवान्प्रभो
तव प्रसादात् प्राप्स्ये ऽहं स्थानमद्भुतमुत्तमम् ॥

1.62.17

इत्युक्तः स मुनिः श्रीमान् प्रहसन्न् इदम् अब्रवीत्
राजपुत्र शृणुष्वेदं स्थानमुत्तममाप्स्यसि ॥

1.62.18

आराध्य जगतामीशं केशवं क्लेशनाशनम्
दक्षिणाङ्गभवं शंभोर् महादेवस्य धीमतः ॥

1.62.19

जप नित्यं महाप्राज्ञ सर्वपापविनाशनम्
इष्टदं परमं शुद्धं पवित्रममलं परम् ॥

1.62.20

ब्रूहि मन्त्रमिमं दिव्यं प्रणवेन समन्वितम्
नमो ऽस्तु वासुदेवाय इत्येवं नियतेन्द्रियः ॥

1.62.21

ध्यायन्सनातनं विष्णुं जपहोमपरायणः
इत्युक्तः प्रणिपत्यैनं विश्वामित्रं महायशाः ॥

1.62.22

प्राङ्मुखो नियतो भूत्वा जजाप प्रीतमानसः
शाकमूलफलाहारः संवत्सरमतन्द्रितः ॥

1.62.23

जजाप मन्त्रमनिशम् अजस्रं स पुनः पुनः
वेताला राक्षसा घोराः सिंहाद्याश् च महामृगाः ॥

1.62.24

तमभ्ययुर्महात्मानं बुद्धिमोहाय भीषणाः
जपन् स वासुदेवेति न किंचित् प्रत्यपद्यत ॥

1.62.25

सुनीतिर् अस्य या माता तस्या रूपेण संवृता
पिशाचि समनुप्राप्ता रुरोद भृशदुःखिता ॥

1.62.26

मम त्वमेकः पुत्रो ऽसि किमर्थं क्लिश्यते भवान्
मामनाथामपहाय तप आस्थितवानसि ॥

1.62.27

एवमादीनि वाक्यानि भाषमाणां महातपाः
अनिरीक्ष्यैव हृष्टात्मा हरेर्नाम जजाप सः ॥

1.62.28

ततः प्रशेमुः सर्वत्र विघ्नरूपाणि तत्र वै
ततो गरुडमारुह्य कालमेघसमद्युतिः ॥

1.62.29

सर्वदेवैः परिवृतः स्तूयमानो महर्षिभिः
आययौ भगवान्विष्णुः ध्रुवान्तिकम् अरातिहा ॥

1.62.30

समागतं विलोक्याथ को ऽसावित्येव चिन्तयन्
पिबन्निव हृषीकेशं नयनाभ्यां जगत्पतिम् ॥

1.62.31

जपन् स वासुदेवेति ध्रुवस्तस्थौ महाद्युतिः
शङ्खप्रान्तेन गोविन्दः पस्पर्शास्यं हि तस्य वै ॥

1.62.32

ततः स परमं ज्ञानम् अवाप्य पुरुषोत्तमम्
तुष्टाव प्राञ्जलिर्भूत्वा सर्वलोकेश्वरं हरिम् ॥

1.62.33

प्रसीद देवदेवेश शङ्खचक्रगदाधर
लोकात्मन् वेदगुह्यात्मन् त्वां प्रपन्नो ऽस्मि केशव ॥

1.62.34

न विदुस्त्वां महात्मानं सनकाद्या महर्षयः
तत्कथं त्वामहं विद्यां नमस्ते भुवनेश्वर ॥

1.62.35

तमाह प्रहसन्विष्णुर् एहि वत्स ध्रुवो भवान्
स्थानं ध्रुवं समासाद्य ज्योतिषाम् अग्रभुग् भव ॥

1.62.36

मात्रा त्वं सहितस्तत्र ज्योतिषां स्थानमाप्नुहि
मत्स्थानमेतत्परमं ध्रुवं नित्यं सुशोभनम् ॥

1.62.37

तपसाराध्य देवेशं पुरा लब्धं हि शङ्करात्
वासुदेवेति यो नित्यं प्रणवेन समन्वितम् ॥

1.62.38

नमस्कारसमायुक्तं भगवच्छब्दसंयुतम्
जपेदेवं हि यो विद्वान् ध्रुवं स्थानं प्रपद्यते ॥

1.62.39

ततो देवाः सगन्धर्वाः सिद्धाश् च परमर्षयः
मात्रा सह ध्रुवं सर्वे तस्मिन् स्थाने न्यवेशयन् ॥

1.62.40

विष्णोराज्ञां पुरस्कृत्य ज्योतिषां स्थानमाप्तवान्
एवं ध्रुवो महातेजा द्वादशाक्षरविद्यया ॥

1.62.41

अवाप महतीं सिद्धिम् एतत्ते कथितं मया ॥

1.62.42

तस्माद्यो वासुदेवाय प्रणामं कुरुते नरः
स याति ध्रुवसालोक्यं ध्रुवत्वं तस्य तत्तथा ॥

मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc