लिङ्गपुराण · अध्याय 1.61
क्षेत्राण्येतानि सर्वाणि आतपन्ति गभस्तिभिः
तेषां क्षेत्राण्यथादत्ते सूर्यो नक्षत्रतारकाः ॥
चीर्णेन सुकृतेनेह सुकृतान्ते ग्रहाश्रयाः
तारणात्तारका ह्येताः शुक्लत्वाच्चैव तारकाः ॥
दिव्यानां पार्थिवानां च नैशानां चैव सर्वशः
आदानान्नित्यमादित्यस् तेजसां तमसामपि ॥
सवने स्यन्दने ऽर्थे च धातुर् एष विभाष्यते
सवनात्तेजसो ऽपां च तेनासौ सविता मतः ॥
बहुलश्चन्द्र इत्येष ह्लादने धातुरुच्यते
शुक्लत्वे चामृतत्वे च शीतत्वे च विभाव्यते ॥
सूर्याचन्द्रमसोर्दिव्ये मण्डले भास्वरे खगे
जलतेजोमये शुक्ले वृत्तकुंभनिभे शुभे ॥
घनतोयात्मकं तत्र मण्डलं शशिनः स्मृतम्
घनतेजोमयं शुक्लं मण्डलं भास्करस्य तु ॥
वसन्ति सर्वदेवाश् च स्थानान्येतानि सर्वशः
मन्वन्तरेषु सर्वेषु ऋक्षसूर्यग्रहाश्रयाः ॥
तेन ग्रहा गृहाण्येव तदाख्यास्ते भवन्ति च
सौरं सूर्यो ऽविशत्स्थानं सौम्यं सोमस्तथैव च ॥
शौक्रं शुक्रो ऽविशत्स्थानं षोडशार्चिः प्रतापवान्
बृहद् बृहस्पतिश्चैव लोहितश्चैव लोहितम् ॥
शनैश्चरं तथा स्थानं देवश्चापि शनैश्चरः
बौधं बुधस्तु स्वर्भानुः स्वर्भानुस्थानमाश्रितः ॥
नक्षत्राणि च सर्वाणि नक्षत्राणि विशन्ति च
गृहाण्येतानि सर्वाणि ज्योतींषि सुकृतात्मनाम् ॥
कल्पादौ सम्प्रवृत्तानि निर्मितानि स्वयंभुवा
स्थानान्येतानि तिष्ठन्ति यावद् आभूतसंप्लवम् ॥
मन्वन्तरेषु सर्वेषु देवस्थानानि तानि वै
अभिमानिनो ऽवतिष्ठन्ते देवाः स्थानं पुनः पुनः ॥
अतीतैस्तु सहैतानि भाव्याभाव्यैः सुरैः सह
वर्तन्ते वर्तमानैश् च स्थानिभिस्तैः सुरैः सह ॥
अस्मिन्मन्वन्तरे चैव ग्रहा वैमानिकाः स्मृताः
विवस्वानदितेः पुत्रः सूर्यो वैवस्वते ऽन्तरे ॥
द्युतिमानृषिपुत्रस्तु सोमो देवो वसुः स्मृतः
शुक्रो देवस्तु विज्ञेयो भार्गवो ऽसुरयाजकः ॥
बृहत्तेजाः स्मृतो देवो देवाचार्यो ऽङ्गिरःसुतः
बुधो मनोहरश्चैव ऋषिपुत्रस्तु स स्मृतः ॥
शनैश्चरो विरूपस्तु संज्ञापुत्रो विवस्वतः
अग्निर्विकेश्यां जज्ञे तु युवासौ लोहितार्चिषः ॥
नक्षत्रऋक्षनामिन्यो दाक्षायण्यस्तु ताः स्मृताः
स्वर्भानुः सिंहिकापुत्रो भूतसंतापनो ऽसुरः ॥
सोमर्क्षग्रहसूर्येषु कीर्तितास्त्वभिमानिनः
स्थानान्येतान्यथोक्तानि स्थानिन्यश्चैव देवताः ॥
सौरम् अग्निमयं स्थानं सहस्रांशोर्विवस्वतः
हिमांशोस्तु स्मृतं स्थानम् अम्मयं शुक्लमेव च ॥
आप्यं श्यामं मनोज्ञं च बुधरश्मिगृहं स्मृतम्
शुक्लस्याप्यम्मयं शुक्लं पदं षोडशरश्मिवत् ॥
नवरश्मि तु भौमस्य लोहितं स्थानम् उत्तमम्
हरिद्राभं बृहच्चापि षोडशार्चिर्बृहस्पतेः ॥
अष्टरश्मिगृहं चापि प्रोक्तं कृष्णं शनैश्चरे
स्वर्भानोस्तामसं स्थानं भूतसंतापनालयम् ॥
विज्ञेयास्तारकाः सर्वास् त्व् ऋषयस्त्वेकरश्मयः
आश्रयाः पुण्यकीर्तीनां शुक्लाश्चापि स्ववर्णतः ॥
घनतोयात्मिका ज्ञेयाः कल्पादावेव निर्मिताः
आदित्यरश्मिसंयोगात् संप्रकाशात्मिकाः स्मृताः ॥
नवयोजनसाहस्रो विष्कंभः सवितुः स्मृतः
त्रिगुणस्तस्य विस्तारो मण्डलस्य प्रमाणतः ॥
द्विगुणः सूर्यविस्ताराद् विस्तारः शशिनः स्मृतः
तुल्यस्तयोस्तु स्वर्भानुर् भूत्वाधस्तात्प्रसर्पति ॥
उद्धृत्य पृथिवीछायां निर्मितां मण्डलाकृतिम्
स्वर्भानोस्तु बृहत्स्थानं तृतीयं यत्तमोमयम् ॥
आदित्यात्तच्च निष्क्रम्य समं गच्छति पर्वसु
आदित्यमेति सोमाच्च पुनः सौरेषु पर्वसु ॥
स्वर्भानुं नुदते यस्मात् तस्मात्स्वर्भानुरुच्यते
चन्द्रस्य षोडशो भागो भार्गवस्य विधीयते ॥
विष्कंभान्मण्डलाच्चैव योजनाग्रात्प्रमाणतः
भार्गवात्पादहीनस्तु विज्ञेयो वै बृहस्पतिः ॥
बृहस्पतेः पादहीनौ वक्रसौरी उभौ स्मृतौ
विस्तारान्मण्डलाच्चैव पादहीनस्तयोर्बुधः ॥
तारानक्षत्ररूपाणि वपुष्मन्तीह यानि वै
बुधेन तानि तुल्यानि विस्तारान्मण्डलाच्च वै ॥
प्रायशश्चन्द्रयोगीनि विद्यादृक्षाणि तत्त्ववित्
तारानक्षत्ररूपाणि हीनानि तु परस्परम् ॥
शतानि पञ्च चत्वारि त्रीणि द्वे चैव योजने
सर्वोपरि निकृष्टानि तारकामण्डलानि तु ॥
योजनान्यर्धमात्राणि तेभ्यो ह्रस्वं न विद्यते
उपरिष्टात्त्रयस्तेषां ग्रहास्ते दूरसर्पिणः ॥
सौरो ऽङ्गिराश् च वक्रश् च ज्ञेया मन्दविचारिणः
पूर्वमेव समाख्याता गतिस्तेषां यथाक्रमम् ॥
एतेष्वेव ग्रहाः सर्वे नक्षत्रेषु समुत्थिताः
विवस्वानदितेः पुत्रः सूर्यो वै मुनिसत्तमाः ॥
विशाखासु समुत्पन्नो ग्रहाणां प्रथमो ग्रहः
त्विषिमान् धर्मपुत्रस्तु सोमो देवो वसुस्तु सः ॥
शीतरश्मिः समुत्पन्नः कृत्तिकासु निशाकरः
षोडशार्चिर्भृगोः पुत्रः शुक्रः सूर्यादनन्तरम् ॥
ताराग्रहाणां प्रवरस् तिष्ये क्षेत्रे समुत्थितः
ग्रहश्चाङ्गिरसः पुत्रो द्वादशार्चिर्बृहस्पतिः ॥
फाल्गुनीषु समुत्पन्नः पूर्वाख्यासु जगद्गुरुः
नवार्चिर्लोहिताङ्गश् च प्रजापतिसुतो ग्रहः ॥
आषाढास्विह पूर्वासु समुत्पन्न इति स्मृतः
रेवतीष्वेव सप्तार्चिः स्थाने सौरिः शनैश्चरः ॥
सौम्यो बुधो धनिष्ठासु पञ्चार्चिर् उदितो ग्रहः
तमोमयो मृत्युसुतः प्रजाक्षयकरः शिखी ॥
आश्लेषासु समुत्पन्नः सर्वहारी महाग्रहः
तथा स्वनामधेयेषु दाक्षायण्यः समुत्थिताः ॥
तमोवीर्यमयो राहुः प्रकृत्या कृष्णमण्डलः
भरणीषु समुत्पन्नो ग्रहश्चन्द्रार्कमर्दनः ॥
एते तारा ग्रहाश्चापि बोद्धव्या भार्गवादयः
जन्मनक्षत्रपीडासु यान्ति वैगुण्यतां यतः ॥
मुच्यते तेन दोषेण ततस्तद्ग्रहभक्तितः
सर्वग्रहाणामेतेषाम् आदिरादित्य उच्यते ॥
ताराग्रहाणां शुक्रस्तु केतूनां चापि धूमवान्
ध्रुवः किल ग्रहाणां तु विभक्तानां चतुर्दिशम् ॥
नक्षत्राणां श्रविष्ठा स्याद् अयनानां तथोत्तरम्
वर्षाणां चैव पञ्चानाम् आद्यः संवत्सरः स्मृतः ॥
ऋतूनां शिशिरश्चापि मासानां माघ उच्यते
पक्षाणां शुक्लपक्षस्तु तिथीनां प्रतिपत्तथा ॥
अहोरात्रविभागानाम् अहश्चादिः प्रकीर्तितः
मुहूर्तानां तथैवादिर् मुहूर्तो रुद्रदैवतः ॥
क्षणश्चापि निमेषादिः कालः कालविदां वराः
श्रवणान्तं धनिष्ठादि युगं स्यात्पञ्चवार्षिकम् ॥
भानोर्गतिविशेषेण चक्रवत्परिवर्तते
दिवाकरः स्मृतस्तस्मात् कालकृद्विभुरीश्वरः ॥
चतुर्विधानां भूतानां प्रवर्तकनिवर्तकः
तस्यापि भगवान् रुद्रः साक्षाद्देवः प्रवर्तकः ॥
इत्येष ज्योतिषामेवं संनिवेशो ऽर्थनिश्चयः
लोकसंव्यवहारार्थं महादेवेन निर्मितः ॥
बुद्धिपूर्वं भगवता कल्पादौ सम्प्रवर्तितः
स आश्रयो ऽभिमानी च सर्वस्य ज्योतिरात्मकः ॥
एकरूपप्रधानस्य परिणामो ऽयमद्भुतः
नैष शक्यः प्रसंख्यातुं याथातथ्येन केनचित् ॥
गतागतं मनुष्येण ज्योतिषां मांसचक्षुषा
आगमादनुमानाच्च प्रत्यक्षादुपपत्तितः ॥
परीक्ष्य निपुणं बुद्ध्या श्रद्धातव्यं विपश्चिता
चक्षुः शास्त्रं जलं लेख्यं गणितं मुनिसत्तमाः ॥
पञ्चैते हेतवो ज्ञेया ज्योतिर्मानविनिर्णये ॥
मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0