लिङ्गपुराण · अध्याय 1.5
यदा स्रष्टुं मतिं चक्रे मोहश्चासीन्महात्मनः
द्विजाश् च बुद्धिपूर्वं तु ब्रह्मणो ऽव्यक्तजन्मनः ॥
तमो मोहो महामोहस् तामिस्रश्चान्धसंज्ञितः
अविद्या पञ्चधा ह्येषा प्रादुर्भूता स्वयम्भुवः ॥
अविद्यया मुनेर्ग्रस्तः सर्गो मुख्य इति स्मृतः
असाधक इति स्मृत्वा सर्गो मुख्यः प्रजापतिः ॥
अभ्यमन्यत सो ऽन्यं वै नगा मुख्योद्भवाः स्मृताः
त्रिधा कण्ठो मुनेस्तस्य ध्यायतो वै ह्यवर्तत ॥
प्रथमं तस्य वै जज्ञे तिर्यक्स्रोतो महात्मनः
ऊर्ध्वस्रोतः परस्तस्य सात्त्विकः स इति स्मृतः ॥
अर्वाक्स्रोतो ऽनुग्रहश् च तथा भूतादिकः पुनः
ब्रह्मणो महतस्त्वाद्यो द्वितीयो भौतिकस् तथा ॥
सर्गस्तृतीयश्चैन्द्रियस् तुरीयो मुख्य उच्यते
तिर्यग्योन्यः पञ्चमस्तु षष्ठो दैविक उच्यते ॥
सप्तमो मानुषो विप्रा अष्टमो ऽनुग्रहः स्मृतः
नवमश्चैव कौमारः प्राकृता वैकृतास्त्विमे ॥
पुरस्तादसृजद्देवः सनन्दं सनकं तथा
सनातनं मुनिश्रेष्ठा नैष्कर्म्येण गताः परम् ॥
मरीचिभृग्वङ्गिरसः पुलस्त्यं पुलहं क्रतुम्
दक्षमत्रिं वसिष्ठं च सो ऽसृजद्योगविद्यया ॥
नवैते ब्रह्मणः पुत्रा ब्रह्मज्ञा ब्राह्मणोत्तमाः
ब्रह्मवादिन एवैते ब्रह्मणः सदृशाः स्मृताः ॥
संकल्पश्चैव धर्मश् च ह्य् अधर्मो धर्मसंनिधिः
द्वादशैव प्रजास्त्वेता ब्रह्मणो ऽव्यक्तजन्मनः ॥
ऋभुं सनत्कुमारं च ससर्जादौ सनातनः
तावूर्ध्वरेतसौ दिव्यौ चाग्रजौ ब्रह्मवादिनौ ॥
कुमारौ ब्रह्मणस् तुल्यौ सर्वज्ञौ सर्वभाविनौ
वक्ष्ये भार्याकुलं तेषां मुनीनामग्रजन्मनाम् ॥
समासतो मुनिश्रेष्ठाः प्रजासम्भूतिमेव च
शतरूपां तु वै राज्ञीं विराजमसृजत्प्रभुः ॥
स्वायम्भुवात्तु वै राज्ञी शतरूपा त्वयोनिजा
लेभे पुत्रद्वयं पुण्या तथा कन्याद्वयं च सा ॥
उत्तानपादो ह्यवरो धीमाञ्ज्येष्ठः प्रियव्रतः
ज्येष्ठा वरिष्ठा त्वाकूतिः प्रसूतिश्चानुजा स्मृता ॥
उपयेमे तदाकूतिं रुचिर्नाम प्रजापतिः
प्रसूतिं भगवान्दक्षो लोकधात्रीं च योगिनीम् ॥
दक्षिणासहितं यज्ञम् आकूतिः सुषुवे तथा
दक्षिणा जनयामास दिव्या द्वादश पुत्रिकाः ॥
प्रसूतिः सुषुवे दक्षाच् चतुर्विंशतिकन्यकाः
श्रद्धां लक्ष्मीं धृतिं पुष्टिं तुष्टिं मेधां क्रियां तथा ॥
बुद्धिं लज्जां वपुःशान्तिं सिद्धिं कीर्तिं महातपाः
ख्यातिं शान्तिं च सम्भूतिं स्मृतिं प्रीतिं क्षमां तथा ॥
संनतिं चानसूयां च ऊर्जां स्वाहां सुरारणिम्
स्वधां चैव महाभागां प्रददौ च यथाक्रमम् ॥
श्रद्धाद्याश्चैव कीर्त्यन्तास् त्रयोदश सुदारिकाः
धर्मं प्रजापतिं जग्मुः पतिं परमदुर्लभाः ॥
उपयेमे भृगुर्धीमान् ख्यातिं तां भार्गवारणिम्
सम्भूतिं च मरीचिस्तु स्मृतिं चैवाङ्गिरा मुनिः ॥
प्रीतिं पुलस्त्यः पुण्यात्मा क्षमां तां पुलहो मुनिः
क्रतुश् च संनतिं धीमान् अत्रिस्तां चानसूयकाम् ॥
ऊर्जां वसिष्ठो भगवान् वरिष्ठो वारिजेक्षणाम्
विभावसुस् तथा स्वाहां स्वधां वै पितरस् तथा ॥
पुत्रीकृता सती या सा मानसी शिवसम्भवा
दक्षेण जगतां धात्री रुद्रमेवास्थिता पतिम् ॥
अर्धनारीश्वरं दृष्ट्वा सर्गादौ कनकाण्डजः
विभजस्वेति चाहादौ यदा जाता तदाभवत् ॥
तस्याश्चैवांशजाः सर्वाः स्त्रियस्त्रिभुवने तथा
एकादशाविधा रुद्रास् तस्य चांशोद्भवास् तथा ॥
स्त्रीलिङ्गमखिलं सा वै पुंलिङ्गं नीललोहितः
तं दृष्ट्वा भगवान् ब्रह्मा दक्षमालोक्य सुव्रताम् ॥
भजस्व धात्रीं जगतां ममापि च तवापि च
पुन्नाम्नो नरकात्त्राति इति पुत्रीत्विहोक्तितः ॥
प्रशस्ता तव कान्तेयं स्यात् पुत्री विश्वमातृका
तस्मात् पुत्री सती नाम्ना तवैषा च भविष्यति ॥
एवमुक्तस्तदा दक्षो नियोगाद्ब्रह्मणो मुनिः
लब्ध्वा पुत्रीं ददौ साक्षात् सतीं रुद्राय सादरम् ॥
धर्मस्य पत्न्यः श्रद्धाद्याः कीर्तिता वै त्रयोदश
तासु धर्मप्रजां वक्ष्ये यथाक्रममनुत्तमम् ॥
कामो दर्पो ऽथ नियमः संतोषो लोभ एव च
श्रुतस्तु दण्डः समयो बोधश्चैव महाद्युतिः ॥
अप्रमादश् च विनयो व्यवसायो द्विजोत्तमाः
क्षेमं सुखं यशश्चैव धर्मपुत्राश् च तासु वै ॥
धर्मस्य वै क्रियायां तु दण्डः समय एव च
अप्रमादस् तथा बोधो बुद्धेर्धर्मस्य तौ सुतौ ॥
तस्मात्पञ्चदशैवैते तासु धर्मात्मजास्त्विह
भृगुपत्नी च सुषुवे ख्यातिर्विष्णोः प्रियां श्रियम् ॥
धातारं च विधातारं मेरोर्जामातरौ सुतौ
प्रभूतिर्नाम या पत्नी मरीचेः सुषुवे सुतौ ॥
पूर्णमासं तु मारीचं ततः कन्याचतुष्टयम्
तुष्टिर्ज्येष्ठा च वै दृष्टिः कृषिश्चापचितिस् तथा ॥
क्षमा च सुषुवे पुत्रान् पुत्रीं च पुलहाच्छुभाम्
कर्दमं च वरीयांसं सहिष्णुं मुनिसत्तमाः ॥
तथा कनकपीतां स पीवरीं पृथिवीसमाम्
प्रीत्यां पुलस्त्यश् च तथा जनयामास वै सुतान् ॥
दत्तोर्णं वेदबाहुं च पुत्रीं चान्यां दृषद्वतीम्
पुत्राणां षष्टिसाहस्रं संनतिः सुषुवे शुभा ॥
क्रतोस्तु भार्या सर्वे ते वालखिल्या इति श्रुताः
सिनीवालीं कुहूं चैव राकां चानुमतिं तथा ॥
स्मृतिश् च सुषुवे पत्नी मुनेश्चाङ्गिरसस् तथा
लब्धानुभावमग्निं च कीर्तिमन्तं च सुव्रता ॥
अत्रेर्भार्यानसूया वै सुषुवे षट्प्रजास्तु याः
तास्वेका कन्यका नाम्ना श्रुतिः सा सूनुपञ्चकम् ॥
सत्यनेत्रो मुनिर्भव्यो मूर्तिरापः शनैश्चरः
सोमश् च वै श्रुतिः षष्ठी पञ्चात्रेयास्तु सूनवः ॥
ऊर्जा वसिष्ठाद्वै लेभे सुतांश् च सुतवत्सला
ज्यायसी पुण्डरीकाक्षान् वासिष्ठान् वरलोचना ॥
रजः सुहोत्रो बाहुश् च सवनश्चानघस् तथा
सुतपाः शुक्र इत्येते मुनेर्वै सप्त सूनवः ॥
यश्चाभिमानी भगवान् भवात्मा पैतामहो वह्निरसुः प्रजानाम्
स्वाहा च तस्मात्सुषुवे सुतानां त्रयं त्रयाणां जगतां हिताय ॥
मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0