भाषा

ENहिગુ
ग्रंथ पाठ

लिङ्गपुराण · अध्याय 1.53

1.53.1

प्लक्षद्वीपादिद्वीपेषु सप्त सप्तसु पर्वताः
ऋज्वायताः प्रतिदिशं निविष्टा वर्षपर्वताः ॥

1.53.2

प्लक्षद्वीपे तु वक्ष्यामि सप्त दिव्यान् महाचलान्
गोमेदको ऽत्र प्रथमो द्वितीयश्चान्द्र उच्यते ॥

1.53.3

तृतीयो नारदो नाम चतुर्थो दुन्दुभिः स्मृतः
पञ्चमः सोमको नाम सुमनाः षष्ठ उच्यते ॥

1.53.4

स एव वैभवः प्रोक्तो वैभ्राजः सप्तमः स्मृतः
सप्तैते गिरयः प्रोक्ताः प्लक्षद्वीपे विशेषतः ॥

1.53.5

सप्त वै शाल्मलिद्वीपे तांस्तु वक्ष्याम्यनुक्रमात्
कुमुदश्चोत्तमश्चैव पर्वतश् च बलाहकः ॥

1.53.6

द्रोणः कङ्कश् च महिषः ककुद्मान् सप्तमः स्मृतः
कुशद्वीपे तु सप्तैव द्वीपाश् च कुलपर्वताः ॥

1.53.7

तांस्तु संक्षेपतो वक्ष्ये नाममात्रेण वै क्रमात्
विद्रुमः प्रथमः प्रोक्तो द्वितीयो हेमपर्वतः ॥

1.53.8

तृतीयो द्युतिमान्नाम चतुर्थः पुष्पितः स्मृतः
कुशेशयः पञ्चमस्तु षष्ठो हरिगिरिः स्मृतः ॥

1.53.9

सप्तमो मन्दरः श्रीमान् महादेवनिकेतनम्
मन्दा इति ह्यपां नाम मन्दरो धारणाद् अपाम् ॥

1.53.10

तत्र साक्षाद्वृषाङ्कस्तु विश्वेशो विमलः शिवः
सोमः सनन्दी भगवान् आस्ते हेमगृहोत्तमे ॥

1.53.11

तपसा तोषितः पूर्वं मन्दरेण महेश्वरः
अविमुक्ते महाक्षेत्रे लेभे स परमं वरम् ॥

1.53.12

प्रार्थितश् च महादेवो निवासार्थं सहांबया
अविमुक्तादुपागम्य चक्रे वासं स मन्दरे ॥

1.53.13

सनन्दी सगणः सोमस् तेनासौ तन्न मुञ्चति
क्रौञ्चद्वीपे तु सप्तेह क्रौञ्चाद्याः कुलपर्वताः ॥

1.53.14

क्रौञ्चो वामनकः पश्चात् तृतीयश्चान्धकारकः
अन्धकारात्परश्चापि दिवावृन्नाम पर्वतः ॥

1.53.15

दिवावृतः परश्चापि विविन्दो गिरिरुच्यते
विविन्दात्परतश्चापि पुण्डरीको महागिरिः ॥

1.53.16

पुण्डरीकात्परश्चापि प्रोच्यते दुन्दुभिस्वनः
एते रत्नमयाः सप्त क्रौञ्चद्वीपस्य पर्वताः ॥

1.53.17

शाकद्वीपे च गिरयः सप्त तांस्तु निबोधत
उदयो रैवतश्चापि श्यामको मुनिसत्तमाः ॥

1.53.18

राजतश्च गिरिः श्रीमान् आंबिकेयः सुशोभनः
आंबिकेयात्परो रम्यः सर्वौषधिसमन्वितः ॥

1.53.19

तथैव केसरीत्युक्तो यतो वायुः प्रजायते
पुष्करे पर्वतः श्रीमान् एक एव महाशिलः ॥

1.53.20

चित्रैर्मणिमयैः कूटैः शिलाजालैः समुच्छ्रितैः
द्वीपस्य तस्य पूर्वार्धे चित्रसानुस्थितो महान् ॥

1.53.21

योजनानां सहस्राणि ऊर्ध्वं पञ्चाशदुच्छ्रितः
अधश्चैव चतुस्त्रिंशत् सहस्राणि महाचलः ॥

1.53.22

द्वीपस्यार्धे परिक्षिप्तः पर्वतो मानसोत्तरः
स्थितो वेलासमीपे तु नवचन्द्र इवोदितः ॥

1.53.23

योजनानां सहस्राणि ऊर्ध्वं पञ्चाशदुच्छ्रितः
तावदेव तु विस्तीर्णः पार्श्वतः परिमण्डलः ॥

1.53.24

स एव द्वीपपश्चार्धे मानसः पृथिवीधरः
एक एव महासानुः संनिवेशाद्द्विधा कृतः ॥

1.53.25

तस्मिन्द्वीपे स्मृतौ द्वौ तु पुण्यौ जनपदौ शुभौ
राजतौ मानसस्याथ पर्वतस्यानुमण्डलौ ॥

1.53.26

महावीतं तु यद्वर्षं बाह्यतो मानसस्य तु
तस्यैवाभ्यन्तरो यस्तु धातकीखण्ड उच्यते ॥

1.53.27

स्वादूदकेनोदधिना पुष्करः परिवारितः
पुष्करद्वीपविस्तार विस्तीर्णो ऽसौ समन्ततः ॥

1.53.28

विस्तारान्मण्डलाच्चैव पुष्करस्य समेन तु
एवं द्वीपाः समुद्रैस्तु सप्तसप्तभिर् आवृताः ॥

1.53.29

द्वीपस्यानन्तरो यस्तु समुद्रः सप्तमस्तु वै
एवं द्वीपसमुद्राणां वृद्धिर्ज्ञेया परस्परम् ॥

1.53.30

परेण पुष्करस्याथ अनुवृत्य स्थितो महान्
स्वादूदकसमुद्रस्तु समन्तात्परिवेष्ट्य च ॥

1.53.31

परेण तस्य महती दृश्यते लोकसंस्थितिः
काञ्चनी द्विगुणा भूमिः सर्वा चैकशिलोपमा ॥

1.53.32

तस्याः परेण शैलस्तु मर्यादापारमण्डलः
प्रकाशश्चाप्रकाशश् च लोकालोकः स उच्यते ॥

1.53.33

दृश्यादृश्यगिरिर् यावत् तावदेषा धरा द्विजाः
योजनानां सहस्राणि दश तस्योच्छ्रयः स्मृतः ॥

1.53.34

तावांश् च विस्तरस्तस्य लोकालोकमहागिरेः
अर्वाचीने तु तस्यार्धे चरन्ति रविरश्मयः ॥

1.53.35

परार्धे तु तमो नित्यं लोकालोकस्ततः स्मृतः
एवं संक्षेपतः प्रोक्तो भूर्लोकस्य च विस्तरः ॥

1.53.36

आ भानोर्वै भुवः स्वस्तु आ ध्रुवान्मुनिसत्तमाः
आवहाद्या निविष्टास्तु वायोर्वै सप्त नेमयः ॥

1.53.37

आवहः प्रवहश्चैव ततश्चानुवहस् तथा
संवहो विवहश्चाथ ततश्चोर्ध्वं परावहः ॥

1.53.38

द्विजाः परिवहश्चेति वायोर्वै सप्त नेमयः
बलाहकास् तथा भानुश् चन्द्रो नक्षत्रराशयः ॥

1.53.39

ग्रहाणि ऋषयः सप्त ध्रुवो विप्राः क्रमादिह
योजनानां महीपृष्ठाद् ऊर्ध्वं पञ्चदश आ ध्रुवात् ॥

1.53.40

नियुतान्येकनियुतं भूपृष्ठाद्भानुमण्डलम्
रथः षोडशसाहस्रो भास्करस्य तथोपरि ॥

1.53.41

चतुरशीतिसाहस्रो मेरुश्चोपरि भूतलात्
कोटियोजनमाक्रम्य महर्लोको ध्रुवाद्ध्रुवः ॥

1.53.42

जनलोको महर्लोकात् तथा कोटिद्वयं द्विजाः
जनलोकात्तपोलोकश् चतस्रः कोटयो मतः ॥

1.53.43

प्राजापत्याद्ब्रह्मलोकः कोटिषट्कं विसृज्य तु
पुण्यलोकास्तु सप्तैते ह्य् अण्डे ऽस्मिन्कथिता द्विजाः ॥

1.53.44

अधः सप्ततलानां तु नरकाणां हि कोटयः
मायान्ताश्चैव घोराद्या अष्टाविंशतिरेव तु ॥

1.53.45

पापिनस्तेषु पच्यन्ते स्वस्वकर्मानुरूपतः
अवीच्यन्तानि सर्वाणि रौरवाद्यानि तेषु च ॥

1.53.46

प्रत्येकं पञ्चकान्याहुर् नरकाणि विशेषतः
अण्डमादौ मया प्रोक्तम् अण्डस्यावरणानि च ॥

1.53.47

हिरण्यगर्भसर्गश् च प्रसंगाद्बहुविस्तरात्
अण्डानामीदृशानां तु कोट्यो ज्ञेयाः सहस्रशः ॥

1.53.48

सर्वगत्वात् प्रधानस्य तिर्यग् ऊर्ध्वम् अधस् तथा
अण्डेष्वेतेषु सर्वेषु भुवनानि चतुर्दश ॥

1.53.49

प्रत्यण्डं द्विजशार्दूलास् तेषां हेतुर्महेश्वरः
अण्डेषु चाण्डबाह्येषु तथाण्डावरणेषु च ॥

1.53.50

तमो ऽन्ते च तमःपारे चाष्टमूर्तिर्व्यवस्थितः
अस्यात्मनो महेशस्य महादेवस्य धीमतः ॥

1.53.51

अदेहिनस् त्वहो देहम् अखिलं परमात्मनः
अस्याष्टमूर्तेः शर्वस्य शिवस्य गृहमेधिनः ॥

1.53.52

गृहिणी प्रकृतिर्दिव्या प्रजाश् च महदादयः
पशवः किङ्करास्तस्य सर्वे देहाभिमानिनः ॥

1.53.53

आद्यन्तहीनो भगवान् अनन्तः पुमान्प्रधानप्रमुखाश् च सप्त
प्रधानमूर्तिस्त्वथ षोडशाङ्गो महेश्वरश्चाष्टतनुः स एव ॥

1.53.54

आज्ञाबलात्तस्य धरा स्थितेह धराधरा वारिधराः समुद्राः
ज्योतिर्गणः शक्रमुखाः सुराश् च वैमानिकाः स्थावरजङ्गमाश् च ॥

1.53.55

दृष्ट्वा यक्षं लक्षणैर्हीनमीशं दृष्ट्वा सेन्द्रास्ते किमेतत्त्विहेति
यक्षं गत्वा निश्चयात्पावकाद्याः शक्तिक्षीणाश्चाभवन् यत्ततो ऽपि ॥

1.53.56

दग्धुं तृणं वापि समक्षमस्य यक्षस्य वह्निर्न शशाक विप्राः
वायुस्तृणं चालयितुं तथान्ये स्वान्स्वान्प्रभावान् सकलामरेन्द्राः ॥

1.53.57

तदा स्वयं वृत्ररिपुः सुरेन्द्रैः सुरेश्वरः सर्वसमृद्धिहेतुः
सुरेश्वरं यक्षमुवाच को वा भवानितीत्थं स कुतूहलात्मा ॥

1.53.58

तदा ह्यदृश्यं गत एव यक्षस् तदांबिका हैमवती शुभास्या
उमा शुभैराभरणैरनेकैः सुशोभमाना त्वनु चाविरासीत् ॥

1.53.59

किमेतदीशे बहुशोभमाने वांबिके यक्षवपुश्चकास्ति ॥

1.53.60

प्रणेमुरेनां मृगराजगामिनीमुमामजां लोहितशुक्लकृष्णाम् ॥

1.53.61

संभाविता सा सकलामरेन्द्रैः सर्वप्रवृत्तिस्तु सुरासुराणाम्
अहं पुरासं प्रकृतिश् च पुंसो यक्षस्य चाज्ञावशगेत्यथाह ॥

1.53.62

तस्माद्द्विजाः सर्वमजस्य तस्य नियोगतश्चाण्डमभूदजाद्वै
अजश् च अण्डादखिलं च तस्माज् ज्योतिर्गणैर्लोकमजात्मकं तत् ॥

मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc