लिङ्गपुराण · अध्याय 1.52
नद्यश् च बहवः प्रोक्ताः सदा बहुजलाः शुभाः
सरोवरेभ्यः सम्भूतास् त्व् असंख्याता द्विजोत्तमाः ॥
प्राङ्मुखा दक्षिणास्यास्तु चोत्तरप्रभवाः शुभाः
पश्चिमाग्राः पवित्राश् च प्रतिवर्षं प्रकीर्तिताः ॥
आकाशांभोनिधिर् यो ऽसौ सोम इत्यभिधीयते
आधारः सर्वभूतानां देवानाममृताकरः ॥
अस्मात्प्रवृत्ता पुण्योदा नदी त्वाकाशगामिनी
सप्तमेनानिलपथा प्रवृत्ता चामृतोदका ॥
सा ज्योतींष्यनुवर्तन्ती ज्योतिर्गणनिषेविता
ताराकोटिसहस्राणां नभसश् च समायुता ॥
परिवर्तत्यहरहो यथा सोमस्तथैव सा
चत्वार्यशीतिश् च तथा सहस्राणां समुच्छ्रितः ॥
योजनानां महामेरुः श्रीकण्ठाक्रीडकोमलः
तत्रासीनो यतः शर्वः साम्बः सह गणेश्वरैः ॥
क्रीडते सुचिरं कालं तस्मात्पुण्यजला शिवा
गिरिं मेरुं नदी पुण्या सा प्रयाति प्रदक्षिणम् ॥
विभज्यमानसलिला सा जवेनानिलेन च
मेरोरन्तरकूटेषु निपपात चतुर्ष्वपि ॥
समन्तात्समतिक्रम्य सर्वाद्रीन्प्रविभागशः
नियोगाद्देवदेवस्य प्रविष्टा सा महार्णवम् ॥
अस्या विनिर्गता नद्यः शतशो ऽथ सहस्रशः
सर्वद्वीपाद्रिवर्षेषु बहवः परिकीर्तिताः ॥
क्षुद्रनद्यस्त्वसंख्याता गङ्गा यद्गाङ्गताम्बरात्
केतुमाले नराः कालाः सर्वे पनसभोजनाः ॥
स्त्रियश्चोत्पलवर्णाभा जीवितं चायुतं स्मृतम्
भद्राश्वे शुक्लवर्णाश् च स्त्रियश्चन्द्रांशुसंनिभाः ॥
कालाम्रभोजनाः सर्वे निरातङ्का रतिप्रियाः
दशवर्षसहस्राणि जीवन्ति शिवभाविताः ॥
हिरण्मया इवात्यर्थम् ईश्वरार्पितचेतसः
तथा रमणके जीवा न्यग्रोधफलभोजनाः ॥
दशवर्षसहस्राणि शतानि दशपञ्च च
जीवन्ति शुक्लास्ते सर्वे शिवध्यानपरायणाः ॥
हैरण्मया महाभागा हिरण्मयवनाश्रयाः
एकादश सहस्राणि शतानि दशपञ्च च ॥
वर्षाणां तत्र जीवन्ति अश्वत्थाशनजीवनाः
हैरण्मया इवात्यर्थम् ईश्वरार्पितमानसाः ॥
कुरुवर्षे तु कुरवः स्वर्गलोकात् परिच्युताः
सर्वे मैथुनजाताश् च क्षीरिणः क्षीरभोजनाः ॥
अन्योन्यमनुरक्ताश् च चक्रवाकसधर्मिणः
अनामया ह्यशोकाश् च नित्यं सुखनिषेविणः ॥
त्रयोदशसहस्राणि शतानि दशपञ्च च
जीवन्ति ते महावीर्या न चान्यस्त्रीनिषेविणः ॥
सहैव मरणं तेषां कुरूणां स्वर्गवासिनाम्
हृष्टानां सुप्रवृद्धानां सर्वान्नामृतभोजिनाम् ॥
सदा तु चन्द्रकान्तानां सदा यौवनशालिनाम्
श्यामाङ्गानां सदा सर्व भूषणास्पददेहिनाम् ॥
जंबूद्वीपे तु तत्रापि कुरुवर्षं सुशोभनम्
तत्र चन्द्रप्रभं शम्भोर् विमानं चन्द्रमौलिनः ॥
वर्षे तु भारते मर्त्याः पुण्याः कर्मवशायुषः
शतायुषः समाख्याता नानावर्णाल्पदेहिनः ॥
नानादेवार्चने युक्ता नानाकर्मफलाशिनः
नानाज्ञानार्थसम्पन्ना दुर्बलाश्चाल्पभोगिनः ॥
इन्द्रद्वीपे तथा केचित् तथैव च कसेरुके
ताम्रद्वीपं गताः केचित् केचिद्देशं गभस्तिमत् ॥
नागद्वीपं तथा सौम्यं गान्धर्वं वारुणं गताः
केचिन्म्लेच्छाः पुलिन्दाश् च नानाजातिसमुद्भवाः ॥
पूर्वे किरातास्तस्यान्ते पश्चिमे यवनाः स्मृताः
ब्राह्मणाः क्षत्रिया वैश्या मध्ये शूद्राश् च सर्वशः ॥
इज्यायुद्धवणिज्याभिर् वर्तयन्तो व्यवस्थिताः
तेषां संव्यवहारो ऽयं वर्तते ऽत्र परस्परम् ॥
धर्मार्थकामसंयुक्तो वर्णानां तु स्वकर्मसु
संकल्पश्चाभिमानश् च आश्रमाणां यथाविधि ॥
इह स्वर्गापवर्गार्थं प्रवृत्तिर्यत्र मानुषी
तेषां च युगकर्माणि नान्यत्र मुनिपुङ्गवाः ॥
दशवर्षसहस्राणि स्थितिः किंपुरुषे नृणाम्
सुवर्णवर्णाश् च नराः स्त्रियश्चाप्सरसोपमाः ॥
अनामया ह्यशोकाश् च सर्वे ते शिवभाविताः
शुद्धसत्त्वाश् च हेमाभाः सदाराः प्लक्षभोजनाः ॥
महारजतसंकाशा हरिवर्षे ऽपि मानवाः
देवलोकाच्च्युताः सर्वे देवाकाराश् च सर्वशः ॥
हरं यजन्ति सर्वेशं पिबन्तीक्षुरसं शुभम्
न जरा बाधते तेन न च जीर्यन्ति ते नराः ॥
दशवर्षसहस्राणि तत्र जीवन्ति मानवाः
मध्यमं यन्मया प्रोक्तं नाम्ना वर्षमिलावृतम् ॥
न तत्र सूर्यस्तपति न ते जीर्यन्ति मानवाः
चन्द्रसूर्यौ न नक्षत्रं न प्रकाशम् इलावृते ॥
पद्मप्रभाः पद्ममुखाः पद्मपत्त्रनिभेक्षणाः
पद्मपत्त्रसुगन्धाश् च जायन्ते भवभाविताः ॥
जम्बूफलरसाहारा अनिष्पन्दाः सुगन्धिनः
देवलोकागतास्तत्र जायन्ते ह्यजरामराः ॥
त्रयोदशसहस्राणि वर्षाणां ते नरोत्तमाः
आयुःप्रमाणं जीवन्ति वर्षे दिव्ये त्विलावृते ॥
जंबूफलरसं पीत्वा न जरा बाधते त्विमान्
न क्षुधा न क्लमश्चापि न जनो मृत्युमांस् तथा ॥
तत्र जाम्बूनदं नाम कनकं देवभूषणम्
इन्द्रगोपप्रतीकाशं जायते भास्वरं तु तत् ॥
एवं मया समाख्याता नववर्षानुवर्तिनः
वर्णायुर्भोजनाद्यानि संक्षिप्य न तु विस्तरात् ॥
हेमकूटे तु गन्धर्वा विज्ञेयाश्चाप्सरोगणाः
सर्वे नागाश् च निषधे शेषवासुकितक्षकाः ॥
महाबलास् त्रयस्त्रिंशद् रमन्ते याज्ञिकाः सुराः
नीले तु वैडूर्यमये सिद्धा ब्रह्मर्षयो ऽमलाः ॥
दैत्यानां दानवानां च श्वेतः पर्वत उच्यते
शृङ्गवान् पर्वतश्चैव पितॄणां निलयः सदा ॥
हिमवान् यक्षमुख्यानां भूतानाम् ईश्वरस्य च
सर्वाद्रिषु महादेवो हरिणा ब्रह्मणांबया ॥
नन्दिना च गणैश्चैव वर्षेषु च वनेषु च
नीलश्वेतत्रिशृङ्गे च भगवान्नीललोहितः ॥
सिद्धैर्देवैश् च पितृभिर् दृष्टो नित्यं विशेषतः
नीलश् च वैडूर्यमयः श्वेतः शुक्लो हिरण्मयः ॥
मयूरबर्हवर्णस्तु शातकुंभस् त्रिशृङ्गवान्
एते पर्वतराजानो जंबूद्वीपे व्यवस्थिताः ॥
मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0