भाषा

ENहिગુ
ग्रंथ पाठ

लिङ्गपुराण · अध्याय 1.51

1.51.1

देवकूटे गिरौ मध्ये महाकूटे सुशोभने
हेमवैडूर्यमाणिक्य नीलगोमेदकान्तिभिः ॥

1.51.2

तथान्यैर्मणिमुख्यैश् च निर्मिते निर्मले शुभे
शाखाशतसहस्राढ्ये सर्वद्रुमविभूषिते ॥

1.51.3

चम्पकाशोकपुंनाग वकुलासनमण्डिते
पारिजातकसम्पूर्णे नानापक्षिगणान्विते ॥

1.51.4

नैकधातुशतैश्चित्रे विचित्रकुसुमाकुले
नितम्बपुष्पसालम्बेन् -ऐकसत्त्वगणान्विते ॥

1.51.5

विमलस्वादुपानीयेन् -ऐकप्रस्रवणैर्युते
निर्झरैः कुसुमाकीर्णैर् अनेकैश् च विभूषिते ॥

1.51.6

पुष्पोडुपवहाभिश् च स्रवन्तीभिर् अलंकृते
स्निग्धवर्णं महामूलम् अनेकस्कन्धपादपम् ॥

1.51.7

रम्यं ह्यविरलच्छायं दशयोजनमण्डलम्
तत्र भूतवनं नाम नानाभूतगणालयम् ॥

1.51.8

महादेवस्य देवस्य शङ्करस्य महात्मनः
दीप्तमायतनं तत्र महामणिविभूषितम् ॥

1.51.9

हेमप्राकारसंयुक्तं मणितोरणमण्डितम्
स्फाटिकैश् च विचित्रैश् च गोपुरैश् च समन्वितम् ॥

1.51.10

सिंहासनैर्मणिमयैः शुभास्तरणसंयुतैः
क्षितावितस्ततः सम्यक् शर्वेणाधिष्ठितैः शुभैः ॥

1.51.11

अम्लानमालानिचितैर् नानावर्णैर् गृहोत्तमैः
मण्डपैः सुविचित्रैस् तु स्फाटिकस्तम्भसंयुतैः ॥

1.51.12

संयुतं सर्वभूतेन्द्रैर् ब्रह्मेन्द्रोपेन्द्रपूजितैः
वराहगजसिंहर्क्ष शार्दूलकरभाननैः ॥

1.51.13

गृध्रोलूकमुखैश्चान्यैर् मृगोष्ट्राजमुखैरपि
प्रमथैर्विविधैः स्थूलैर् गिरिकूटोपमैः शुभैः ॥

1.51.14

करालैर्हरिकेशैश् च रोमशैश् च महाभुजैः
नानावर्णाकृतिधरैर् नानासंस्थानसंस्थितैः ॥

1.51.15

दीप्तास्यैर् दीप्तचरितैर् नन्दीश्वरमुखैः शुभैः
ब्रह्मेन्द्रविष्णुसंकाशैर् अणिमादिगुणान्वितैः ॥

1.51.16

अशून्यममरैर्नित्यं महापरिषदैस् तथा
तत्र भूतपतेर्देवाः पूजां नित्यं प्रयुञ्जते ॥

1.51.17

झर्झरैः शङ्खपटहैर् भेरीडिण्डिमगोमुखैः
ललितावसितोद्गीतैर् वृत्तवल्गितगर्जितैः ॥

1.51.18

पूजितो वै महादेवः प्रमथैः प्रमथेश्वरः
सिद्धर्षिदेवगन्धर्वैर् ब्रह्मणा च महात्मना ॥

1.51.19

उपेन्द्रप्रमुखैश्चान्यैः पूजितस्तत्र शंकरः
विभक्तचारुशिखरं यत्र तच्छङ्खवर्चसम् ॥

1.51.20

कैलासो यक्षराजस्य कुबेरस्य महात्मनः
निवासः कोटियक्षाणां तथान्येषां महात्मनाम् ॥

1.51.21

तत्रापि देवदेवस्य भवस्यायतनं महत्
तस्मिन्नायतने सोमः सदास्ते सगणो हरः ॥

1.51.22

यत्र मन्दाकिनी नाम नलिनी विपुलोदका
सुवर्णमणिसोपाना कुबेरशिखरे शुभे ॥

1.51.23

जांबूनदमयैः पद्मैर् गन्धस्पर्शगुणान्वितैः
नीलवैडूर्यपत्रैश् च गन्धोपेतैर्महोत्पलैः ॥

1.51.24

तथा कुमुदषण्डैश् च महापद्मैर् अलंकृता
यक्षगन्धर्वनारीभिर् अप्सरोभिश् च सेविता ॥

1.51.25

देवदानवगन्धर्वैर् यक्षराक्षसकिन्नरैः
उपस्पृष्टजला पुण्या नदी मन्दाकिनी शुभा ॥

1.51.26

तस्याश्चोत्तरपार्श्वे तु भवस्यायतनं शुभम्
वैडूर्यमणिसम्पन्नं तत्रास्ते शङ्करो ऽव्ययः ॥

1.51.27

द्विजाः कनकनन्दायास् तीरे वै प्राचि दक्षिणे
वनं द्विजसहस्राढ्यं मृगपक्षिसमाकुलम् ॥

1.51.28

तत्रापि सगणः साम्बः क्रीडते ऽद्रिसमे गृहे
नन्दायाः पश्चिमे तीरे किंचिद् वै दक्षिणाश्रिते ॥

1.51.29

पुरं रुद्रपुरी नाम नानाप्रासादसंकुलम्
तत्रापि शतधा कृत्वा ह्य् आत्मानं चाम्बया सह ॥

1.51.30

क्रीडते सगणः साम्बस् तच्छिवालयम् उच्यते
एवं शतसहस्राणि शर्वस्यायतनानि तु ॥

1.51.31

प्रतिद्वीपे मुनिश्रेष्ठाः पर्वतेषु वनेषु च
नदीनदतटाकानां तीरेष्वर्णवसंधिषु ॥

मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc