भाषा

ENहिગુ
ग्रंथ पाठ

लिङ्गपुराण · अध्याय 1.50

1.50.1

शितान्तशिखरे शक्रः पारिजातवने शुभे
तस्य प्राच्यां कुमुदाद्रि कूटो ऽसौ बहुविस्तरः ॥

1.50.2

अष्टौ पुराण्युदीर्णानि दानवानां द्विजोत्तमाः
सुवर्णकोटरे पुण्ये राक्षसानां महात्मनाम् ॥

1.50.3

नीलकानां पुराण्याहुर् अष्टषष्टिर्द्विजोत्तमाः
महानीले ऽपि शैलेन्द्रे पुराणि दश पञ्च च ॥

1.50.4

हयाननानां मुख्यानां किन्नराणां च सुव्रताः
वेणुसौधे महाशैले विद्याधरपुरत्रयम् ॥

1.50.5

वैकुण्ठे गरुडः श्रीमान् करञ्जे नीललोहितः
वसुधारे वसूनां तु निवासः परिकीर्तितः ॥

1.50.6

रत्नधारे गिरिवरे सप्तर्षीणां महात्मनाम्
सप्तस्थानानि पुण्यानि सिद्धावासयुतानि च ॥

1.50.7

महत्प्रजापतेः स्थानम् एकशृङ्गे नगोत्तमे
गजशैले तु दुर्गाद्याः सुमेधे वसवस् तथा ॥

1.50.8

आदित्याश् च तथा रुद्राः कृतावासास्तथाश्विनौ
अशीतिर्देवपुर्यस्तु हेमकक्षे नगोत्तमे ॥

1.50.9

सुनीले रक्षसां वासाः पञ्चकोटिशतानि च
पञ्चकूटे पुराण्यासन् पञ्चकोटिप्रमाणतः ॥

1.50.10

शतशृङ्गे पुरशतं यक्षाणाममितौजसाम्
ताम्राभे काद्रवेयाणां विशाखे तु गुहस्य वै ॥

1.50.11

श्वेतोदरे मुनिश्रेष्ठाः सुपर्णस्य महात्मनः
पिशाचके कुबेरस्य हरिकूटे हरेर्गृहम् ॥

1.50.12

कुमुदे किंनरावासस् त्व् अञ्जने चारणालयः
कृष्णे गन्धर्वनिलयः पाण्डुरे पुरसप्तकम् ॥

1.50.13

विद्याधराणां विप्रेन्द्रा विश्वभोगसमन्वितम्
सहस्रशिखरे शैले दैत्यानामुग्रकर्मणाम् ॥

1.50.14

पुराणां तु सहस्राणि सप्त शक्रारिणां द्विजाः
मुकुटे पन्नगावासः पुष्पकेतौ मुनीश्वराः ॥

1.50.15

वैवस्वतस्य सोमस्य वायोर्नागाधिपस्य च
तक्षके चैव शैलेन्द्रे चत्वार्यायतनानि च ॥

1.50.16

ब्रह्मेन्द्रविष्णुरुद्राणां गुहस्य च महात्मनः
कुबेरस्य च सोमस्य तथान्येषां महात्मनाम् ॥

1.50.17

सन्त्यायतनमुख्यानि मर्यादापर्वतेष्वपि
श्रीकण्ठाद्रिगुहावासी सर्वावासः सहोमया ॥

1.50.18

श्रीकण्ठस्याधिपत्यं वै सर्वदेवेश्वरस्य च
अण्डस्यास्य प्रवृत्तिस्तु श्रीकण्ठेन न संशयः ॥

1.50.19

अनन्तेशादयस्त्वेवं प्रत्येकं चाण्डपालकाः
चक्रवर्तिन इत्युक्तास् ततो विद्येश्वरास्त्विह ॥

1.50.20

श्रीकण्ठाधिष्ठितान्यत्र स्थानानि च समासतः
मर्यादापर्वतेष्वद्य शृण्वन्तु प्रवदाम्य् अहम् ॥

1.50.21

श्रीकण्ठाधिष्ठितं विश्वं चराचरमिदं जगत्
कालाग्निशिवपर्यन्तं कथं वक्ष्ये सविस्तरम् ॥

मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc