भाषा

ENहिગુ
ग्रंथ पाठ

लिङ्गपुराण · अध्याय 1.49

1.49.1

शतमेकं सहस्राणां योजनानां स तु स्मृतः
अनु द्वीपं सहस्राणां द्विगुणं द्विगुणोत्तरम् ॥

1.49.2

पञ्चाशत्कोटिविस्तीर्णा ससमुद्रा धरा स्मृता
द्वीपैश् च सप्तभिर् युक्ता लोकालोकावृता शुभा ॥

1.49.3

नीलस्तथोत्तरे मेरोः श्वेतस्तस्योत्तरे पुनः
शृङ्गी तस्योत्तरे विप्रास् त्रयस्ते वर्षपर्वताः ॥

1.49.4

जठरो देवकूटश् च पूर्वस्यां दिशि पर्वतौ
निषधो दक्षिणे मेरोस् तस्य दक्षिणतो गिरिः
हेमकूट इति ख्यातो हिमवांस्तस्य दक्षिणे ॥

1.49.5

मेरोः पश्चिमतश्चैव पर्वतौ द्वौ धराधरौ
माल्यवान्गन्धमादश् च द्वावेतावुदगायतौ ॥

1.49.6

एते पर्वतराजानः सिद्धचारणसेविताः
तेषाम् अन्तरविष्कम्भो नवसाहस्रमेकशः ॥

1.49.7

इदं हैमवतं वर्षं भारतं नाम विश्रुतम्
हेमकूटं परं तस्मान् नाम्ना किंपुरुषं स्मृतम् ॥

1.49.8

नैषधं हेमकूटात्तु हरिवर्षं तदुच्यते
हरिवर्षात्परं चैव मेरोः शुभमिलावृतम् ॥

1.49.9

इलावृतात्परं नीलं रम्यकं नाम विश्रुतम्
रम्यात्परतरं श्वेतं विख्यातं तद्धिरण्मयम् ॥

1.49.10

हिरण्मयात्परं चापि शृङ्गी चैव कुरुः स्मृतः
धनुःसंस्थे तु विज्ञेये द्वे वर्षे दक्षिणोत्तरे ॥

1.49.11

दीर्घाणि तत्र चत्वारि मध्यतस्तदिलावृतम्
मेरोः पश्चिमपूर्वेण द्वे तु दीर्घेतरे स्मृते ॥

1.49.12

अर्वाक्तु निषधस्याथ वेद्यर्धं चोत्तरं स्मृतम्
वेद्यर्धे दक्षिणे त्रीणि वर्षाणि त्रीणि चोत्तरे ॥

1.49.13

तयोर्मध्ये च विज्ञेयं मेरुमध्यमिलावृतम्
दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु ॥

1.49.14

उदगायतो महाशैलो माल्यवान्नाम पर्वतः
योजनानां सहस्रे द्वे उपरिष्टात्तु विस्तृतः ॥

1.49.15

आयामतश्चतुस्त्रिंशत् सहस्राणि प्रकीर्तितः
तस्य प्रतीच्यां विज्ञेयः पर्वतो गन्धमादनः ॥

1.49.16

आयामतः स विज्ञेयो माल्यवानिव विस्तृतः
जम्बूद्वीपस्य विस्तारात् समेन तु समन्ततः ॥

1.49.17

प्रागायताः सुपर्वाणः षडेते वर्षपर्वताः
अवगाढाश्चोभयतः समुद्रौ पूर्वपश्चिमौ ॥

1.49.18

हिमप्रायस्तु हिमवान् हेमकूटस्तु हेमवान्
तरुणादित्यसंकाशो हैरण्यो निषधः स्मृतः ॥

1.49.19

चतुर्वर्णः ससौवर्णो मेरुश्चोर्ध्वायतः स्मृतः
वृत्ताकृतिपरीणाहश् चतुरस्रः समुत्थितः ॥

1.49.20

नीलश् च वैडूर्यमयः श्वेतः शुक्लो हिरण्मयः
मयूरबर्हवर्णस्तु शातकुंभस् त्रिशृङ्गवान् ॥

1.49.21

एवं संक्षेपतः प्रोक्ताः पुनः शृणु गिरीश्वरान्
मन्दरो देवकूटश् च पूर्वस्यां दिशि पर्वतौ ॥

1.49.22

कैलासो गन्धमादश् च हेमवांश्चैव पर्वतौ
पूर्वतश् चायतावेताव् अर्णवान्तर्व्यवस्थितौ ॥

1.49.23

निषधः पारियात्रश् च द्वावेतौ वरपर्वतौ
यथा पूर्वौ तथा याम्याव् एतौ पश्चिमतः श्रितौ ॥

1.49.24

त्रिशृङ्गो जारुचिश्चैव उत्तरौ वरपर्वतौ
पूर्वतश् चायतावेताव् अर्णवान्तर्व्यवस्थितौ ॥

1.49.25

मर्यादापर्वतान् एतान् अष्टावाहुर्मनीषिणः
यो ऽसौ मेरुर्द्विजश्रेष्ठाः प्रांशुः कनकपर्वतः ॥

1.49.26

तस्य पादास्तु चत्वारश् चतुर्दिक्षु नगोत्तमाः
यैर्विष्टब्धा न चलति सप्तद्वीपवती मही ॥

1.49.27

दशयोजनसाहस्रम् आयामस् तेषु पठ्यते
पूर्वे तु मन्दरो नाम दक्षिणे गन्धमादनः ॥

1.49.28

विपुलः पश्चिमे पार्श्वे सुपार्श्वश्चोत्तरे स्मृतः
महावृक्षाः समुत्पन्नाश् चत्वारो द्वीपकेतवः ॥

1.49.29

मन्दरस्य गिरेः शृङ्गे महावृक्षः सकेतुराट्
प्रलम्बशाखाशिखरः कदम्बश् चैत्यपादपः ॥

1.49.30

दक्षिणस्यापि शैलस्य शिखरे देवसेविता
जम्बूः सदा पुण्यफला सदा माल्योपशोभिता ॥

1.49.31

सकेतुर् दक्षिणे द्वीपे जम्बूर्लोकेषु विश्रुता
विपुलस्यापि शैलस्य पश्चिमे च महात्मनः ॥

1.49.32

संजातः शिखरे ऽश्वत्थः स महान् चैत्यपादपः
सुपार्श्वस्योत्तरस्यापि शृङ्गे जातो महाद्रुमः ॥

1.49.33

न्यग्रोधो विपुलस्कन्धो ऽनेकयोजनमण्डलः
तेषां चतुर्णां वक्ष्यामि शैलेन्द्राणां यथाक्रमम् ॥

1.49.34

अमानुष्याणि रम्याणि सर्वकालर्तुकानि च
मनोहराणि चत्वारि देवक्रीडनकानि च ॥

1.49.35

वनानि वै चतुर्दिक्षु नामतस्तु निबोधत
पूर्वे चैत्ररथं नाम दक्षिणे गन्धमादनम् ॥

1.49.36

वैभ्राजं पश्चिमे विद्याद् उत्तरे सवितुर्वनम्
मित्रेश्वरं तु पूर्वे तु षष्ठेश्वरम् अतः परम् ॥

1.49.37

वर्येश्वरं पश्चिमे तु उत्तरे चाम्रकेश्वरम्
महासरांसि च तथा चत्वारि मुनिपुङ्गवाः ॥

1.49.38

यत्र क्रीडन्ति मुनयः पर्वतेषु वनेषु च
अरुणोदं सरः पूर्वं दक्षिणं मानसं स्मृतम् ॥

1.49.39

सितोदं पश्चिमसरो महाभद्रं तथोत्तरम्
शाखस्य दक्षिणे क्षेत्रं विशाखस्य च पश्चिमे ॥

1.49.40

उत्तरे नैगमेयस्य कुमारस्य च पूर्वतः
अरुणोदस्य पूर्वेण शैलेन्द्रा नामतः स्मृताः ॥

1.49.41

तांस्तु संक्षेपतो वक्ष्ये न शक्यं विस्तरेण तु
सितान्तश् च कुरण्डश् च कुररश्चाचलोत्तमः ॥

1.49.42

विकरो मणिशैलश् च वृक्षवांश्चाचलोत्तमः
महानीलो ऽथ रुचकः सबिन्दुर्दर्दुरस् तथा ॥

1.49.43

वेणुमांश् च समेघश् च निषधो देवपर्वतः
इत्येते पर्वतवरा ह्य् अन्ये च गिरयस् तथा ॥

1.49.44

पूर्वेण मन्दरस्यैते सिद्धावासा उदाहृताः
तेषु तेषु गिरीन्द्रेषु गुहासु च वनेषु च ॥

1.49.45

रुद्रक्षेत्राणि दिव्यानि विष्णोर्नारायणस्य च
सरसो मानसस्येह दक्षिणेन महाचलाः ॥

1.49.46

ये कीर्त्यमानास्तान्सर्वान् संक्षिप्य प्रवदाम्यहम्
शैलश् च विशिराश्चैव शिखरश्चाचलोत्तमः ॥

1.49.47

एकशृङ्गो महाशूलो गजशैलः पिशाचकः
पञ्चशैलो ऽथ कैलासो हिमवांश्चाचलोत्तमः ॥

1.49.48

इत्येते देवचरिता उत्कटाः पर्वतोत्तमाः
तेषु तेषु च सर्वेषु पर्वतेषु वनेषु च ॥

1.49.49

रुद्रक्षेत्राणि दिव्यानि स्थापितानि सुरोत्तमैः
दिग्भागे दक्षिणे प्रोक्ताः पश्चिमे च वदामि वः ॥

1.49.50

अपरेण सितोदश् च सुरपश् च महाबलः
कुमुदो मधुमांश्चैव ह्य् अञ्जनो मुकुटस् तथा ॥

1.49.51

कृष्णश् च पाण्डुरश्चैव सहस्रशिखरश् च यः
पारिजातश् च शैलेन्द्रः श्रीशृङ्गश्चाचलोत्तमः ॥

1.49.52

इत्येते देवचरिता उत्कटाः पर्वतोत्तमाः
सर्वे पश्चिमदिग्भागे रुद्रक्षेत्रसमन्विताः ॥

1.49.53

महाभद्रस्य सरसश् चोत्तरे च महाबलाः
ये स्थिताः कीर्त्यमानांस्तान् संक्षिप्येह निबोधत ॥

1.49.54

शङ्खकूटो महाशैलो वृषभो हंसपर्वतः
नागश् च कपिलश्चैव इन्द्रशैलश् च सानुमान् ॥

1.49.55

नीलः कण्टकशृङ्गश् च शतशृङ्गश् च पर्वतः
पुष्पकोशः प्रशैलश् च विरजश्चाचलोत्तमः ॥

1.49.56

वराहपर्वतश्चैव मयूरश्चाचलोत्तमः
जारुधिश्चैव शैलेन्द्र एत उत्तरसंस्थिताः ॥

1.49.57

तेषु शैलेषु दिव्येषु देवदेवस्य शूलिनः
असंख्यातानि दिव्यानि विमानानि सहस्रशः ॥

1.49.58

एतेषां शैलमुख्यानाम् अन्तरेषु यथाक्रमम्
सन्ति चैवान्तरद्रोण्यः सरांस्युपवनानि च ॥

1.49.59

वसन्ति देवा मुनयः सिद्धाश् च शिवभाविताः
कृतवासाः सपत्नीकाः प्रसादात्परमेष्ठिनः ॥

1.49.60

लक्ष्म्याद्यानां बिल्ववने ककुभे कश्यपादयः
तथा तालवने प्रोक्तम् इन्द्रोपेन्द्रोरगात्मनाम् ॥

1.49.61

उदुंबरे कर्दमस्य तथान्येषां महात्मनाम्
विद्याधराणां सिद्धानां पुण्ये त्वाम्रवने शुभे ॥

1.49.62

नागानां सिद्धसंघानां तथा निंबवने स्थितिः
सूर्यस्य किंशुकवने तथा रुद्रगणस्य च ॥

1.49.63

बीजपूरवने पुण्ये देवाचार्यो व्यवस्थितः
कौमुदे तु वने विष्णु प्रमुखानां महात्मनाम् ॥

1.49.64

स्थलपद्मवनान्तस्थ न्यग्रोधे ऽशेषभोगिनः
शेषस्त्वशेषजगतां पतिरास्ते ऽतिगर्वितः ॥

1.49.65

स एव जगतां कालः पाताले च व्यवस्थितः
विष्णोर्विश्वगुरोर्मूर्तिर् दिव्यः साक्षाद्धलायुधः ॥

1.49.66

शयनं देवदेवस्य स हरेः कङ्कणं विभोः
वने पनसवृक्षाणां सशुक्रा दानवादयः ॥

1.49.67

किन्नरैरुरगाश्चैव विशाखकवने स्थिताः
मनोहरवने वृक्षाः सर्वकोटिसमन्विताः ॥

1.49.68

नन्दीश्वरो गणवरैः स्तूयमानो व्यवस्थितः
संतानकस्थलीमध्ये साक्षाद्देवी सरस्वती ॥

1.49.69

एवं संक्षेपतः प्रोक्ता वनेषु वनवासिनः
असंख्याता मयाप्यत्र वक्तुं नो विस्तरेण तु ॥

मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc