भाषा

ENहिગુ
ग्रंथ पाठ

लिङ्गपुराण · अध्याय 1.4

1.4.1

अथ प्राथमिकस्येह यः कालस्तदहः स्मृतम्
सर्गस्य तादृशी रात्रिः प्राकृतस्य समासतः ॥

1.4.2

दिवा सृष्टिं विकुरुते रजन्यां प्रलयं विभुः
औपचारिकमस्यैतद् अहोरात्रं न विद्यते ॥

1.4.3

दिवा विकृतयः सर्वे विकारा विश्वदेवताः
प्रजानां पतयः सर्वे तिष्ठन्त्यन्ये महर्षयः ॥

1.4.4

रात्रौ सर्वे प्रलीयन्ते निशान्ते सम्भवन्ति च
अहस्तु तस्य वैकल्पो रात्रिस्तादृग्विधा स्मृता ॥

1.4.5

चतुर्युगसहस्रान्ते मनवस्तु चतुर्दश
चत्वारि तु सहस्राणि वत्सराणां कृतं द्विजाः ॥

1.4.6

तावच्छती च वै संध्या संध्यांशश् च कृतस्य तु
त्रिशती द्विशती संध्या तथा चैकशती क्रमात् ॥

1.4.7

अंशकः षट्शतं तस्मात् कृतसंध्यांशकं विना
त्रिद्व्येकसाहस्रमितो विना संध्यांशकेन तु ॥

1.4.8

त्रेताद्वापरतिष्याणां कृतस्य कथयामि वः
निमेषपञ्चदशका काष्ठा स्वस्थस्य सुव्रताः ॥

1.4.9

मर्त्यस्य चाक्ष्णोस्तस्याश् च ततस् त्रिंशतिका कला
कलात्रिंशतिको विप्रा मुहूर्त इति कल्पितः ॥

1.4.10

मुहूर्तपञ्चदशिका रजनी तादृशं त्वहः
पित्र्ये रात्र्यहनी मासः प्रविभागस्तयोः पुनः ॥

1.4.11

कृष्णपक्षस्त्वहस्तेषां शुक्लः स्वप्नाय शर्वरी
त्रिंशद्ये मानुषा मासाः पित्र्यो मासस्तु स स्मृतः ॥

1.4.12

शतानि त्रीणि मासानां षष्ट्या चाप्यधिकानि वै
पित्र्यः संवत्सरो ह्येष मानुषेण विभाव्यते ॥

1.4.13

मानुषेणैव मानेन वर्षाणां यच्छतं भवेत्
पितॄणां त्रीणि वर्षाणि संख्यातानीह तानि वै ॥

1.4.14

दश वै द्व्यधिका मासाः पितृसंख्येह संस्मृता
लौकिकेनैव मानेन अब्दो यो मानुषः स्मृतः ॥

1.4.15

एतद्दिव्यमहोरात्रम् इति लैङ्गे ऽत्र पठ्यते
दिव्ये रात्र्यहनी वर्षं प्रविभागस्तयोः पुनः ॥

1.4.16

अहस्तत्रोदगयनं रात्रिः स्याद्दक्षिणायनम्
एते रात्र्यहनी दिव्ये प्रसंख्याते विशेषतः ॥

1.4.17

त्रिंशद्यानि तु वर्षाणि दिव्यो मासस्तु स स्मृतः
मानुषं तु शतं विप्रा दिव्यमासास्त्रयस्तु ते ॥

1.4.18

दश चैव तथाहानि दिव्यो ह्येष विधिः स्मृतः
त्रीणि वर्षशतान्येव षष्टिवर्षाणि यानि तु ॥

1.4.19

दिव्यः संवत्सरो ह्येष मानुषेण प्रकीर्तितः
त्रीणि वर्षसहस्राणि मानुषाणि प्रमाणतः ॥

1.4.20

त्रिंशदन्यानि वर्षाणि मतः सप्तर्षिवत्सरः
नव यानि सहस्राणि वर्षाणां मानुषाणि तु ॥

1.4.21

अन्यानि नवतीश्चैव ध्रौवः संवत्सरस्तु सः
षट्त्रिंशत्तु सहस्राणि वर्षाणां मानुषाणि तु ॥

1.4.22

वर्षाणां तच्छतं ज्ञेयं दिव्यो ह्येष विधिः स्मृतः
त्रीण्येव नियुतान्याहुर् वर्षाणां मानुषाणि तु ॥

1.4.23

षष्टिश्चैव सहस्राणि संख्यातानि तु संख्यया
दिव्यं वर्षसहस्रं तु प्राहुः संख्याविदो जनाः ॥

1.4.24

दिव्येनैव प्रमाणेन युगसंख्याप्रकल्पनम्
पूर्वं कृतयुगं नाम ततस्त्रेता विधीयते ॥

1.4.25

द्वापरश्च कलिश्चैव युगान्येतानि सुव्रताः
अथ संवत्सरा दृष्टा मानुषेण प्रमाणतः ॥

1.4.26

कृतस्याद्यस्य विप्रेन्द्रा दिव्यमानेन कीर्तितम्
सहस्राणां शतान्यासंश् चतुर्दश च संख्यया ॥

1.4.27

चत्वारिंशत्सहस्राणि तथान्यानि कृतं युगम्
तथा दशसहस्राणां वर्षाणां शतसंख्यया ॥

1.4.28

अशीतिश् च सहस्राणि कालस्त्रेतायुगस्य च
सप्तैव नियुतान्याहुर् वर्षाणां मानुषाणि तु ॥

1.4.29

विंशतिश् च सहस्राणि कालस्तु द्वापरस्य च
तथा शतसहस्राणि वर्षाणां त्रीणि संख्यया ॥

1.4.30

षष्टिश्चैव सहस्राणि कालः कलियुगस्य तु
एवं चतुर्युगः काल ऋते संध्यांशकात्स्मृतः ॥

1.4.31

नियुतान्येव षट्त्रिंशन् निरंशानि तु तानि वै
चत्वारिंशत्तथा त्रीणि नियुतानीह संख्यया ॥

1.4.32

विंशतिश् च सहस्राणि संध्यांशश् च चतुर्युगः
एवं चतुर्युगाख्यानां साधिका ह्येकसप्ततिः ॥

1.4.33

कृतत्रेतादियुक्तानां मनोरन्तरमुच्यते
मन्वन्तरस्य संख्या च वर्षाग्रेण प्रकीर्तिता ॥

1.4.34

त्रिंशत्कोट्यस्तु वर्षाणां मानुषेण द्विजोत्तमाः
सप्तषष्टिस्तथान्यानि नियुतान्यधिकानि तु ॥

1.4.35

विंशतिश् च सहस्राणि कालो ऽयम् अधिकं विना
मन्वन्तरस्य संख्यैषा लैङ्गे ऽस्मिन्कीर्तिता द्विजाः ॥

1.4.36

चतुर्युगस्य च तथा वर्षसंख्या प्रकीर्तिता
चतुर्युगसहस्रं वै कल्पश्चैको द्विजोत्तमाः ॥

1.4.37

निशान्ते सृजते लोकान् नश्यन्ते निशि जन्तवः
तत्र वैमानिकानां तु अष्टाविंशतिकोटयः ॥

1.4.38

मन्वन्तरेषु वै संख्या सान्तरेषु यथातथा
त्रीणि कोटिशतान्यासन् कोट्यो द्विनवतिस् तथा ॥

1.4.39

कल्पे ऽतीते तु वै विप्राः सहस्राणां तु सप्ततिः
पुनस्तथाष्टसाहस्रं सर्वत्रैव समासतः ॥

1.4.40

कल्पावसानिकांस्त्यक्त्वा प्रलये समुपस्थिते
महर्लोकात् प्रयान्त्येते जनलोकं जनास्ततः ॥

1.4.41

कोटीनां द्वे सहस्रे तु अष्टौ कोटिशतानि तु
द्विषष्टिश् च तथा कोट्यो नियुतानि च सप्ततिः ॥

1.4.42

कल्पार्धसंख्या दिव्या वै कल्पमेवं तु कल्पयेत्
कल्पानां वै सहस्रं तु वर्षमेकमजस्य तु ॥

1.4.43

वर्षाणामष्टसाहस्रं ब्राह्मं वै ब्रह्मणो युगम्
सवनं युगसाहस्रं सर्वदेवोद्भवस्य तु ॥

1.4.44

सवनानां सहस्रं तु त्रिविधं त्रिगुणं तथा
ब्रह्मणस्तु तथा प्रोक्तः कालः कालात्मनः प्रभो ॥

1.4.45

भवोद्भवस्तपश्चैव भव्यो रम्भः क्रतुः पुनः
ऋतुर्वह्निर्हव्यवाहः सावित्रः शुद्ध एव च ॥

1.4.46

उशिकः कुशिकश्चैव गान्धारो मुनिसत्तमाः
ऋषभश् च तथा षड्जो मज्जालीयश् च मध्यमः ॥

1.4.47

वैराजो वै निषादश् च मुख्यो वै मेघवाहनः
पञ्चमश्चित्रकश्चैव आकूतिर् ज्ञान एव च ॥

1.4.48

मनः सुदर्शो बृंहश् च तथा वै श्वेतलोहितः
रक्तश् च पीतवासाश् च असितः सर्वरूपकः ॥

1.4.49

एवं कल्पास्तु संख्याता ब्रह्मणो ऽव्यक्तजन्मनः
कोटिकोटिसहस्राणि कल्पानां मुनिसत्तमाः ॥

1.4.50

गतानि तावच्छेषाणि अहर्निश्यानि वै पुनः
परान्ते वै विकाराणि विकारं यान्ति विश्वतः ॥

1.4.51

विकारस्य शिवस्याज्ञा वशेनैव तु संहृतिः
संहृते तु विकारे च प्रधाने चात्मनि स्थिते ॥

1.4.52

साधर्म्येणावतिष्ठेते प्रधानपुरुषावुभौ
गुणानां चैव वैषम्ये विप्राः सृष्टिरिति स्मृता ॥

1.4.53

साम्ये लयो गुणानां तु तयोर्हेतुर्महेश्वरः
लीलया देवदेवेन सर्गास्त्वीदृग्विधाः कृताः ॥

1.4.54

असंख्याताश् च संक्षेपात् प्रधानाद् अन्वधिष्ठितात्
असंख्याताश् च कल्पाख्या ह्य् असंख्याताः पितामहाः ॥

1.4.55

हरयश्चाप्यसंख्यातास् त्व् एक एव महेश्वरः
प्रधानादिप्रवृत्तानि लीलया प्राकृतानि तु ॥

1.4.56

गुणात्मिका च तद्वृत्तिस् तस्य देवस्य वै त्रिधा
अप्राकृतस्य तस्यादिर् मध्यान्तं नास्ति चात्मनः ॥

1.4.57

पितामहस्याथ परः परार्धद्वयसंमितः
दिवा सृष्टं तु यत्सर्वं निशि नश्यति चास्य तत् ॥

1.4.58

भूर्भुवःस्वर्महस्तत्र नश्यते चोर्ध्वतो न च
रात्रौ चैकार्णवे ब्रह्मा नष्टे स्थावरजङ्गमे ॥

1.4.59

सुष्वापाम्भसि यस्तस्मान् नारायण इति स्मृतः
शर्वर्यन्ते प्रबुद्धो वै दृष्ट्वा शून्यं चराचरम् ॥

1.4.60

स्रष्टुं तदा मतिं चक्रे ब्रह्मा ब्रह्मविदां वरः
उदकैराप्लुतां क्ष्मां तां समादाय सनातनः ॥

1.4.61

पूर्ववत्स्थापयामास वाराहं रूपमास्थितः
नदीनदसमुद्रांश् च पूर्ववच्चाकरोत्प्रभुः ॥

1.4.62

कृत्वा धरां प्रयत्नेन निम्नोन्नतिविवर्जिताम्
धरायां सो ऽचिनोत्सर्वान् गिरीन् दग्धान् पुराग्निना ॥

1.4.63

भूराद्यांश् चतुरो लोकान् कल्पयामास पूर्ववत्
स्रष्टुं च भगवांश्चक्रे तदा स्रष्टा पुनर्मतिम् ॥

मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc