भाषा

ENहिગુ
ग्रंथ पाठ

लिङ्गपुराण · अध्याय 1.48

1.48.1

अस्य द्वीपस्य मध्ये तु मेरुर् नाम महागिरिः
नानारत्नमयैः शृङ्गैः स्थितः स्थितिमतां वरः ॥

1.48.2

चतुरशीतिसाहस्रम् उत्सेधेन प्रकीर्तितः
प्रविष्टः षोडशाधस्ताद् विस्तृतः षोडशैव तु ॥

1.48.3

शराववत् संस्थितत्वाद् द्वात्रिंशन्मूर्ध्नि विस्तृतः
विस्तारात् त्रिगुणश् चास्य परिणाहो ऽनुमण्डलः ॥

1.48.4

हैमीकृतो महेशस्य शुभाङ्गस्पर्शनेन च
धत्तूरपुष्पसंकाशः सर्वदेवनिकेतनः ॥

1.48.5

क्रीडाभूमिश् च देवानाम् अनेकाश्चर्यसंयुतः
लक्षयोजन आयामस् तस्यैवं तु महागिरेः ॥

1.48.6

ततः षोडशसाहस्रं योजनानि क्षितेरधः
शेषं चोपरि विप्रेन्द्रा धरायास्तस्य शृङ्गिणः ॥

1.48.7

मूलायामप्रमाणं तु विस्तारान् मूलतो गिरेः
ऊचुर्विस्तारमस्यैव द्विगुणं मूलतो गिरेः ॥

1.48.8

पूर्वतः पद्मरागाभो दक्षिणे हेमसन्निभः
पश्चिमे नीलसंकाश उत्तरे विद्रुमप्रभः ॥

1.48.9

अमरावती पूर्वभागे नानाप्रासादसंकुला
नानादेवगणैः कीर्णा मणिजालसमावृता ॥

1.48.10

गोपुरैर्विविधाकारैर् हेमरत्नविभूषितैः
तोरणैर् हेमचित्रैस्तु मणिकॢप्तैः पथि स्थितैः ॥

1.48.11

संलापालापकुशलैः सर्वाभरणभूषितैः
स्तनभारविनम्रैश् च मदघूर्णितलोचनैः ॥

1.48.12

स्त्रीसहस्रैः समाकीर्णा चाप्सरोभिः समन्ततः
दीर्घिकाभिर्विचित्राभिः फुल्लाम्भोरुहसंकुलैः ॥

1.48.13

हेमसोपानसंयुक्तैर् हेमसैकतराशिभिः
नीलोत्पलैश्चोत्पलैश् च हैमैश्चापि सुगन्धिभिः ॥

1.48.14

एवंविधैस्तटाकैश् च नदीभिश् च नदैर्युता
विराजते पुरी शुभ्रा तयासौ पर्वतः शुभः ॥

1.48.15

तेजस्विनी नाम पुरी आग्नेय्यां पावकस्य तु
अमरावतीसमा दिव्या सर्वभोगसमन्विता ॥

1.48.16

वैवस्वती दक्षिणे तु यमस्य यमिनां वराः
भवनैरावृता दिव्यैर् जांबूनदमयैः शुभैः ॥

1.48.17

नैरृते कृष्णवर्णा च तथा शुद्धवती शुभा
तादृशी गन्धवन्ती च वायव्यां दिशि शोभना ॥

1.48.18

महोदया चोत्तरे च ऐशान्यां तु यशोवती
पर्वतस्य दिगन्तेषु शोभते दिवि सर्वदा ॥

1.48.19

ब्रह्मविष्णुमहेशानां तथान्येषां निकेतनम्
सर्वभोगयुतं पुण्यं दीर्घिकाभिर्नगोत्तमम् ॥

1.48.20

सिद्धैर्यक्षैस्तु सम्पूर्णं गन्धर्वैर्मुनिपुङ्गवैः
तथान्यैर्विविधाकारैर् भूतसंघैश् चतुर्विधैः ॥

1.48.21

गिरेरुपरि विप्रेन्द्राः शुद्धस्फटिकसन्निभम्
सहस्रभौमं विस्तीर्णं विमानं वामतः स्थितम् ॥

1.48.22

तस्मिन्महाभुजः शर्वः सोमसूर्याग्निलोचनः
सिंहासने मणिमये देव्यास्ते षण्मुखेन च ॥

1.48.23

हरेस्तदर्धं विस्तीर्णं विमानं तत्र सो ऽपि च
पद्मरागमयं दिव्यं पद्मजस्य च दक्षिणे ॥

1.48.24

तस्मिन् शक्रस्य विपुलं पुरं रम्यं यमस्य च
सोमस्य वरुणस्याथ निरृतेः पावकस्य च ॥

1.48.25

वायोश्चैव तु रुद्रस्य शर्वालयसमन्ततः
तेषां तेषां विमानेषु दिव्येषु विविधेषु च ॥

1.48.26

ईशान्यामीश्वरक्षेत्रे नित्यार्चा च व्यवस्थिता
सिद्धेश्वरैश् च भगवाञ् छैलादिः शिष्यसंमतः ॥

1.48.27

सनत्कुमारः सिद्धैस्तु सुखासीनः सुरेश्वरः
सनकश् च सनन्दश् च सदृशाश् च सहस्रशः ॥

1.48.28

योगभूमिः क्वचित्तस्मिन् भोगभूमिः क्वचित्क्वचित्
बालसूर्यप्रतीकाशं विमानं तत्र शोभनम् ॥

1.48.29

शैलादिनः शुभं चास्ति तस्मिन्नास्ते गणेश्वरः
षण्मुखस्य गणेशस्य गणानां तु सहस्रशः ॥

1.48.30

सुयशायाः सुनेत्रायाः मातॄणां मदनस्य च
तस्य जम्बूनदी नाम मूलमावेष्ट्य संस्थिता ॥

1.48.31

तस्य दक्षिणपार्श्वे तु जम्बूवृक्षः सुशोभनः
अत्युच्छ्रितः सुविस्तीर्णः सर्वकालफलप्रदः ॥

1.48.32

मेरोः समन्ताद्विस्तीर्णं शुभं वर्षमिलावृतम्
तत्र जम्बूफलाहाराः केचिच्चामृतभोजनाः ॥

1.48.33

जांबूनदसमप्रख्या नानावर्णाश् च भोगिनः
मेरुपादाश्रितो विप्रा द्वीपो ऽयं मध्यमः शुभः ॥

1.48.34

नववर्षान्वितश्चैव नदीनदगिरीश्वरैः
नववर्षं तु वक्ष्यामि जंबूद्वीपं यथातथम् ॥

1.48.35

विस्तारान्मण्डलाच्चैव योजनैश् च निबोधत ॥

मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc