लिङ्गपुराण · अध्याय 1.47
आग्नीध्रं ज्येष्ठदायादं काम्यपुत्रं महाबलम्
प्रियव्रतो ऽभ्यषिञ्चद्वै जंबूद्वीपेश्वरं नृपः ॥
सो ऽतीव भवभक्तश् च तपस्वी तरुणः सदा
भवार्चनरतः श्रीमान् गोमान्धीमान्द्विजर्षभाः ॥
तस्य पुत्रा बभूवुस्ते प्रजापतिसमा नव
सर्वे माहेश्वराश्चैव महादेवपरायणाः ॥
ज्येष्ठो नाभिर् इति ख्यातस् तस्य किंपुरुषो ऽनुजः
हरिवर्षस्तृतीयस्तु चतुर्थो वै त्विलावृतः ॥
रम्यस्तु पञ्चमस् तत्र हिरण्मान् षष्ठ उच्यते
कुरुस्तु सप्तमस्तेषां भद्राश्वस्त्वष्टमः स्मृतः ॥
नवमः केतुमालस्तु तेषां देशान्निबोधत
नाभेस्तु दक्षिणं वर्षं हेमाख्यं तु पिता ददौ ॥
हेमकूटं तु यद्वर्षं ददौ किंपुरुषाय सः
नैषधं यत्स्मृतं वर्षं हरये तत्पिता ददौ ॥
इलावृताय प्रददौ मेरुर्यत्र तु मध्यमः
नीलाचलाश्रितं वर्षं रम्याय प्रददौ पिता ॥
श्वेतं यदुत्तरं तस्मात् पित्रा दत्तं हिरण्मते
यदुत्तरं शृङ्गवर्षं पिता तत्कुरवे ददौ ॥
वर्षं माल्यवतं चापि भद्राश्वस्य न्यवेदयत्
गन्धमादनवर्षं तु केतुमालाय दत्तवान् ॥
इत्येतानि महान्तीह नव वर्षाणि भागशः
आग्नीध्रस्तेषु वर्षेषु पुत्रांस्तानभिषिच्य वै ॥
यथाक्रमं स धर्मात्मा ततस्तु तपसि स्थितः
तपसा भावितश्चैव स्वाध्यायनिरतस्त्वभूत् ॥
स्वाध्यायनिरतः पश्चाच् छिवध्यानरतस् त्वभूत्
यानि किंपुरुषाद्यानि वर्षाण्यष्टौ शुभानि च ॥
तेषां स्वभावतः सिद्धिः सुखप्राया ह्ययत्नतः
विपर्ययो न तेष्वस्ति जरामृत्युभयं न च ॥
धर्माधर्मौ न तेष्वास्तां नोत्तमाधममध्यमाः
न तेष्वस्ति युगावस्था क्षेत्रेष्वष्टसु सर्वतः ॥
रुद्रक्षेत्रे मृताश्चैव जङ्गमाः स्थावरास् तथा
भक्ताः प्रासंगिकाश्चापि तेषु क्षेत्रेषु यान्ति ते ॥
तेषां हिताय रुद्रेण चाष्टक्षेत्रं विनिर्मितम्
तत्र तेषां महादेवः सान्निध्यं कुरुते सदा ॥
दृष्ट्वा हृदि महादेवम् अष्टक्षेत्रनिवासिनः
सुखिनः सर्वदा तेषां स एवेह परा गतिः ॥
नाभेर्निसर्गं वक्ष्यामि हिमाङ्के ऽस्मिन्निबोधत
नाभिस्त्वजनयत्पुत्रं मेरुदेव्यां महामतिः ॥
ऋषभं पार्थिवश्रेष्ठं सर्वक्षत्रस्य पूजितम्
ऋषभाद्भरतो जज्ञे वीरः पुत्रशताग्रजः ॥
सो ऽभिषिच्याथ ऋषभो भरतं पुत्रवत्सलः
ज्ञानवैराग्यमाश्रित्य जित्वेन्द्रियमहोरगान् ॥
सर्वात्मनात्मनि स्थाप्य परमात्मानमीश्वरम्
नग्नो जटी निराहारश् चीरी ध्वान्तगतो हि सः ॥
निराशस्त्यक्तसंदेहः शैवमाप परं पदम्
हिमाद्रेर्दक्षिणं वर्षं भरताय न्यवेदयत् ॥
तस्मात्तु भारतं वर्षं तस्य नाम्ना विदुर्बुधाः
भरतस्यात्मजो विद्वान् सुमतिर्नाम धार्मिकः ॥
बभूव तस्मिंस्तद्राज्यं भरतः संन्यवेशयत्
पुत्रसंक्रामितश्रीको वनं राजा विवेश सः ॥
मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0