लिङ्गपुराण · अध्याय 1.46
सप्तद्वीपा तथा पृथ्वी नदीपर्वतसंकुला
समुद्रैः सप्तभिश्चैव सर्वतः समलंकृता ॥
जम्बूः प्लक्षः शाल्मलिश् च कुशः क्रौञ्चस्तथैव च
शाकः पुष्करनामा च द्वीपास्त्वभ्यन्तरे क्रमात् ॥
सप्तद्वीपेषु सर्वेषु साम्बः सर्वगणैर्वृतः
नानावेषधरो भूत्वा सान्निध्यं कुरुते हरः ॥
क्षारोदेक्षुरसोदश् च सुरोदश् च घृतोदधिः
दध्यर्णवश् च क्षीरोदः स्वादूदश्चाप्यनुक्रमात् ॥
समुद्रेष्विह सर्वेषु सर्वदा सगणः शिवः
जलरूपी भवः श्रीमान् क्रीडते चोर्मिबाहुभिः ॥
क्षीरार्णवामृतमिव सदा क्षीरार्णवे हरिः
शेते शिवज्ञानधिया साक्षाद्वै योगनिद्रया ॥
यदा प्रबुद्धो भगवान् प्रबुद्धमखिलं जगत्
यदा सुप्तस्तदा सुप्तं तन्मयं च चराचरम् ॥
तेनैव सृष्टमखिलं धृतं रक्षितमेव च
संहृतं देवदेवस्य प्रसादात्परमेष्ठिनः ॥
सुषेणा इति विख्याता यजन्ते पुरुषर्षभम्
अनिरुद्धं मुनिश्रेष्ठाः शङ्खचक्रगदाधरम् ॥
ये चानिरुद्धं पुरुषं ध्यायन्त्यात्मविदां वराः
नारायणसमाः सर्वे सर्वसंपत्समन्विताः ॥
सनन्दनश् च भगवान् सनकश् च सनातनः
वालखिल्याश् च सिद्धाश् च मित्रावरुणकौ तथा ॥
यजन्ति सततं तत्र विश्वस्य प्रभवं हरिम्
सप्तद्वीपेषु तिष्ठन्ति नानाशृङ्गा महोदयाः ॥
आसमुद्रायताः केचिद् गिरयो गह्वरैस् तथा
धरायाः पतयश्चासन् बहवः कालगौरवात् ॥
सामर्थ्यात्परमेशानाः क्रौञ्चारेर्जनकात्प्रभोः
मन्वन्तरेषु सर्वेषु अतीतानागतेष्विह ॥
प्रवक्ष्यामि धरेशान् वो वक्ष्ये स्वायंभुवे ऽन्तरे
मन्वन्तरेषु सर्वेषु अतीतानागतेषु च ॥
तुल्याभिमानिनश्चैव सर्वे तुल्यप्रयोजनाः
स्वायंभुवस्य च मनोः पौत्रास्त्वासन्महाबलाः ॥
प्रियव्रतात्मजा वीरास् ते दशेह प्रकीर्तिताः
आग्नीध्रश्चाग्निबाहुश् च मेधा मेधातिथिर्वसुः ॥
ज्योतिष्मान्द्युतिमान् हव्यः सवनः पुत्र एव च
प्रियव्रतो ऽभ्यषिञ्चत्तान् सप्त सप्तसु पार्थिवान् ॥
जम्बूद्वीपेश्वरं चक्रे आग्नीध्रं सुमहाबलम्
प्लक्षद्वीपेश्वरश्चापि तेन मेधातिथिः कृतः ॥
शाल्मलेश् च वपुष्मन्तं राजानमभिषिक्तवान्
ज्योतिष्मन्तं कुशद्वीपे राजानं कृतवान्नृपः ॥
द्युतिमन्तं च राजानं क्रौञ्चद्वीपे समादिशत्
शाकद्वीपेश्वरं चापि हव्यं चक्रे प्रियव्रतः ॥
पुष्कराधिपतिं चक्रे सवनं चापि सुव्रताः
पुष्करे सवनस्यापि महावीतः सुतो ऽभवत् ॥
धातकी चैव द्वावेतौ पुत्रौ पुत्रवतां वरौ
महावीतं स्मृतं वर्षं तस्य नाम्ना महात्मनः ॥
नाम्ना तु धातकेश्चैव धातकीखण्डमुच्यते
हव्यो ऽप्यजनयत् पुत्राञ् छाकद्वीपेश्वरः प्रभुः ॥
जलदं च कुमारं च सुकुमारं मणीचकम्
कुसुमोत्तरमोदाकी सप्तमस्तु महाद्रुमः ॥
अलदं जलदस्याथ वर्षं प्रथममुच्यते
कुमारस्य तु कौमारं द्वितीयं परिकीर्तितम् ॥
सुकुमारं तृतीयं तु सुकुमारस्य कीर्त्यते
मणीचकं चतुर्थं तु माणीचकमिहोच्यते ॥
कुसुमोत्तरस्य वै वर्षं पञ्चमं कुसुमोत्तरम्
मोदकं चापि मोदाकेर् वर्षं षष्ठं प्रकीर्तितम् ॥
महाद्रुमस्य नाम्ना तु सप्तमं तन्महाद्रुमम्
तेषां तु नामभिस्तानि सप्त वर्षाणि तत्र वै ॥
क्रौञ्चद्वीपेश्वरस्यापि पुत्रा द्युतिमतस्तु वै
कुशलो मनुगश्चोष्णः पीवरश्चान्धकारकः ॥
मुनिश्च दुन्दुभिश्चैव सुता द्युतिमतस्तु वै
तेषां स्वनामभिर् देशाः क्रौञ्चद्वीपाश्रयाः शुभाः ॥
कुशलदेशः कुशले मनुगस्य मनोनुगः
उष्णस्योष्णः स्मृतो देशः पीवरः पीवरस्य च ॥
अन्धकारस्य कथितो देशो नाम्नान्धकारकः
मुनेर्देशो मुनिः प्रोक्तो दुन्दुभेर् दुन्दुभिः स्मृतः ॥
एते जनपदाः सप्त क्रौञ्चद्वीपेषु भास्वराः
ज्योतिष्मन्तः कुशद्वीपे सप्त चासन्महौजसः ॥
उद्भिदो वेणुमांश्चैव द्वैरथो लवणो धृतिः
षष्ठः प्रभाकरश्चापि सप्तमः कपिलः स्मृतः ॥
उद्भिदं प्रथमं वर्षं द्वितीयं वेणुमण्डलम्
तृतीयं द्वैरथं चैव चतुर्थं लवणं स्मृतम् ॥
पञ्चमं धृतिमत् षष्ठं प्रभाकरम् अनुत्तमम्
सप्तमं कपिलं नाम कपिलस्य प्रकीर्तितम् ॥
शाल्मलस्येश्वराः सप्त सुतास्ते वै वपुष्मतः
श्वेतश् च हरितश्चैव जीमूतो रोहितस् तथा ॥
वैद्युतो मानसश्चैव सुप्रभः सप्तमस् तथा
श्वेतस्य देशः श्वेतस्तु हरितस्य च हारितः ॥
जीमूतस्य च जीमूतो रोहितस्य च रोहितः
वैद्युतो वैद्युतस्यापि मानसस्य च मानसः ॥
सुप्रभः सुप्रभस्यापि सप्त वै देशलाञ्छकाः
प्लक्षद्वीपे तु वक्ष्यामि जम्बूद्वीपादनन्तरम् ॥
सप्त मेधातिथेः पुत्राः प्लक्षद्वीपेश्वरा नृपाः
ज्येष्ठः शान्तभयस्तेषां सप्तवर्षाणि तानि वै ॥
तस्माच्छान्तभयाच्चैव शिशिरस्तु सुखोदयः
आनन्दश् च शिवश्चैव क्षेमकश् च ध्रुवस् तथा ॥
तानि तेषां तु नामानि सप्तवर्षाणि भागशः
निवेशितानि तैस्तानि पूर्वं स्वायंभुवे ऽन्तरे ॥
मेधातिथेस्तु पुत्रैस्तैः प्लक्षद्वीपनिवासिभिः
वर्णाश्रमाचारयुताः प्रजास्तत्र निवेशिताः ॥
प्लक्षद्वीपादिवर्षेषु शाकद्वीपान्तिकेषु वै
ज्ञेयः पञ्चसु धर्मो वै वर्णाश्रमविभागशः ॥
सुखमायुः स्वरूपं च बलं धर्मो द्विजोत्तमाः
पञ्चस्वेतेषु द्वीपेषु सर्वसाधारणं स्मृतम् ॥
रुद्रार्चनरता नित्यं महेश्वरपरायणाः
अन्ये च पुष्करद्वीपे प्रजाताश् च प्रजेश्वराः ॥
प्रजापतेश् च रुद्रस्य भावामृतसुखोत्कटाः ॥
मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0