भाषा

ENहिગુ
ग्रंथ पाठ

लिङ्गपुराण · अध्याय 1.45

1.45.1

सूत सुव्यक्तमखिलं कथितं शङ्करस्य तु
सर्वात्मभावं रुद्रस्य स्वरूपं वक्तुमर्हसि ॥

1.45.2

भूर्भुवः स्वर्महश्चैव जनः साक्षात्तपस् तथा
सत्यलोकश् च पातालं नरकार्णवकोटयः ॥

1.45.3

तारकाग्रहसोमार्का ध्रुवः सप्तर्षयस् तथा
वैमानिकास्तथान्ये च तिष्ठन्त्यस्य प्रसादतः ॥

1.45.4

अनेन निर्मितास्त्वेवं तदात्मानो द्विजर्षभाः
समष्टिरूपः सर्वात्मा संस्थितः सर्वदा शिवः ॥

1.45.5

सर्वात्मानं महात्मानं महादेवं महेश्वरम्
न विजानन्ति संमूढा मायया तस्य मोहिताः ॥

1.45.6

तस्य देवस्य रुद्रस्य शरीरं वै जगत्त्रयम्
तस्मात्प्रणम्य तं वक्ष्ये जगतां निर्णयं शुभम् ॥

1.45.7

पुरा वः कथितं सर्वं मयाण्डस्य यथा कृतिः
भुवनानां स्वरूपं च ब्रह्माण्डे कथयाम्यहम् ॥

1.45.8

पृथिवी चान्तरिक्षं च स्वर्महर्जन एव च
तपः सत्यं च सप्तैते लोकास्त्वण्डोद्भवाः शुभाः ॥

1.45.9

अधस्तादत्र चैतेषां द्विजाः सप्त तलानि तु
महातलादयस्तेषां अधस्तान्नरकाः क्रमात् ॥

1.45.10

महातलं हेमतलं सर्वरत्नोपशोभितम्
प्रासादैश् च विचित्रैश् च भवस्यायतनैस् तथा ॥

1.45.11

अनन्तेन च संयुक्तं मुचुकुन्देन धीमता
नृपेण बलिना चैव पातालस्वर्गवासिना ॥

1.45.12

शैलं रसातलं विप्राः शार्करं हि तलातलम्
पीतं सुतलमित्युक्तं वितलं विद्रुमप्रभम् ॥

1.45.13

सितं हि अतलं तच्च तलं यच्च सितेतरम्
क्ष्मायास्तु यावद्विस्तारो ह्य् अधस्तेषां च सुव्रताः ॥

1.45.14

तलानां चैव सर्वेषां तावत्संख्या समाहिता
सहस्रयोजनं व्योम दशसाहस्रमेव च ॥

1.45.15

लक्षं सप्तसहस्रं हि तलानां सघनस्य तु
व्योम्नः प्रमाणं मूलं तु त्रिंशत्साहस्रकेण तु ॥

1.45.16

सुवर्णेन मुनिश्रेष्ठास् तथा वासुकिना शुभम्
रसातलमिति ख्यातं तथान्यैश् च निषेवितम् ॥

1.45.17

विरोचनहिरण्याक्ष नरकाद्यैश् च सेवितम्
तलातलमिति ख्यातं सर्वशोभासमन्वितम् ॥

1.45.18

वैनायकादिभिश्चैव कालनेमिपुरोगमैः
पूर्वदेवैः समाकीर्णं सुतलं च तथापरैः ॥

1.45.19

वितलं दानवाद्यैश् च तारकाग्निमुखैस् तथा
महान्तकाद्यैर् नागैश् च प्रह्लादेनासुरेण च ॥

1.45.20

वितलं चात्र विख्यातं कम्बलाश्वनिषेवितम्
महाकुम्भेन वीरेण हयग्रीवेण धीमता ॥

1.45.21

शङ्कुकर्णेन संभिन्नं तथा नमुचिपूर्वकैः
तथान्यैर् विविधैर् वीरैस् तलं चैव सुशोभितम् ॥

1.45.22

तलेषु तेषु सर्वेषु चाम्बया परमेश्वरः
स्कन्देन नन्दिना सार्धं गणपैः सर्वतो वृतः ॥

1.45.23

तलानां चैव सर्वेषाम् ऊर्ध्वतः सप्तसप्तमाः
क्ष्मातलानि धरा चापि सप्तधा कथयामि वः ॥

मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc