भाषा

ENहिગુ
ग्रंथ पाठ

लिङ्गपुराण · अध्याय 1.41

1.41.1

पुनः ससर्ज भगवान् प्रभ्रष्टाः पूर्ववत्प्रजाः
सहस्रयुगपर्यन्ते प्रभाते तु पितामहः ॥

1.41.2

एवं परार्धे विप्रेन्द्र द्विगुणे तु तथा गते
तदा धराम्भसि व्याप्ता ह्य् आपो वह्नौ समीरणे ॥

1.41.3

वह्निः समीरणश्चैव व्योम्नि तन्मात्रसंयुतः
इन्द्रियाणि दशैकं च तन्मात्राणि द्विजोत्तम ॥

1.41.4

अहङ्कारमनुप्राप्य प्रलीनास्तत्क्षणादहो
अभिमानस्तदा तत्र महान्तं व्याप्य वै क्षणात् ॥

1.41.5

महानपि तथा व्यक्तं प्राप्य लीनो ऽभवद्द्विज
अव्यक्तं स्वगुणैः सार्धं प्रलीनमभवद्भवे ॥

1.41.6

ततः सृष्टिरभूत्तस्मात् पूर्ववत्पुरुषाच्छिवात्
अथ सृष्टास्तदा तस्य मनसा तेन मानसाः ॥

1.41.7

न व्यवर्धन्त लोके ऽस्मिन् प्रजाः कमलयोनिना
वृद्ध्यर्थं भगवान्ब्रह्मा पुत्रैर्वै मानसैः सह ॥

1.41.8

दुश्चरं विचचारेशं समुद्दिश्य तपः स्वयम्
तुष्टस्तु तपसा तस्य भवो ज्ञात्वा स वाञ्छितम् ॥

1.41.9

ललाटमध्यं निर्भिद्य ब्रह्मणः पुरुषस्य तु
पुत्रस्नेहमिति प्रोच्य स्त्रीपुंरूपो ऽभवत्तदा ॥

1.41.10

तस्य पुत्रो महादेवो ह्य् अर्धनारीश्वरो ऽभवत्
ददाह भगवान्सर्वं ब्रह्माणं च जगद्गुरुम् ॥

1.41.11

अथार्धमात्रां कल्याणीम् आत्मनः परमेश्वरीम्
बुभुजे योगमार्गेण वृद्ध्यर्थं जगतां शिवः ॥

1.41.12

तस्यां हरिं च ब्रह्माणं ससर्ज परमेश्वरः
विश्वेश्वरस्तु विश्वात्मा चास्त्रं पाशुपतं तथा ॥

1.41.13

तस्माद्ब्रह्मा महादेव्याश् चांशजश् च हरिस् तथा
अण्डजः पद्मजश्चैव भवाङ्गभव एव च ॥

1.41.14

एतत्ते कथितं सर्वम् इतिहासं पुरातनम्
परार्धं ब्रह्मणो यावत् तावद्भूतिः समासतः ॥

1.41.15

वैराग्यं ब्रह्मणो वक्ष्ये तमोद्भूतं समासतः
नारायणो ऽपि भगवान् द्विधा कृत्वात्मनस्तनुम् ॥

1.41.16

ससर्ज सकलं तस्मात् स्वाङ्गादेव चराचरम्
ततो ब्रह्माणमसृजद् ब्रह्मा रुद्रं पितामहः ॥

1.41.17

मुने कल्पान्तरे रुद्रो हरिं ब्रह्माणम् ईश्वरम्
ततो ब्रह्माणमसृजन् मुने कल्पान्तरे हरिः ॥

1.41.18

नारायणं पुनर्ब्रह्मा ब्रह्माणं च पुनर्भवः
तदा विचार्य वै ब्रह्मा दुःखं संसार इत्यजः ॥

1.41.19

सर्गं विसृज्य चात्मानम् आत्मन्येव नियोज्य च
संहृत्य प्राणसञ्चारं पाषाण इव निश्चलः ॥

1.41.20

दशवर्षसहस्राणि समाधिस्थो ऽभवत्प्रभुः
अधोमुखं तु यत्पद्मं हृदि संस्थं सुशोभनम् ॥

1.41.21

पूरितं पूरकेणैव प्रबुद्धं चाभवत्तदा
तदूर्ध्ववक्त्रम् अभवत् कुम्भकेन निरोधितम् ॥

1.41.22

तत्पद्मकर्णिकामध्ये स्थापयामास चेश्वरम्
तदोमिति शिवं देवम् अर्धमात्रापरं परम् ॥

1.41.23

मृणालतन्तुभागैक शतभागे व्यवस्थितम्
यमी यमविशुद्धात्मा नियम्यैवं हृदीश्वरम् ॥

1.41.24

यमपुष्पादिभिः पूज्यं याज्यो ह्ययजदव्ययम्
तस्य हृत्कमलस्थस्य नियोगाच्चांशजो विभुः ॥

1.41.25

ललाटमस्य निर्भिद्य प्रादुरासीत्पितामहात्
लोहितो ऽभूत् स्वयं नीलः शिवस्य हृदयोद्भवः ॥

1.41.26

वह्नेश्चैव तु संयोगात् प्रकृत्य पुरुषः प्रभुः
नीलश् च लोहितश्चैव यतः कालाकृतिः पुमान् ॥

1.41.27

नीललोहित इत्युक्तस् तेन देवेन वै प्रभुः
ब्रह्मणा भगवान्कालः प्रीतात्मा चाभवद्विभुः ॥

1.41.28

सुप्रीतमनसं देवं तुष्टाव च पितामहः
नामाष्टकेन विश्वात्मा विश्वात्मानं महामुने ॥

1.41.29

नमस्ते भगवन् रुद्र भास्करामिततेजसे
नमो भवाय देवाय रसायाम्बुमयाय ते ॥

1.41.30

शर्वाय क्षितिरूपाय सदा सुरभिणे नमः
ईशाय वायवे तुभ्यं संस्पर्शाय नमो नमः ॥

1.41.31

पशूनां पतये चैव पावकायातितेजसे
भीमाय व्योमरूपाय शब्दमात्राय ते नमः ॥

1.41.32

महादेवाय सोमाय अमृताय नमो ऽस्तु ते
उग्राय यजमानाय नमस्ते कर्मयोगिने ॥

1.41.33

यः पठेच्छृणुयाद्वापि पैतामहमिमं स्तवम्
रुद्राय कथितं विप्राञ् श्रावयेद्वा समाहितः ॥

1.41.34

अष्टमूर्तेस्तु सायुज्यं वर्षादेकादवाप्नुयात्
एवं स्तुत्वा महादेवम् अवैक्षत पितामहः ॥

1.41.35

तदाष्टधा महादेवः समातिष्ठत्समन्ततः
तदा प्रकाशते भानुः कृष्णवर्त्मा निशाकरः ॥

1.41.36

क्षितिर्वायुः पुमानंभः सुषिरं सर्वगं तथा
तदाप्रभृति तं प्राहुर् अष्टमूर्तिरितीश्वरम् ॥

1.41.37

अष्टमूर्तेः प्रसादेन विरञ्चिश्चासृजत्पुनः
सृष्ट्वैतद् अखिलं ब्रह्मा पुनः कल्पान्तरे प्रभुः ॥

1.41.38

सहस्रयुगपर्यन्तं संसुप्ते च चराचरे
प्रजाः स्रष्टुमनास् तेपे तत उग्रं तपो महत् ॥

1.41.39

तस्यैवं तप्यमानस्य न किंचित्समवर्तत
ततो दीर्घेण कालेन दुःखात्क्रोधो व्यजायत ॥

1.41.40

क्रोधाविष्टस्य नेत्राभ्यां प्रापतन्नश्रुबिन्दवः
ततस्तेभ्यो ऽश्रुबिन्दुभ्यो भूताः प्रेतास्तदाभवन् ॥

1.41.41

सर्वांस्तानग्रजान्दृष्ट्वा भूतप्रेतनिशाचरान्
अनिन्दत तदा देवो ब्रह्मात्मानम् अजो विभुः ॥

1.41.42

जहौ प्राणांश् च भगवान् क्रोधाविष्टः प्रजापतिः
ततः प्राणमयो रुद्रः प्रादुरासीत्प्रभोर्मुखात् ॥

1.41.43

अर्धनारीश्वरो भूत्वा बालार्कसदृशद्युतिः
तदैकादशधात्मानं प्रविभज्य व्यवस्थितः ॥

1.41.44

अर्धेनांशेन सर्वात्मा ससर्जासौ शिवामुमाम्
सा चासृजत्तदा लक्ष्मीं दुर्गां श्रेष्ठां सरस्वतीम् ॥

1.41.45

वामां रौद्रीं महामायां वैष्णवीं वारिजेक्षणाम्
कलां विकिरिणीं चैव कालीं कमलवासिनीम् ॥

1.41.46

बलविकरिणीं देवीं बलप्रमथिनीं तथा
सर्वभूतस्य दमनीं ससृजे च मनोन्मनीम् ॥

1.41.47

तथान्या बहवः सृष्टास् तया नार्यः सहस्रशः
रुद्रैश्चैव महादेवस् ताभिस्त्रिभुवनेश्वरः ॥

1.41.48

सर्वात्मनश् च तस्याग्रे ह्य् अतिष्ठत्परमेश्वरः
मृतस्य तस्य देवस्य ब्रह्मणः परमेष्ठिनः ॥

1.41.49

घृणी ददौ पुनः प्राणान् ब्रह्मपुत्रो महेश्वरः
ब्रह्मणः प्रददौ प्राणान् आत्मस्थांस्तु तदा प्रभुः ॥

1.41.50

प्रहृष्टो ऽभूत्ततो रुद्रः किंचित्प्रत्यागतासवम्
अभ्यभाषत देवेशो ब्रह्माणं परमं वचः ॥

1.41.51

मा भैर्देव महाभाग विरिञ्च जगतां गुरो
मयेह स्थापिताः प्राणास् तस्मादुत्तिष्ठ वै प्रभो ॥

1.41.52

श्रुत्वा वचस्ततस्तस्य स्वप्नभूतं मनोगतम्
पितामहः प्रसन्नात्मा नेत्रैः फुल्लाम्बुजप्रभैः ॥

1.41.53

ततः प्रत्यागतप्राणः समुदैक्षन् महेश्वरम्
स उद्वीक्ष्य चिरं कालं स्निग्धगंभीरया गिरा ॥

1.41.54

उवाच भगवान् ब्रह्मा समुत्थाय कृताञ्जलिः
भो भो वद महाभाग आनन्दयसि मे मनः ॥

1.41.55

को भवान् अष्टमूर्तिर् वै स्थित एकादशात्मकः
तस्य तद्वचनं श्रुत्वा व्याजहार महेश्वरः ॥

1.41.56

स्पृशन्कराभ्यां ब्रह्माणं सुखाभ्यां स सुरारिहा
मां विद्धि परमात्मानम् एनां मायामजामिति ॥

1.41.57

एते वै संस्थिता रुद्रास् त्वां रक्षितुमिहागताः
ततः प्रणम्य तं ब्रह्मा देवदेवमुवाच ह ॥

1.41.58

कृताञ्जलिपुटो भूत्वा हर्षगद्गदया गिरा
भगवन्देवदेवेश दुःखैराकुलितो ह्यहम् ॥

1.41.59

संसारान्मोक्तुमीशान मामिहार्हसि शङ्कर
ततः प्रहस्य भगवान् पितामहमुमापतिः ॥

1.41.60

तदा रुद्रैर्जगन्नाथस् तया चान्तर्दधे विभुः
तस्माच्छिलाद लोकेषु दुर्लभो वै त्वयोनिजः ॥

1.41.61

मृत्युहीनः पुमान्विद्धि समृत्युः पद्मजो ऽपि सः
किंतु देवेश्वरो रुद्रः प्रसीदति यदीश्वरः ॥

1.41.62

न दुर्लभो मृत्युहीनस् तव पुत्रो ह्ययोनिजः
मया च विष्णुना चैव ब्रह्मणा च महात्मना ॥

1.41.63

अयोनिजं मृत्युहीनम् असमर्थं निवेदितुम्
एवं व्याहृत्य विप्रेन्द्रम् अनुगृह्य च तं घृणी ॥

1.41.64

देवैर्वृतो ययौ देवः सितेनेभेन वै प्रभुः ॥

मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc