भाषा

ENहिગુ
ग्रंथ पाठ

लिङ्गपुराण · अध्याय 1.40

1.40.1

तिष्ये मायामसूयां च वधं चैव तपस्विनाम्
साधयन्ति नरास्तत्र तमसा व्याकुलेन्द्रियाः ॥

1.40.2

कलौ प्रमादको रोगः सततं क्षुद्भयानि च
अनावृष्टिभयं घोरं देशानां च विपर्ययः ॥

1.40.3

न प्रामाण्यं श्रुतेरस्ति नृणां चाधर्मसेवनम्
अधार्मिकास्त्वनाचारा महाकोपाल्पचेतसः ॥

1.40.4

अनृतं ब्रुवते लुब्धास् तिष्ये जाताश् च दुष्प्रजाः
दुरिष्टैर्दुरधीतैश् च दुराचारैर्दुरागमैः ॥

1.40.5

विप्राणां कर्म दोषेण प्रजानां जायते भयम्
नाधीयन्ते तदा वेदान् न यजन्ति द्विजातयः ॥

1.40.6

उत्सीदन्ति नराश्चैव क्षत्रियाश् च विशः क्रमात्
शूद्राणां मन्त्रयोगेन संबन्धो ब्राह्मणैः सह ॥

1.40.7

भवतीह कलौ तस्मिञ् शयनासनभोजनैः
राजानः शूद्रभूयिष्ठा ब्राह्मणान् बाधयन्ति ते ॥

1.40.8

भ्रूणहत्या वीरहत्या प्रजायन्ते प्रजासु वै
शूद्राश् च ब्राह्मणाचाराः शूद्राचाराश् च ब्राह्मणाः ॥

1.40.9

राजवृत्तिस्थिताश् चौराश् चौराचाराश् च पार्थिवाः
एकपत्न्यो न शिष्यन्ति वर्धिष्यन्त्यभिसारिकाः ॥

1.40.10

वर्णाश्रमप्रतिष्ठानो जायते नृषु सर्वतः
तदा स्वल्पफला भूमिः क्वचिच्चापि महाफला ॥

1.40.11

अरक्षितारो हर्तारः पार्थिवाश् च शिलाशन
शूद्रा वै ज्ञानिनः सर्वे ब्राह्मणैरभिवन्दिताः ॥

1.40.12

अक्षत्रियाश् च राजानो विप्राः शूद्रोपजीविनः
आसनस्था द्विजान्दृष्ट्वा न चलन्त्यल्पबुद्धयः ॥

1.40.13

ताडयन्ति द्विजेन्द्रांश् च शूद्रा वै स्वल्पबुद्धयः
आस्ये निधाय वै हस्तं कर्णं शूद्रस्य वै द्विजाः ॥

1.40.14

नीचस्येव तदा वाक्यं वदन्ति विनयेन तम्
उच्चासनस्थान् शूद्रांश् च द्विजमध्ये द्विजर्षभ ॥

1.40.15

ज्ञात्वा न हिंसते राजा कलौ कालवशेन तु
पुष्पैश् च वासितैश्चैव तथान्यैर् मङ्गलैः शुभैः ॥

1.40.16

शूद्रानभ्यर्चयन्त्यल्प श्रुतभाग्यबलान्विताः
न प्रेक्षन्ते गर्विताश् च शूद्रा द्विजवरान् द्विज ॥

1.40.17

सेवावसरम् आलोक्य द्वारे तिष्ठन्ति वै द्विजाः
वाहनस्थान् समावृत्य शूद्राञ्शूद्रोपजीविनः ॥

1.40.18

सेवन्ते ब्राह्मणास्तत्र स्तुवन्ति स्तुतिभिः कलौ
तपोयज्ञफलानां च विक्रेतारो द्विजोत्तमाः ॥

1.40.19

यतयश् च भविष्यन्ति बहवो ऽस्मिन्कलौ युगे
पुरुषाल्पं बहुस्त्रीकं युगान्ते समुपस्थिते ॥

1.40.20

निन्दन्ति वेदविद्यां च द्विजाः कर्माणि वै कलौ
कलौ देवो महादेवः शङ्करो नीललोहितः ॥

1.40.21

प्रकाशते प्रतिष्ठार्थं धर्मस्य विकृताकृतिः
ये तं विप्रा निषेवन्ते येन केनापि शङ्करम् ॥

1.40.22

कलिदोषान् विनिर्जित्य प्रयान्ति परमं पदम्
श्वापदप्रबलत्वं च गवां चैव परिक्षयः ॥

1.40.23

साधूनां विनिवृत्तिश् च वेद्या तस्मिन्युगक्षये
तदा सूक्ष्मो महोदर्को दुर्लभो दानमूलवान् ॥

1.40.24

चातुराश्रमशैथिल्ये धर्मः प्रतिचलिष्यति
अरक्षितारो हर्तारो बलिभागस्य पार्थिवाः ॥

1.40.25

युगान्तेषु भविष्यन्ति स्वरक्षणपरायणाः
अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः ॥

1.40.26

प्रमदाः केशशूलिन्यो भविष्यन्ति कलौ युगे
चित्रवर्षी तदा देवो यदा प्राहुर्युगक्षयम् ॥

1.40.27

सर्वे वणिग्जनाश्चापि भविष्यन्त्यधमे युगे
कुशीलचर्याः पाषण्डैर् वृथारूपैः समावृताः ॥

1.40.28

बहुयाजनको लोको भविष्यति परस्परम्
नाव्याहृतक्रूरवाक्यो नार्जवी नानसूयकः ॥

1.40.29

न कृते प्रतिकर्ता च युगक्षीणे भविष्यति
निन्दकाश्चैव पतिता युगान्तस्य च लक्षणम् ॥

1.40.30

नृपशून्या वसुमती न च धान्यधनावृता
मण्डलानि भविष्यन्ति देशेषु नगरेषु च ॥

1.40.31

अल्पोदका चाल्पफला भविष्यति वसुंधरा
गोप्तारश्चाप्यगोप्तारः सम्भविष्यन्त्यशासनाः ॥

1.40.32

हर्तारः परवित्तानां परदारप्रधर्षकाः
कामात्मानो दुरात्मानो ह्य् अधमाः साहसप्रियाः ॥

1.40.33

प्रनष्टचेष्टनाः पुंसो मुक्तकेशाश् च शूलिनः
जनाः षोडशवर्षाश् च प्रजायन्ते युगक्षये ॥

1.40.34

शुक्लदन्ताजिनाक्षाश् च मुण्डाः काषायवाससः
शूद्रा धर्मं चरिष्यन्ति युगान्ते समुपस्थिते ॥

1.40.35

सस्यचौरा भविष्यन्ति दृढचैलाभिलाषिणः
चौराश्चोरस्वहर्तारो हर्तुर्हर्ता तथापरः ॥

1.40.36

योग्यकर्मण्युपरते लोके निष्क्रियतां गते
कीटमूषकसर्पाश् च धर्षयिष्यन्ति मानवान् ॥

1.40.37

सुभिक्षं क्षेममारोग्यं सामर्थ्यं दुर्लभं तदा
कौशिकीं प्रतिपत्स्यन्ते देशान्क्षुद्भयपीडिताः ॥

1.40.38

दुःखेनाभिप्लुतानां च परमायुः शतं तदा
दृश्यन्ते न च दृश्यन्ते वेदाः कलियुगे ऽखिलाः ॥

1.40.39

उत्सीदन्ति तदा यज्ञाः केवलाधर्मपीडिताः
काषायिणो ऽप्यनिर्ग्रन्थाः कापालीबहुलास्त्विह ॥

1.40.40

वेदविक्रयिणश्चान्ये तीर्थविक्रयिणः परे
वर्णाश्रमाणां ये चान्ये पाषण्डाः परिपन्थिनः ॥

1.40.41

उत्पद्यन्ते तदा ते वै सम्प्राप्ते तु कलौ युगे
अधीयन्ते तदा वेदाञ् शूद्रा धर्मार्थकोविदाः ॥

1.40.42

यजन्ते चाश्वमेधेन राजानः शूद्रयोनयः
स्त्रीबालगोवधं कृत्वा हत्वा चैव परस्परम् ॥

1.40.43

उपद्रवांस्तथान्योन्यं साधयन्ति तदा प्रजाः
दुःखप्रभूतमल्पायुर् देहोत्सादः सरोगता ॥

1.40.44

अधर्माभिनिवेशित्वात् तमोवृत्तं कलौ स्मृतम्
प्रजासु ब्रह्महत्यादि तदा वै सम्प्रवर्तते ॥

1.40.45

तस्मादायुर्बलं रूपं कलिं प्राप्य प्रहीयते
तदा त्वल्पेन कालेन सिद्धिं गच्छन्ति मानवाः ॥

1.40.46

धन्या धर्मं चरिष्यन्ति युगान्ते द्विजसत्तमाः
श्रुतिस्मृत्युदितं धर्मं ये चरन्त्यनसूयकाः ॥

1.40.47

त्रेतायां वार्षिको धर्मो द्वापरे मासिकः स्मृतः
यथाक्लेशं चरन्प्राज्ञस् तदह्ना प्राप्नुते कलौ ॥

1.40.48

एषा कलियुगावस्था संध्यांशं तु निबोध मे
युगे युगे च हीयन्ते त्रींस्त्रीन्पादांस्तु सिद्धयः ॥

1.40.49

युगस्वभावाः संध्यास्तु तिष्ठन्तीह तु पादशः
संध्यास्वभावाः स्वांशेषु पादशस्ते प्रतिष्ठिताः ॥

1.40.50

एवं संध्यांशके काले सम्प्राप्ते तु युगान्तिके
तेषां शास्ता ह्यसाधूनां भूतानां निधनोत्थितः ॥

1.40.51

गोत्रे ऽस्मिन्वै चन्द्रमसो नाम्ना प्रमितिरुच्यते
मानवस्य तु सो ऽंशेन पूर्वं स्वायंभुवे ऽन्तरे ॥

1.40.52

समाः स विंशतिः पूर्णाः पर्यटन्वै वसुंधराम्
अनुकर्षन् स वै सेनां सवाजिरथकुञ्जराम् ॥

1.40.53

प्रगृहीतायुधैर्विप्रैः शतशो ऽथ सहस्रशः
स तदा तैः परिवृतो म्लेच्छान् हन्ति सहस्रशः ॥

1.40.54

स हत्वा सर्वशश्चैव राज्ञस्ताञ्शूद्रयोनिजान्
पाखण्डांस्तु ततः सर्वान् निःशेषं कृतवान् प्रभुः ॥

1.40.55

नात्यर्थं धार्मिका ये च तान् सर्वान् हन्ति सर्वतः
वर्णव्यत्यासजाताश् च ये च ताननुजीविनः ॥

1.40.56

प्रवृत्तचक्रो बलवान् म्लेच्छानामन्तकृत्स तु
अधृष्यः सर्वभूतानां चचाराथ वसुंधराम् ॥

1.40.57

मानवस्य तु सो ऽंशेन देवस्येह विजज्ञिवान्
पूर्वजन्मनि विष्णोस्तु प्रमितिर्नाम वीर्यवान् ॥

1.40.58

गोत्रतो वै चन्द्रमसः पूर्णे कलियुगे प्रभुः
द्वात्रिंशे ऽभ्युदिते वर्षे प्रक्रान्तो विंशतिः समाः ॥

1.40.59

विनिघ्नन्सर्वभूतानि शतशो ऽथ सहस्रशः
कृत्वा बीजावशेषां तु पृथिवीं क्रूरकर्मणः ॥

1.40.60

परस्परनिमित्तेन कोपेनाकस्मिकेन तु
स साधयित्वा वृषलान् प्रायशस् तान् अधार्मिकान् ॥

1.40.61

गङ्गायमुनयोर्मध्ये स्थितिं प्राप्तः सहानुगः
ततो व्यतीते काले तु सामात्यः सहसैनिकः ॥

1.40.62

उत्साद्य पार्थिवान् सर्वान् म्लेच्छांश्चैव सहस्रशः
तत्र संध्यांशके काले सम्प्राप्ते तु युगान्तिके ॥

1.40.63

स्थितास्वल्पावशिष्टासु प्रजास्विह क्वचित्क्वचित्
अप्रग्रहास्ततस्ता वै लोभाविष्टास्तु कृत्स्नशः ॥

1.40.64

उपहिंसन्ति चान्योन्यं प्रणिपत्य परस्परम्
अराजके युगवशात् संशये समुपस्थिते ॥

1.40.65

प्रजास्ता वै ततः सर्वाः परस्परभयार्दिताः
व्याकुलाश् च परिभ्रान्तास् त्यक्त्वा दारान् गृहाणि च ॥

1.40.66

स्वान्प्राणान् अनपेक्षन्तो निष्कारुण्याः सुदुःखिताः
नष्टे श्रौते स्मार्तधर्मे परस्परहतास्तदा ॥

1.40.67

निर्मर्यादा निराक्रान्ता निःस्नेहा निरपत्रपाः
नष्टे धर्मे प्रतिहताः ह्रस्वकाः पञ्चविंशकाः ॥

1.40.68

हित्वा पुत्रांश् च दारांश् च विवादव्याकुलेन्द्रियाः
अनावृष्टिहताश्चैव वार्तामुत्सृज्य दूरतः ॥

1.40.69

प्रत्यन्तानुपसेवन्ते हित्वा जनपदान् स्वकान्
सरित्सागरकूपांस्ते सेवन्ते पर्वतांस् तथा ॥

1.40.70

मधुमांसैर्मूलफलैर् वर्तयन्ति सुदुःखिताः
चीरपत्राजिनधरा निष्क्रिया निष्परिग्रहाः ॥

1.40.71

वर्णाश्रमपरिभ्रष्टाः संकटं घोरमास्थिताः
एवं कष्टमनुप्राप्ता अल्पशेषाः प्रजास्तदा ॥

1.40.72

जराव्याधिक्षुधाविष्टा दुःखान्निर्वेदमानसाः
विचारणा तु निर्वेदात् साम्यावस्था विचारणा ॥

1.40.73

साम्यावस्थात्मको बोधः संबोधाद्धर्मशीलता
अरूपशमयुक्तास्तु कलिशिष्टा हि वै स्वयम् ॥

1.40.74

अहोरात्रात्तदा तासां युगं तु परिवर्तते
चित्तसंमोहनं कृत्वा तासां वै सुप्तमत्तवत् ॥

1.40.75

भाविनो ऽर्थस्य च बलात् ततः कृतमवर्तत
प्रवृत्ते तु ततस्तस्मिन् पुनः कृतयुगे तु वै ॥

1.40.76

उत्पन्नाः कलिशिष्टास्तु प्रजाः कार्तयुगास्तदा
तिष्ठन्ति चेह ये सिद्धा अदृष्टा विचरन्ति च ॥

1.40.77

सप्त सप्तर्षिभिश्चैव तत्र ते तु व्यवस्थिताः
ब्रह्मक्षत्रविशः शूद्रा बीजार्थं ये स्मृता इह ॥

1.40.78

कलिजैः सह ते सर्वे निर्विशेषास्तदाभवन्
तेषां सप्तर्षयो धर्मं कथयन्तीतरे ऽपि च ॥

1.40.79

वर्णाश्रमाचारयुतं श्रौतं स्मार्तं द्विधा तु यम्
ततस्तेषु क्रियावत्सु वर्धन्ते वै प्रजाः कृते ॥

1.40.80

श्रौतस्मार्तकृतानां च धर्मे सप्तर्षिदर्शिते
केचिद्धर्मव्यवस्थार्थं तिष्ठन्तीह युगक्षये ॥

1.40.81

मन्वन्तराधिकारेषु तिष्ठन्ति मुनयस्तु वै
यथा दावप्रदग्धेषु तृणेष्विह ततः क्षितौ ॥

1.40.82

वनानां प्रथमं वृष्ट्या तेषां मूलेषु संभवः
तथा कार्तयुगानां तु कलिजेष्विह संभवः ॥

1.40.83

एवं युगाद्युगस्येह संतानं तु परस्परम्
वर्तते ह व्यवच्छेदाद् यावन्मन्वन्तरक्षयः ॥

1.40.84

सुखमायुर्बलं रूपं धर्मो ऽर्थः काम एव च
युगेष्वेतानि हीयन्ते त्रींस्त्रीन् पादान् क्रमेण तु ॥

1.40.85

ससंध्यांशेषु हीयन्ते युगानां धर्मसिद्धयः
इत्येषा प्रतिसिद्धिर्वै कीर्तितैषा क्रमेण तु ॥

1.40.86

चतुर्युगानां सर्वेषाम् अनेनैव तु साधनम्
एषा चतुर्युगावृत्तिर् आ सहस्राद् गुणीकृता ॥

1.40.87

ब्रह्मणस्तदहः प्रोक्तं रात्रिश्चैतावती स्मृता
अनार्जवं जडीभावो भूतानाम् आ युगक्षयात् ॥

1.40.88

एतदेव तु सर्वेषां युगानां लक्षणं स्मृतम्
एषां चतुर्युगाणां च गुणिता ह्येकसप्ततिः ॥

1.40.89

क्रमेण परिवृत्ता तु मनोरन्तरम् उच्यते
चतुर्युगे यथैकस्मिन् भवतीह यदा तु यत् ॥

1.40.90

तथा चान्येषु भवति पुनस्तद्वै यथाक्रमम्
सर्गे सर्गे यथा भेदा उत्पद्यन्ते तथैव तु ॥

1.40.91

पञ्चविंशत्परिमिता न न्यूना नाधिकास् तथा
तथा कल्पा युगैः सार्धं भवन्ति सह लक्षणैः ॥

1.40.92

मन्वन्तराणां सर्वेषाम् एतदेव तु लक्षणम् ॥

1.40.93

यथा युगानां परिवर्तनानि चिरप्रवृत्तानि युगस्वभावात्
तथा तु संतिष्ठति जीवलोकः क्षयोदयाभ्यां परिवर्तमानः ॥

1.40.94

इत्येतल्लक्षणं प्रोक्तं युगानां वै समासतः
अतीतानागतानां हि सर्वमन्वन्तरेषु वै ॥

1.40.95

मन्वन्तरेण चैकेन सर्वाण्येवान्तराणि च
व्याख्यातानि न संदेहः कल्पः कल्पेन चैव हि ॥

1.40.96

अनागतेषु तद्वच्च तर्कः कार्यो विजानता
मन्वन्तरेषु सर्वेषु अतीतानागतेष्विह ॥

1.40.97

तुल्याभिमानिनः सर्वे नामरूपैर्भवन्त्युत
देवा ह्यष्टविधा ये च ये च मन्वन्तरेश्वराः ॥

1.40.98

ऋषयो मनवश्चैव सर्वे तुल्यप्रयोजनाः
एवं वर्णाश्रमाणां तु प्रविभागो युगे युगे ॥

1.40.99

युगस्वभावश् च तथा विधत्ते वै तदा प्रभुः
वर्णाश्रमविभागाश् च युगानि युगसिद्धयः ॥

1.40.100

युगानां परिमाणं ते कथितं हि प्रसङ्गतः
वदामि देवीपुत्रत्वं पद्मयोनेः समासतः ॥

मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc