लिङ्गपुराण · अध्याय 1.39
श्रुत्वा शक्रेण कथितं पिता मम महामुनिः
पुनः पप्रच्छ देवेशं प्रणम्य रचिताञ्जलिः ॥
भगवन् शक्र सर्वज्ञ देवदेवनमस्कृत
शचीपते जगन्नाथ सहस्राक्ष महेश्वर ॥
युगधर्मान्कथं चक्रे भगवान्पद्मसंभवः
वक्तुमर्हसि मे सर्वं सांप्रतं प्रणताय मे ॥
तस्य तद्वचनं श्रुत्वा शिलादस्य महात्मनः
व्याजहार यथादृष्टं युगधर्मं सुविस्तरम् ॥
आद्यं कृतयुगं विद्धि ततस्त्रेतायुगं मुने
द्वापरं तिष्यमित्येते चत्वारस्तु समासतः ॥
सत्त्वं कृतं रजस्त्रेता द्वापरं च रजस्तमः
कलिस्तमश् च विज्ञेयं युगवृत्तिर्युगेषु च ॥
ध्यानं परं कृतयुगे त्रेतायां यज्ञ उच्यते
भजनं द्वापरे शुद्धं दानमेव कलौ युगे ॥
चत्वारि च सहस्राणि वर्षाणां तत्कृतं युगम्
तस्य तावच्छती संध्या संध्यांशश् च तथाविधः ॥
चत्वारि च सहस्राणि मानुषाणि शिलाशन
आयुः कृतयुगे विद्धि प्रजानामिह सुव्रत ॥
ततः कृतयुगे तस्मिन् संध्यांशे च गते तु वै
पादावशिष्टो भवति युगधर्मस्तु सर्वतः ॥
चतुर्भागैकहीनं तु त्रेतायुगमनुत्तमम्
कृतार्धं द्वापरं विद्धि तदर्धं तिष्यमुच्यते ॥
त्रिशती द्विशती संध्या तथा चैकशती मुने
संध्यांशकं तथाप्येवं कल्पेष्वेवं युगे युगे ॥
आद्ये कृतयुगे धर्मश् चतुष्पादः सनातनः
त्रेतायुगे त्रिपादस्तु द्विपादो द्वापरे स्थितः ॥
त्रिपादहीनस्तिष्ये तु सत्तामात्रेण धिष्ठितः
कृते तु मिथुनोत्पत्तिर् वृत्तिः साक्षाद्रसोल्लसा ॥
प्रजास्तृप्ताः सदा सर्वाः सर्वानन्दाश् च भोगिनः
अधमोत्तमता तासां न विशेषाः प्रजाः शुभाः ॥
तुल्यमायुः सुखं रूपं तासां तस्मिन्कृते युगे
तासां प्रीतिर्न च द्वन्द्वं न द्वेषो नास्ति च क्लमः ॥
पर्वतोदधिवासिन्यो ह्य् अनिकेताश्रयास्तु ताः
विशोकाः सत्त्वबहुला एकान्तबहुलास् तथा ॥
ता वै निष्कामचारिण्यो नित्यं मुदितमानसाः
अप्रवृत्तिः कृतयुगे कर्मणोः शुभपापयोः ॥
वर्णाश्रमव्यवस्था च तदासीन्न च संकरः
रसोल्लासः कालयोगात् त्रेताख्ये नश्यते द्विज ॥
तस्यां सिद्धौ प्रनष्टायाम् अन्या सिद्धिः प्रजायते
अपां सौक्ष्म्ये प्रतिगते तदा मेघात्मना तु वै ॥
मेघेभ्यस्तनयित्नुभ्यः प्रवृत्तं वृष्टिसर्जनम्
सकृद् एव तथा वृष्ट्या संयुक्ते पृथिवीतले ॥
प्रादुरासंस्तदा तासां वृक्षास्ते गृहसंज्ञिताः
सर्ववृत्त्युपभोगस्तु तासां तेभ्यः प्रजायते ॥
वर्तयन्ति स्म तेभ्यस्तास् त्रेतायुगमुखे प्रजाः
ततः कालेन महता तासामेव विपर्ययात् ॥
रागलोभात्मको भावस् तदा ह्याकस्मिको ऽभवत्
विपर्ययेण तासां तु तेन तत्कालभाविना ॥
प्रणश्यन्ति ततः सर्वे वृक्षास्ते गृहसंज्ञिताः
ततस्तेषु प्रनष्टेषु विभ्रान्ता मैथुनोद्भवाः ॥
अपि ध्यायन्ति तां सिद्धिं सत्याभिध्यायिनस्तदा
प्रादुर्बभूवुस्तासां तु वृक्षास्ते गृहसंज्ञिताः ॥
वस्त्राणि ते प्रसूयन्ते फलान्याभरणानि च
तेष्वेव जायते तासां गन्धवर्णरसान्वितम् ॥
अमाक्षिकं महीवीर्यं पुटके पुटके मधु
तेन ता वर्तयन्ति स्म सुखमायुः सदैव हि ॥
हृष्टपुष्टास्तया सिद्ध्या प्रजा वै विगतज्वराः
ततः कालान्तरेणैव पुनर्लोभावृतास्तु ताः ॥
वृक्षांस्तान्पर्यगृह्णन्ति मधु वा माक्षिकं बलात्
तासां तेनोपचारेण पुनर्लोभकृतेन वै ॥
प्रनष्टा मधुना सार्धं कल्पवृक्षाः क्वचित्क्वचित्
तस्यामेवाल्पशिष्टायां सिद्ध्यां कालवशात्तदा ॥
आवर्तनात्तु त्रेतायां द्वन्द्वान्यभ्युत्थितानि वै
शीतवर्षातपैस्तीव्रैस् ततस्ता दुःखिता भृशम् ॥
द्वन्द्वैः सम्पीड्यमानाश् च चक्रुर् आवरणानि तु
कृतद्वन्द्वप्रतीघाताः केतनानि गिरौ ततः ॥
पूर्वं निकामचारास्ता ह्य् अनिकेता अथावसन्
यथायोगं यथाप्रीति निकेतेष्ववसन्पुनः ॥
कृत्वा द्वन्द्वोपघातांस्तान् वृत्त्युपायमचिन्तयन्
नष्टेषु मधुना सार्धं कल्पवृक्षेषु वै तदा ॥
विवादव्याकुलास्ता वै प्रजास्तृष्णाक्षुधार्दिताः
ततः प्रादुर्बभौ तासां सिद्धिस्त्रेतायुगे पुनः ॥
वार्तायाः साधिकाप्यन्या वृष्टिस्तासां निकामतः
तासां वृष्ट्युदकादीनि ह्य् अभवन्निम्नगानि तु ॥
अभवन्वृष्टिसंतत्या स्रोतस्थानानि निम्नगाः
एवं नद्यः प्रवृत्तास्तु द्वितीये वृष्टिसर्जने ॥
ये पुनस्तदपां स्तोकाः पतिताः पृथिवीतले
अपां भूमेश् च संयोगाद् ओषध्यस्तास्तदाभवन् ॥
अथाल्पकृष्टाश्चानुप्ता ग्राम्यारण्याश्चतुर्दश
ऋतुपुष्पफलाश्चैव वृक्षगुल्माश् च जज्ञिरे ॥
प्रादुर्भूतानि चैतानि वृक्षजात्यौषधानि च
तेनौषधेन वर्तन्ते प्रजास्त्रेतायुगे तदा ॥
ततः पुनरभूत्तासां रागो लोभश् च सर्वशः
अवश्यं भाविनार्थेन त्रेतायुगवशेन च ॥
ततस्ताः पर्यगृह्णन्त नदीक्षेत्राणि पर्वतान्
वृक्षगुल्मौषधीश्चैव प्रसह्य तु यथाबलम् ॥
विपर्ययेण चौषध्यः प्रनष्टास्ताश्चतुर्दश
मत्वा धरां प्रविष्टास्ता इत्यौषध्यः पितामहः ॥
दुदोह गां प्रयत्नेन सर्वभूतहिताय वै
तदाप्रभृति चौषध्यः फालकृष्टास्त्वितस्ततः ॥
वार्तां कृषिं समायाता वर्तुकामाः प्रयत्नतः
वार्ता वृत्तिः समाख्याता कृषिकामप्रयत्नतः ॥
अन्यथा जीवितं तासां नास्ति त्रेतायुगात्यये
हस्तोद्भवा ह्यपश्चैव भवन्ति बहुशस्तदा ॥
तत्रापि जगृहुः सर्वे चान्योन्यं क्रोधमूर्छिताः
सुतदारधनाद्यांस्तु बलाद्युगबलेन तु ॥
मर्यादायाः प्रतिष्ठार्थं ज्ञात्वा तदखिलं विभुः
ससर्ज क्षत्रियांस्त्रातुं क्षतात्कमलसंभवः ॥
वर्णाश्रमप्रतिष्ठां च चकार स्वेन तेजसा
वृत्तेन वृत्तिना वृत्तं विश्वात्मा निर्ममे स्वयम् ॥
यज्ञप्रवर्तनं चैव त्रेतायामभवत्क्रमात्
पशुयज्ञं न सेवन्ते केचित्तत्रापि सुव्रताः ॥
बलाद्विष्णुस्तदा यज्ञम् अकरोत्सर्वदृक् क्रमात्
द्विजास्तदा प्रशंसन्ति ततस्त्वाहिंसकं मुने ॥
द्वापरेष्वपि वर्तन्ते मतिभेदास्तदा नृणाम्
मनसा कर्मणा वाचा कृच्छ्राद्वार्ता प्रसिध्यति ॥
तदा तु सर्वभूतानां कायक्लेशवशात्क्रमात्
लोभो भृतिर्वणिग्युद्धं तत्त्वानामविनिश्चयः ॥
वेदशाखाप्रणयनं धर्माणां संकरस् तथा
वर्णाश्रमपरिध्वंसः कामद्वेषौ तथैव च ॥
द्वापरे तु प्रवर्तन्ते रागो लोभो मदस् तथा
वेदो व्यासैश्चतुर्धा तु व्यस्यते द्वापरादिषु ॥
एको वेदश्चतुष्पादस् त्रेतास्विह विधीयते
संक्षयादायुषश्चैव व्यस्यते द्वापरेषु सः ॥
ऋषिपुत्रैः पुनर्भेदा भिद्यन्ते दृष्टिविभ्रमैः
मन्त्रब्राह्मणविन्यासैः स्वरवर्णविपर्ययैः ॥
संहिता ऋग्यजुःसाम्नां संहन्यन्ते मनीषिभिः
सामान्या वैकृताश्चैव द्रष्टृभिस्तैः पृथक्पृथक् ॥
ब्राह्मणं कल्पसूत्राणि मन्त्रप्रवचनानि च
अन्ये तु प्रस्थितास्तान्वै केचित्तान्प्रत्यवस्थिताः ॥
इतिहासपुराणानि भिद्यन्ते कालगौरवात्
ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा ॥
भविष्यं नारदीयं च मार्कण्डेयमतः परम्
आग्नेयं ब्रह्मवैवर्तं लैङ्गं वाराहमेव च ॥
वामनाख्यं ततः कूर्मं मात्स्यं गारुडमेव च
स्कान्दं तथा च ब्रह्माण्डं तेषां भेदः प्रकथ्यते ॥
लैङ्गम् एकादशविधं प्रभिन्नं द्वापरे शुभम्
मन्वत्रिविष्णुहारीत याज्ञवल्क्योशनो ऽङ्गिराः ॥
यमापस्तम्बसंवर्ताः कात्यायनबृहस्पती
पराशरव्यासशङ्ख लिखिता दक्षगौतमौ ॥
शातातपो वसिष्ठश् च एवमाद्यैः सहस्रशः
अवृष्टिर्मरणं चैव तथा व्याध्याद्युपद्रवाः ॥
वाङ्मनःकर्मजैर् दुःखैर् निर्वेदो जायते ततः
निर्वेदाज्जायते तेषां दुःखमोक्षविचारणा ॥
विचारणाच्च वैराग्यं वैराग्याद्दोषदर्शनम्
दोषाणां दर्शनाच्चैव द्वापरे ज्ञानसंभवः ॥
एषा रजस्तमोयुक्ता वृत्तिर् वै द्वापरे स्मृता
आद्ये कृते तु धर्मो ऽस्ति स त्रेतायां प्रवर्तते ॥
द्वापरे व्याकुलीभूत्वा प्रणश्यति कलौ युगे ॥
मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0