भाषा

ENहिગુ
ग्रंथ पाठ

लिङ्गपुराण · अध्याय 1.3

1.3.1

अलिङ्गो लिङ्गमूलं तु अव्यक्तं लिङ्गमुच्यते
अलिङ्गः शिव इत्युक्तो लिङ्गं शैवमिति स्मृतम् ॥

1.3.2

प्रधानं प्रकृतिश्चेति यदाहुर्लिङ्गमुत्तमम्
गन्धवर्णरसैर्हीनं शब्दस्पर्शादिवर्जितम् ॥

1.3.3

अगुणं ध्रुवमक्षय्यम् अलिङ्गं शिवलक्षणम्
गन्धवर्णरसैर्युक्तं शब्दस्पर्शादिलक्षणम् ॥

1.3.4

जगद्योनिं महाभूतं स्थूलं सूक्ष्मं द्विजोत्तमाः
विग्रहो जगतां लिङ्गम् अलिङ्गाद् अभवत्स्वयम् ॥

1.3.5

सप्तधाचाष्टधा चैव तथैकादशधा पुनः
लिङ्गान्यलिङ्गस्य तथा मायया विततानि तु ॥

1.3.6

तेभ्यः प्रधानदेवानां त्रयमासीच्छिवात्मकम्
एकस्मात्त्रिष्वभूद्विश्वम् एकेन परिरक्षितम् ॥

1.3.7

एकेनैव हृतं विश्वं व्याप्तं त्वेवं शिवेन तु
अलिङ्गं चैव लिङ्गं च लिङ्गालिङ्गानि मूर्तयः ॥

1.3.8

यथावत्कथिताश्चैव तस्माद्ब्रह्म स्वयं जगत्
अलिङ्गी भगवान् बीजी स एव परमेश्वरः ॥

1.3.9

बीजं योनिश् च निर्बीजं निर्बीजो बीजमुच्यते
बीजयोनिप्रधानानाम् आत्माख्या वर्तते त्विह ॥

1.3.10

परमात्मा मुनिर्ब्रह्म नित्यबुद्धस्वभावतः
विशुद्धो ऽयं तथा रुद्रः पुराणे शिव उच्यते ॥

1.3.11

शिवेन दृष्टा प्रकृतिः शैवी समभवद्द्विजाः
सर्गादौ सा गुणैर्युक्ता पुराव्यक्ता स्वभावतः ॥

1.3.12

अव्यक्तादिविशेषान्तं विश्वं तस्याः समुच्छ्रितम्
विश्वधात्री त्वजाख्या च शैवी सा प्रकृतिः स्मृता ॥

1.3.13

तामजां लोहितां शुक्लां कृष्णामेकां बहुप्रजाम्
जनित्रीमनुशेते स्म जुषमाणः स्वरूपिणीम् ॥

1.3.14

तामेवाजामजो ऽन्यस्तु भुक्तभोगां जहाति च
अजा जनित्री जगतां साजेन समधिष्ठिता ॥

1.3.15

प्रादुर्बभूव स महान् पुरुषाधिष्ठितस्य च
अजाज्ञया प्रधानस्य सर्गकाले गुणैस् त्रिभिः ॥

1.3.16

सिसृक्षया चोद्यमानः प्रविश्याव्यक्तमव्ययम्
व्यक्तसृष्टिं विकुरुते चात्मनाधिष्ठितो महान् ॥

1.3.17

महतस्तु तथा वृत्तिः संकल्पाध्यवसायिका
महतस् त्रिगुणस् तस्माद् अहंकारो रजो ऽधिकः ॥

1.3.18

तेनैव चावृतः सम्यग् अहंकारस् तमो ऽधिकः
महतो भूततन्मात्रं सर्गकृद्वै बभूव च ॥

1.3.19

अहंकाराच्छब्दमात्रं तस्मादाकाशमव्ययम्
सशब्दमावृणोत्पश्चाद् आकाशं शब्दकारणम् ॥

1.3.20

तन्मात्राद्भूतसर्गश् च द्विजास्त्वेवं प्रकीर्तितः
स्पर्शमात्रं तथाकाशात् तस्माद्वायुर् महान्मुने ॥

1.3.21

तस्माच्च रूपमात्रं तु ततो ऽग्निश्च रसस्ततः
रसादापः शुभास्ताभ्यो गन्धमात्रं धरा ततः ॥

1.3.22

आवृणोद्धि तथाकाशं स्पर्शमात्रं द्विजोत्तमाः
आवृणोद्रूपमात्रं तु वायुर्वाति क्रियात्मकः ॥

1.3.23

आवृणोद्रसमात्रं वै देवः साक्षाद्विभावसुः
आवृण्वाना गन्धमात्रम् आपः सर्वरसात्मिकाः ॥

1.3.24

क्ष्मा सा पञ्चगुणा तस्माद् एकोना रससम्भवाः
त्रिगुणो भगवान्वह्निर् द्विगुणः स्पर्शसम्भवः ॥

1.3.25

अवकाशस्ततो देव एकमात्रस्तु निष्कलः
तन्मात्राद्भूतसर्गश् च विज्ञेयश् च परस्परम् ॥

1.3.26

वैकारिकः सात्त्विको वै युगपत्सम्प्रवर्तते
सर्गस् तथाप्यहंकाराद् एवमत्र प्रकीर्तितः ॥

1.3.27

पञ्च बुद्धीन्द्रियाण्यस्य पञ्च कर्मेन्द्रियाणि तु
शब्दादीनामवाप्त्यर्थं मनश्चैवोभयात्मकम् ॥

1.3.28

महदादिविशेषान्ता ह्य् अण्डमुत्पादयन्ति च
जलबुद्बुदवत्तस्माद् अवतीर्णः पितामहः ॥

1.3.29

स एव भगवान् रुद्रो विष्णुर्विश्वगतः प्रभुः
तस्मिन्नण्डे त्विमे लोका अन्तर्विश्वमिदं जगत् ॥

1.3.30

अण्डं दशगुणेनैव वारिणा प्रावृतं बहिः
आपो दशगुणेनैव तद्बाह्यस्तेजसा वृताः ॥

1.3.31

तेजो दशगुणेनैव बाह्यतो वायुना वृतम्
वायुर्दशगुणेनैव बाह्यतो नभसा वृतः ॥

1.3.32

आकाशेनावृतो वायुर् अहंकारेण शब्दजः
महता शब्दहेतुर्वै प्रधानेनावृतः स्वयम् ॥

1.3.33

सप्ताण्डावरणान्याहुस् तस्यात्मा कमलासनः
कोटिकोटियुतान्यत्र चाण्डानि कथितानि तु ॥

1.3.34

तत्रतत्र चतुर्वक्त्रा ब्रह्माणो हरयो भवाः
सृष्टाः प्रधानेन तदा लब्ध्वा शम्भोस्तु संनिधिम् ॥

1.3.35

लयश्चैव तथान्योन्यम् आन्द्यन्तम् इति कीर्तितम्
सर्गस्य प्रतिसर्गस्य स्थितेः कर्ता महेश्वरः ॥

1.3.36

सर्गे च रजसा युक्तः सत्त्वस्थः प्रतिपालने
प्रतिसर्गे तमोद्रिक्तः स एव त्रिविधः क्रमात् ॥

1.3.37

आदिकर्ता च भूतानां संहर्ता परिपालकः
तस्मान्महेश्वरो देवो ब्रह्मणो ऽधिपतिः शिवः ॥

1.3.38

सदाशिवो भवो विष्णुर् ब्रह्मा सर्वात्मको यतः
एकदण्डे तथा लोका इमे कर्ता पितामहः ॥

1.3.39

प्राकृतः कथितस्त्वेष पुरुषाधिष्ठितो मया
सर्गश् चाबुद्धिपूर्वस्तु द्विजाः प्राथमिकः शुभः ॥

मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc